विष्णुलहरी-३

मृगदन्तिमुखान् मया सह प्रतिरुद्धान् भवजालबन्धने ।
तव माम् अपहाय मुञ्चतः करुणा किं[3b] न भिनत्ति मानसम् ॥२१॥

निरुपाधिजनार्त्तिहारिणं भगवंस्त्वाम् अवबुद्ध्य तत्त्वतः ।
कृतपुण्यरसावलेहनं[कृतपुण्यचयावहेलनं] कथम् अब्जेक्षण माम् उपेक्षसे ॥२२॥

सततं निगमेषु शृण्वता वरद त्वां पतितानुपावनम् ।
उरुपापम् उपास्यतेऽनिशं त्वयि विश्वासधिया मया विभो ॥२३॥

सुकृतं न कृतं पुरा कदाप्यथ सर्व्वं कृतमेव दुष्कृतम् ।
अधुना गलितह्रिया मया भगवंस्त्वां प्रति किं निगद्यताम् ॥२४॥

मदकामविमोहमत्सरा रिपवस्त्वत्पुर एव विह्वलम् ।
धृतशा[4a]र्ङ्गदासिनन्दक(धृतशार्ङ्गगदासिनन्दक) प्रतिकर्षन्ति कथं न बुद्धसे(लज्जसे) ॥२५॥

अपि गर्त्तमुखे गतः शिशुः पथिकेनापि निवार्य्यते जवात् ।
जनकेतपतन्(जनकेन पतन्) भवार्णवेन(भवार्णवे) न निवार्य्यो भवता कथं विभो ॥२६॥

सुकृतप्रिय इत्यथास्तु ते सुकृतिभ्यः सुखदश्च सुप्रथाः ।
अपि पापमबिभ्रतस्तु मां तव विश्वम्भर नाम दुर्ल्लभम् ॥२७॥

वचनैः परुषैरिह प्रभो यदि रोषं समुपागतोसि मे ।
मुखरं कृतकोटिकल्मषं करुणाब्द्धे जगतोपसारय ॥२८॥

यदि वीक्ष्य द[4b]दासि मत्कृतिं न मयैव प्रतिगृह्यते तदा ।
अथ चेन्निजमाशयं तदा परितुष्यन् शिरसा वहामि तत् ॥२९॥

पतितोप्यतिदुर्ग्गुणोपि सन्नकृतज्ञो निखिलागसां पदम् ।
भवदीय इतीरय[यं]स्त्वया दयनीयस्त्रपनीयकेवलम्[दयनीयस्त्रपयैव केवलम्] ॥३०॥

विष्णुलहरी-२

पुरातनानां वचसाम् अगोचरं
महेशितारं पुरुषोत्तमं पतिम् ।
अपास्य तं त्वां निरपत्रपा सती
सती मतिर्म्मे कथमन्यमेष्यति ॥११॥

न जाग्रति स्वप्नदशान्तरेपि वा
परं विजाने तव पादपकङ्जात् ।
इति स्म सत्यं यदि भाषितं मया
कदा जगन्नाथ(य)क माम् उरीकुरु ॥१२॥

इति दीनतरं दयानिधे दुरवस्थं सकलैः समुज्झितम् ।
अधुनापि न मां निभालयन् भजसे हा कथमश्मचित्तताम् ॥१३॥

सुमहन्ति जगन्ति बिभ्रतः तव यो नाविरभू[2b]त् मनागपि ।
स कथं परमात्म देहिनः परमाणोर्म्मम धारणे श्रमः ॥१४॥

नितरां विनयेन पृच्छते सुविचारोत्तमयच्छ(सुविचार्य्योत्तरमत्र) यच्छ मे ।
करितो गिरितोप्यहं गुरुः त्वरितो नोद्धरसे यदाद्य(यदद्य) माम् ॥१५॥

न धनं न च राज्यसम्पदं न हि विद्याम् इदमेकमर्त्थये ।
मयि धेहि मनागपि प्रभो करुणाभङ्गितरङ्गितां दृशम् ॥१६॥

अयमत्यधमोपि दुर्ग्गुणो दम(य)नीयो भवता दयानिधे ।
वमतां फणिनां विषानलं किमु नानन्दयतीह चन्दनः ॥१७॥

क्षुधितस्य न[3a] हि त्रपास्ति मे प्रतिपथ्यं प्रतिगृह्णतः कणान् ।
अकलङ्कयशस्करं न ते भवदीयोपि यदन्यमृच्छति ॥१८॥

नितरां नरकेपि सीदतः किमु हीनं गलितत्रपश्(स्)य मे ।
भगवन् कुरु सूक्ष्मम् ईक्षणं परतस्त्वां जनतः(ता) किमालये(पे)त् ॥१९॥

नरके निजकर्म्मकल्पिता भजतो मे महतीरपि व्यथाः ।
इदम् एकम् असह्यम् ईक्षका यदनाथं निगदन्ति मां विभो ॥२०॥

विष्णुलहरी – १

श्रीगणेशाय नमः

नि(वि)षीदतां(ता) नाथ विषानलोपमे
विषादभूमौ भवसागरे हरे ।
परं प्रतीकारम् अपास्यताधुना(अपश्यताधुना)
मयायमात्मा भवते निवेदितः ॥१॥

भवानलज्वालविलुप्तचेतनः
शरण्य तेङ्घ्री(ङ्घ्रि)शरणं भयाद् अयम् ।
विभाव्य भूयोपि दयासुधाम्बुधे
विधेहि भो नाथ तथा यथेच्छसि ॥२॥

विहाय संसारमहामरुस्थलीम्
अलीकदेहादिमिलन्मरीचिकाम् ।
मनोमृगो मे करुणामृताम्बुधे
विगाढुम् ईश त्वयि गाढम् ईहते ॥३॥

त्वदङ्घ्रिफुल्लाम्बुजमध्यनिर्गलन्-
मरन्दनिष्प(निःष्य)न्दनितान्तलम्पटः ।
मनोमिलिन्दो मम मुक्तचापलः
त्वदन्यम् ईशान तृणाय मन्यते ॥४॥

जगत्त्रयत्राणविधौ धुरन्धरं
तवाङ्घ्रिराजीवम् अपास्य ते जनाः ।
शरण्यम् अन्यत् मृगयन्ति यान्ति ये
नितान्तम् ईशान कृतान्तदेहलीम् ॥५॥

रमामुखाम्भोजविकासनक्षमो
जगत्र(त्त्र)योद्बोधविधानदीक्षितः ।
कदा मदज्ञानविभावरीं हरे
हरिष्यति त्वन्नयनारुणोदयः ॥६॥

मुनीन्द्रचित्तैकचकोरजीविका
समस्तसन्तापचयापनोदिनी ।
महानिशीथे मम मानसे कदा
स्फुरिष्यति त्वन्नखचन्द्रचन्द्रिका ॥७॥

सुयौवनापाण्डुरगण्डमण्डल-
प्रतिस्फुरत्कुण्डलताण्डवाद्भुतम् ।
गदाग्रज त्वन्मुखफुल्लपङ्कजं
कदा मदक्ष्णोरतिथीभविष्यति ॥८॥

सुरापगातुङ्गतरङ्गचालितां
सुरासुरानीकललाटलालिताम् ।
कदा दधे देव दयामृतोदधे
भवत्पदाम्भोरुहधूलिधोरणीम् ॥९॥

अजा(महा)जवाच्छि(श्च्छि)न्नविवेकरश्मयो
मदोत्ध(द्ध)ता देव मदक्षवाजिनः ।
अलं समासाद्य तवाङ्घ्रिमन्दुराम्
अपास्तवेगा दधतां सुशीलताम् ॥१०॥


harinAma-mAlA-stotram – हरिनाममालास्तोत्रम्

गोविन्दं गोकुलानन्दं गोपालं गोपिवल्लभम् ।
गोवर्धनोद्धरं धीरं तं वन्दे गोमतीप्रियम् ॥१॥

नारायणं निराकारं नरवीरं नरोत्तमम् ।
नृसिंहं नागनाथं च तं वन्दे नरकान्तकम् ॥२॥

पीताम्बरं पद्मनाभं पद्माक्षं पुरुषोत्तमम् ।
पवित्रं परमानन्दं तं वन्दे परमेश्वरम् ॥३॥

राघवं रामचन्द्रं च रावणारिं रमापतिम् ।
राजीवलोचनं रामं तं वन्दे रघुनन्दनम् ॥४॥

वामनं विश्वरूपं च वासुदेवं च विठ्ठलम् ।
विश्वेश्वरं विभुं व्यासं तं वन्दे वेदवल्लभम् ॥५॥

दामोदरं दिव्यसिंहं दयालुं दीननायकम् ।
दैत्यारिं देवदेवेशं तं वन्दे देवकीसुतम् ॥६॥

मुरारिं माधवं मत्स्यं मुकुन्दं मुष्टिमर्दनम् ।
मुञ्जकेशं महाबाहुं तं वन्दे मधुसूदनम् ॥७॥

केशवं कमलाकान्तं कामेशं कौस्तुभप्रियम् ।
कौमोदकीधरं कृष्णं तं वन्दे कौरवान्तकम् ॥८॥

भूधरं भुवनानन्दं भूतेशं भूतनायकम् ।
भावनैकं भुजङ्गेशं तं वन्दे भवनाशनम् ॥९॥

जनार्दनं जगन्नाथं जगज्जाड्यविनाशकम् ।
जामदग्न्यं परंज्योतिस्तं वन्दे जलशायिनम् ॥१०॥

चतुर्भुजं चिदानन्दं मल्लचाणूरमर्दनम् ।
चराचरगुरुं देवं तं वन्दे चक्रपाणिनम् ॥११॥

श्रियःकरं श्रियोनाथं श्रीधरं श्रीवरप्रदम् ।
श्रीवत्सलधरं सौम्यं तं वन्दे श्रीसुरेश्वरम् ॥१२॥

योगीश्वरं यज्ञपतिं यशोदानन्ददायकम् ।
यमुनाजलकल्लोलं तं वन्दे यदुनायकम् ॥१३॥

सालग्रामशिलाशुद्धं शंखचक्रोपशोभितम् ।
सुरासुरैः सदा सेव्यं तं वन्दे साधुवल्लभम् ॥१४॥

त्रिविक्रमं तपोमूर्तिं त्रिविधाघौघनाशनम् ।
त्रिस्थलं तीर्थराजेन्द्रं तं वन्दे तुलसीप्रियम् ॥१५॥

अनन्तमादिपुरुषम् अच्युतं च वरप्रदम् ।
आनन्दं च सदानन्दं तं वन्दे चाघनाशनम् ॥१६॥

लीलया धृतभूभारं लोकसत्त्वैकवन्दितम् ।
लोकेश्वरं च श्रीकान्तं तं वन्दे लक्ष्मणप्रियम् ॥१७॥

हरिं च हरिणाक्षं च हरिनाथं हरप्रियम् ।
हलायुधसहायं च तं वन्दे हनुमत्प्रियम् ॥१८॥

हरिनामकृता माला पवित्रा पापनाशिनी ।
बलिराजेन्द्रेण च प्रोक्ता कण्ठे धार्या प्रयत्नतः ॥१९॥

॥ इति महाबलिप्रोक्तं हरिनाममालास्तोत्रम् ॥

RAMAPATYASHTAKAM

   रमापत्यष्टकम्
जगदादिमनादिमजं पुरुषं
   शरदंबरतुल्यतनुं
वितनुम्।
धृतकञ्जरथांगगदं विगदं
    प्रणमामि रमाधिपतिं
तमहम्॥१॥
कमलाननकञ्जरतं विरतं
   हृदि योगिजनैः
कलितं ललितम्।
कुजनैस्सुजनैरलभं सुलभं
    प्रणमामि रमाधिपतिं तमहम्॥२॥
मुनिवृन्दहृदिस्थपदं सुपदं
  निखिलाध्वरभागभुजं
सुभुजम्।
हृतवासवमुख्यमदं विमदं
   प्रणमामि रमाधिपतिं
तमहम्॥३॥
हृतदानवदृप्तबलं सुबलं
  स्वजनास्तसमस्तमलं
विमलम्।
समपास्तगजेन्द्रदरं सुदरं
  प्रणमामि रमाधिपतिं
तमहम्॥४॥
परिकल्पितसर्वकलं विकलं
   सकलागमगीतगुणं
विगुणम्।
भवपाशनिराकरणं शरणं
    प्रणमामि रमाधिपतिं
तमहम्॥५॥

 मृतिजन्मजराशमनं कमनं

   शरणागतभीतिहरं
दहरम्।
परिपुष्टमहाहृदयं सुदयं
    प्रणमामि
रमाधिपतिं तमहम्॥६॥
सकलावनिबिम्बधरं स्वधरं
   परिपूरितसर्वदिशं
सुदृशम्।
गतशोकमशोककरं सुकरं
   प्रणमामि रमाधिपतिं
तमहम्॥७॥
मथितार्णवराजरसं सरसं
   ग्रथिताखिललोकहृदं
सुहृदम्।
प्रथिताद्भुतशक्तिगुणं सुगुणम्
   प्रणमामि रमाधिपतिं
तमहम्॥८॥
सुखराशिकरं भवबन्धहरं
   परमाष्टकमेतदनन्यमतिः।
पठतीह तु योऽनिशमेव नरो
   लभते खलु विष्णुपदं स परम्॥९॥

NARAYANA STOTRAM

        नारायणस्तोत्रम्


नारायण नारायण जय गोविन्द हरे।
नारायण नारायण जय गोपाल हरे॥

करुणापारावार! वरुणालयगंभीर! – नारायण! 1
घननीरदसंकाश! कृतकलिकल्मषनाशन! –  नारायण! २
यमुनातीरविहार! धृतकौस्तुभमणिहार! – नारायण! ३
पीताम्बरपरिधान! सुरकल्याणनिधान!
– नारायण! ४
मञ्जुलगुञ्जाभूष! मायामानुषवेष! – नारायण! ५
राधाधरमधुरसिक! रजनिकरकुलतिलक! – नारायण! ६
मुरलीगानविनोद! वेदस्तुतिभूपाद! – नारायण! ७
बर्हिनिबर्हापीड! नटनाटकफणिक्रीड! – नारायण! ८
वारिजभूषाभरण! वारिजपुत्रीरमण! – नारायण! ९
जलरुहसन्निभनेत्र! जगदारंभकसूत्र! – नारायण! १०
पातकरजनीसंहार! करुणालय मामुद्धर – नारायण ११
अघबकक्षय कंसारे! केशव कृष्ण मुरारे! – नारायण! १२
हाटकनिभपीताम्बर! 
अभयं कुरु मे मावर! – नारायण! १३
दशरथराजकुमार! दानवमदसंहार! – नारायण! १४
गोवर्धनगिरिरमण! गोपीमानसहरण! – नारायण! १५
सरयूतीरविहार! सज्जनऋषिमन्दार! – नारायण! १६
विश्वामित्रमखत्र! विविधपरासुचरित्र! – नारायण! १७
ध्वजवज्राङ्कुशपाद!
धरणिसुतासहमोद! – नारायण! १८
जनकसुताप्रतिपाल! जयजयसंसृतिलील!
– नारायण! १९
दशरथवाग्धृतिभार! दण्डकवनसञ्चार!
– नारायण! २०
मुष्टिकचाणूरसंहार!
मुनिमानसविहार! – नारायण! २१
बालिविनिग्रहशौर्य!
वरसुग्रीवहितार्य! – नारायण! २२
मां मुरलीधरधीवर! पालय
पालय श्रीवर! – नारायण! २३
जलनिधिबन्धनधीर! रावणकण्ठविदार!
– नारायण! २४
ताटीमददलनाढ्य! नटगुणविधगानाढ्य!
– नारायण! २५
गौतमपत्नीपूजन! करुणाघनावलोकन!
– नारायण! २६
संभ्रमसीताहार! साकेतपुरविहार!
– नारायण! २७
अचलोद्धृतिचञ्चत्कर!
भक्तानुग्रहतत्पर! – नारायण २८
नैगमगानविनोद! रक्षःसुतप्रह्लाद!
– नारायण २९



SRI RANGARAJA NAAMARATNA STOTRAM

श्रीरङ्गराजनामरत्नस्तोत्रम्
अस्य श्री रङ्गराज नामरत्नस्तोत्र महामन्त्रस्य वेदव्यासो
भगवान् ऋषिः।
अनुष्टुप् छन्दः। भगवान् श्री विष्णुर्देवता। श्रीरङ्गशायीति
बीजं।
श्रीकान्त इति शक्तिः। श्रीप्रद इति कीलकम्। मम समस्तपापनाशनार्थे
श्रीरङ्गराजप्रसादसिद्ध्यर्थे जपे विनियोगः ॥
श्रीरङ्गशायी श्रीकान्तः श्रीपदः श्रितवत्सलः।
अनन्तो माधवो जेता जगन्नाथो जगद्गुरुः॥१॥
सुरवृत्तः सुराराध्यः सुरराजानुजः प्रभुः।
हरिर्हतारिर्विश्वेशः शाश्वतः शम्भुरव्ययः ॥२॥
भक्तार्तिभञ्जनो वाग्मी विन्ध्यो विख्यातकीर्तिमान्।
भास्करः शास्त्रतत्त्वज्ञः दैत्यशास्ता महेश्वरः॥३॥
नारायणो नरहरिः नीरजाक्षो नरप्रियः।
ब्रह्मण्यो  ब्रह्मकृत्ब्रह्म ब्रह्माङ्गो
ब्रह्मपूजितः ॥४॥
कृष्णः कृतज्ञो गोविन्दः हृषीकेशोऽघनाशनः।
केशी प्रभञ्जनः नन्दसूनुररिन्दमः ॥५॥
रुक्मिणीवल्लभो रामः बलभद्रो बलानुजः।
दामोदरो हृषीकेशः वामनो मधुसूदनः ॥६॥
पूतः पुण्यजनध्वंसी पुण्यश्लोकः शिखामणिः।
आदिमूर्तिः दयामूर्तिः शान्तमूर्तिरमूर्तिमान्॥७॥
परंब्रह्म परंधाम पावनः पवनः प्रभुः।
इन्दुच्छन्दोदधिः शौरिः संसाराम्बुधितारकः॥८॥
आदितेयोऽच्युतो भानुः शंकरः शिव ऊर्जितः।
महेश्वरो महायोगी महाशक्तिः महाप्रियः॥९॥
दुर्जनध्वंसकः शिष्टः सज्जनोपास्तिसत्फलम्।
पक्षीन्द्रवाहनोऽक्षोभ्यः क्षीराब्धिशयनो विधुः॥१०॥
जनार्दनो जगद्धेतुः जितमन्मथविग्रहः ।
चक्रपाणिः शंखधारी शार्ङ्गी खड्गी गदाधरः ॥११॥

 

SRI VISHNU KAVACHAM

श्रीविष्णुकवचम्
ध्यानम्
शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं
   विश्वाकारं गगनसदृशं मेघवर्णं शुभाङ्गम्।
लक्ष्मीकान्तं कमलनयनं योगिहृद्ध्यानगम्यं
    वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् ॥
कवचम्
पूर्वतो मां हरिः पातु पश्चाच्चक्री च दक्षिणे।
कृष्ण उत्तरतः पातु श्रीशो विष्णुश्च सर्वतः ॥१॥
ऊर्ध्वं आनन्दकृत्पातु अधस्ताच्छार्ङ्गभृत्सदा।
पादौ पातु सरोजाङ्घ्रिः जङ्घे पातु जनार्दनः॥२॥
जानुनी मे जगन्नाथः ऊरू पातु त्रिविक्रमः।
गुह्यं पातु हृषीकेशः पृष्ठं पातु ममाव्ययः॥३॥
पातु नाभिं ममानन्तः कुक्षिं राक्षसमर्दनः ।
दामोदरो मे हृदयं वक्षः पातु नृकेसरी ॥४॥
करौ मे कालियारातिः भुजौ भक्तार्तिभञ्जनः ।
कण्ठं कालाम्बुदश्यामः स्कन्धौ मे कंसमर्दनः ॥५॥
नारायणोऽव्यान्नासां मे कर्णौ केशिप्रभञ्जनः।
कपोले पातु वैकुण्ठः जिह्वां पातु दयानिधिः ॥६॥
आस्यं दशास्यहन्ताव्यान्नेत्रेमे हरि लोचनः।
भ्रुवौ मे पातु भूमेशः ललाटं मे सदाऽच्युतः ॥७॥
मुखं मे पातु गोविन्दः शिरो गरुडवाहनः ।
मां शेषशायी सर्वेभ्यो
व्याधिभ्यो भक्तवत्सलः ॥८॥
पिशाचाग्नि जलेभ्यो मां आपद्भ्यो पातु वामनः ।
सर्वेभ्यो दुरितेभ्यश्च पातु मां पुरुषोत्तमः ॥९॥
इतिश्रीविष्णुकवचं सर्वमङ्गलदायकम्।
सर्वरोगप्रशमनं सर्वशत्रुविनाशनम् ॥१०॥

SRI VISHNU ASHTAKAM

श्रीविष्ण्वष्टकम्
शतानीकः-
    ब्रह्मन्नपारे संसारे रागादिव्याप्तमानसः।
    शब्दादिलुब्धपुरुषः किं कुर्वन्नावसीदति॥१॥
श्री शौनकः-
    स्वे महिम्नि स्थितं देवं अप्रमेयमजं विभुम्।
    शोकमोहविनिर्मुक्तं विष्णुं ध्यायन्न
सीदति॥२॥
    प्रमाणमतिगं ब्रह्म वेदान्तेषु प्रकाशितम्।
    आद्यं पुरुषमीशानं विष्णुं ध्यायन्न सीदति॥३॥
    अमृतं साधनं साध्यं यं पश्यन्ति मनीषिणः।
    ज्ञेयाख्यं परमात्मानं विष्णुं ध्यायन्न सीदति॥४॥
    अशनाद्यैरसंस्पृष्टं सेवितं
योगिभिस्सदा।
    सर्वदोषविनिर्मुक्तं विष्णुं ध्यायन्न सीदति॥५॥
    क्ष्रराक्षरविनिर्मुक्तं जन्ममृत्युविवर्जितम्।
    अभयं सत्यसङ्कल्पं विष्णुं ध्यायन्न सीदति॥६॥
    अतुल्यसखधर्माणं व्योमदेहं सनातनम्।
    धर्माधर्मविनिर्मुक्तं विष्णुं ध्यायन्न सीदति॥७॥
     व्यासाद्यैर्मुनिभिस्सिद्धैः ध्यानयोगपरायणैः।
     अर्चितं भावकुसुमैः विष्णुं ध्यायन्न सीदति॥८॥
     विष्ण्वष्टकमिदं पुण्यं योगिनां प्रीतिवर्धनम्।
     यः पठेत्परया प्रीत्या स गच्छेद्विष्णुसाम्यताम्॥९॥
     एतत् पुण्यं पापहरं धन्यं दुःस्वप्ननाशनम्।
     पठतां शृण्वतां चैव विष्णोर्माहात्म्यमुत्तमम्॥१०॥

GOVINDA SANKIRTANAM

            गोविन्द
संकीर्तनम्
हरि नारायण गोविन्द जय नारायण गोविन्द।
हरि नारायण जय नारायण जय गोविन्द गोविन्द ॥१॥
भक्तजनप्रिय गोविन्द पङ्कजलोचन गोविन्द।
भक्तजनप्रिय पङ्कजलोचन परमानन्द गोविन्द ॥२॥
मत्स्यकलेबर गोविन्द वत्सकपालक गोविन्द।
मत्स्यकलेबर वत्सकपालक श्रीवत्साङ्कित गोविन्द॥३॥
धर्मपराश्रय गोविन्द कर्मविनाशन गोविन्द।
धर्मपराश्रय कर्मविनाशन कूर्मतनो जय गोविन्द ॥४॥
धृतकिटिमूर्ते गोविन्द हृतजगदार्ते गोविन्द।
धृतकिटिमूर्ते हृतजगदार्ते शुभजनकीर्ते गोविन्द॥५॥
नरहरिविग्रह गोविन्द नमितानुग्रह गोविन्द ।
नरहरिविग्रह नमितानुग्रह हतरिपुविग्रह गोविन्द॥६॥
वामनमूर्ते गोविन्द पावनकीर्ते गोविन्द ।
वामनमूर्ते पावनकीर्ते मोहनकीर्ते गोविन्द॥७॥
भर्गमुखाश्रय गोविन्द गर्गनिषेवित गोविन्द।
भर्गमुखाश्रय गर्गनिषेवित भार्गवराम गोविन्द॥८॥
दशरथनन्दन गोविन्द दशमुखनाशन गोविन्द।
दशरथनन्दन दशमुखनाशन शतमखसेवित गोविन्द॥९॥
सीरवरायुध गोविन्द वारिजलोचन
गोविन्द ।
सीरवरायुध वारिजलोचन कारणपूरुष
गोविन्द॥ १०॥
वृष्णिकुलेश्वर गोविन्द कृष्ण कृपालय गोविन्द ।
वृष्णिकुलेश्वर कृष्ण कृपालय वृष्णीपतिसख गोविन्द॥११॥
दुष्कृतनाशन गोविन्द सत्कुलपालक गोविन्द।
दुष्कृतनाशन सत्कुलपालक खड्गिशरीर गोविन्द ॥१२॥
कमलावल्लभ गोविन्द कमलविलोचन गोविन्द।
कमलावल्लभ कमलविलोचन कलिमलनाशन गोविन्द॥१३॥
वसुदेवात्मज गोविन्द वासवमदहर गोविन्द।
वसुदेवात्मज वासवमदहर वसुधावल्लभ गोविन्द॥१४॥
चक्रगदाधर गोविन्द शक्रनिषेवित गोविन्द।
चक्रगदाधर शक्रनिषेवित नक्रमदापह गोविन्द॥१५॥
नीरजलोचन गोविन्द  नीरदमेचक गोविन्द।
नीरजलोचन नीरदमेचक नारदसेवित गोविन्द ॥१६॥
नन्दकुमारक गोविन्द वृन्दावनचर गोविन्द।
नन्दकुमारक वृन्दावनचर वन्दितजनवर गोविन्द॥१७॥
कल्मषनाशन गोविन्द जन्मविनाशन गोविन्द ।
कल्मषनाशन जन्मविनाशन  सन्मयचिन्मय गोविन्द॥१८॥
निश्चल निष्कल गोविन्द नित्य निरामय गोविन्द।
निश्चल निष्कल नित्य निरामय निर्मल निरुपम गोविन्द॥१९॥
सीतावल्लभ गोविन्द राधावल्लभ गोविन्द ।
सीतावल्लभ राधावल्लभ  भामावल्लभ गोविन्द॥२०॥
लक्ष्मीवल्लभ गोविन्द लक्ष्मणपूर्वज गोविन्द।
लक्ष्मीवल्लभ लक्ष्मणपूर्वज पक्षिवरासन गोविन्द॥२१॥
राम रघूत्तम गोविन्द राम भृगूत्तम गोविन्द।
राम रघूत्तम राम भृगूत्तम राम यदूत्तम गोविन्द॥२२॥
उग्रपराक्रम गोविन्द विग्रहभीषण गोविन्द ।
उग्रपराक्रम विग्रहभीषण सुग्रीवप्रिय गोविन्द॥२३॥
श्रीवत्साङ्कित गोविन्द गोवत्सप्रिय गोविन्द।
श्रीवत्साङ्कित गोवत्सप्रिय हनुमत्सेवित गोविन्द॥२४॥
केशव माधव गोविन्द माधव केशव गोविन्द।
केशव माधव माधव केशव कालियमर्दन गोविन्द ॥२६॥
अतसीमेचक गोविन्द तुलसीभूषण गोविन्द।
अतसीमेचक तुलसीभूषण कलमृदुभाषण गोविन्द॥२७॥
हर मे दुरितं गोविन्द कुरु मे कुशलं गोविन्द।
हर मे दुरितं कुरु मे कुशलं भव मे शरणं गोविन्द ॥२८॥

Click here to go to the Master Index from where you can access more than 750 posts