श्रीविष्णुः

विष्णुलहरी-२

पुरातनानां वचसाम् अगोचरं
महेशितारं पुरुषोत्तमं पतिम् ।
अपास्य तं त्वां निरपत्रपा सती
सती मतिर्म्मे कथमन्यमेष्यति ॥११॥

न जाग्रति स्वप्नदशान्तरेपि वा
परं विजाने तव पादपकङ्जात् ।
इति स्म सत्यं यदि भाषितं मया
कदा जगन्नाथ(य)क माम् उरीकुरु ॥१२॥

इति दीनतरं दयानिधे दुरवस्थं सकलैः समुज्झितम् ।
अधुनापि न मां निभालयन् भजसे हा कथमश्मचित्तताम् ॥१३॥

सुमहन्ति जगन्ति बिभ्रतः तव यो नाविरभू[2b]त् मनागपि ।
स कथं परमात्म देहिनः परमाणोर्म्मम धारणे श्रमः ॥१४॥

नितरां विनयेन पृच्छते सुविचारोत्तमयच्छ(सुविचार्य्योत्तरमत्र) यच्छ मे ।
करितो गिरितोप्यहं गुरुः त्वरितो नोद्धरसे यदाद्य(यदद्य) माम् ॥१५॥

न धनं न च राज्यसम्पदं न हि विद्याम् इदमेकमर्त्थये ।
मयि धेहि मनागपि प्रभो करुणाभङ्गितरङ्गितां दृशम् ॥१६॥

अयमत्यधमोपि दुर्ग्गुणो दम(य)नीयो भवता दयानिधे ।
वमतां फणिनां विषानलं किमु नानन्दयतीह चन्दनः ॥१७॥

क्षुधितस्य न[3a] हि त्रपास्ति मे प्रतिपथ्यं प्रतिगृह्णतः कणान् ।
अकलङ्कयशस्करं न ते भवदीयोपि यदन्यमृच्छति ॥१८॥

नितरां नरकेपि सीदतः किमु हीनं गलितत्रपश्(स्)य मे ।
भगवन् कुरु सूक्ष्मम् ईक्षणं परतस्त्वां जनतः(ता) किमालये(पे)त् ॥१९॥

नरके निजकर्म्मकल्पिता भजतो मे महतीरपि व्यथाः ।
इदम् एकम् असह्यम् ईक्षका यदनाथं निगदन्ति मां विभो ॥२०॥

यतिरहं श्रीमतो भगवतः शङ्कराचार्यस्य भगवत्पादाभिधां बिभ्रतः सम्प्रदायानुगतो वेदतदनुकूलसकलशास्त्रनिचये श्रद्धावान् गुरुणाऽनुल्लङ्घनीयशासनेन विदितवेदवेदान्तशैवाद्यागमतन्त्रादिरसरहस्येनाऽनुगृहीतो निश्चितवेदप्रामाण्यस्तादृशविद्वत्त्वलोभी येन जीवन्मुक्त्यादिक्रमेण विदेहकैवल्याप्तिरुपदिष्टा मात्रा श्रीमत्या स्नेहपरयोमया हैमवत्या श्रुत्या॥

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.