श्रीविष्णुः

विष्णुलहरी-३

मृगदन्तिमुखान् मया सह प्रतिरुद्धान् भवजालबन्धने ।
तव माम् अपहाय मुञ्चतः करुणा किं[3b] न भिनत्ति मानसम् ॥२१॥

निरुपाधिजनार्त्तिहारिणं भगवंस्त्वाम् अवबुद्ध्य तत्त्वतः ।
कृतपुण्यरसावलेहनं[कृतपुण्यचयावहेलनं] कथम् अब्जेक्षण माम् उपेक्षसे ॥२२॥

सततं निगमेषु शृण्वता वरद त्वां पतितानुपावनम् ।
उरुपापम् उपास्यतेऽनिशं त्वयि विश्वासधिया मया विभो ॥२३॥

सुकृतं न कृतं पुरा कदाप्यथ सर्व्वं कृतमेव दुष्कृतम् ।
अधुना गलितह्रिया मया भगवंस्त्वां प्रति किं निगद्यताम् ॥२४॥

मदकामविमोहमत्सरा रिपवस्त्वत्पुर एव विह्वलम् ।
धृतशा[4a]र्ङ्गदासिनन्दक(धृतशार्ङ्गगदासिनन्दक) प्रतिकर्षन्ति कथं न बुद्धसे(लज्जसे) ॥२५॥

अपि गर्त्तमुखे गतः शिशुः पथिकेनापि निवार्य्यते जवात् ।
जनकेतपतन्(जनकेन पतन्) भवार्णवेन(भवार्णवे) न निवार्य्यो भवता कथं विभो ॥२६॥

सुकृतप्रिय इत्यथास्तु ते सुकृतिभ्यः सुखदश्च सुप्रथाः ।
अपि पापमबिभ्रतस्तु मां तव विश्वम्भर नाम दुर्ल्लभम् ॥२७॥

वचनैः परुषैरिह प्रभो यदि रोषं समुपागतोसि मे ।
मुखरं कृतकोटिकल्मषं करुणाब्द्धे जगतोपसारय ॥२८॥

यदि वीक्ष्य द[4b]दासि मत्कृतिं न मयैव प्रतिगृह्यते तदा ।
अथ चेन्निजमाशयं तदा परितुष्यन् शिरसा वहामि तत् ॥२९॥

पतितोप्यतिदुर्ग्गुणोपि सन्नकृतज्ञो निखिलागसां पदम् ।
भवदीय इतीरय[यं]स्त्वया दयनीयस्त्रपनीयकेवलम्[दयनीयस्त्रपयैव केवलम्] ॥३०॥

यतिरहं श्रीमतो भगवतः शङ्कराचार्यस्य भगवत्पादाभिधां बिभ्रतः सम्प्रदायानुगतो वेदतदनुकूलसकलशास्त्रनिचये श्रद्धावान् गुरुणाऽनुल्लङ्घनीयशासनेन विदितवेदवेदान्तशैवाद्यागमतन्त्रादिरसरहस्येनाऽनुगृहीतो निश्चितवेदप्रामाण्यस्तादृशविद्वत्त्वलोभी येन जीवन्मुक्त्यादिक्रमेण विदेहकैवल्याप्तिरुपदिष्टा मात्रा श्रीमत्या स्नेहपरयोमया हैमवत्या श्रुत्या॥

Author Socials Follow me

This site uses Akismet to reduce spam. Learn how your comment data is processed.