श्रीविष्णुः

विष्णुलहरी – १

श्रीगणेशाय नमः

नि(वि)षीदतां(ता) नाथ विषानलोपमे
विषादभूमौ भवसागरे हरे ।
परं प्रतीकारम् अपास्यताधुना(अपश्यताधुना)
मयायमात्मा भवते निवेदितः ॥१॥

भवानलज्वालविलुप्तचेतनः
शरण्य तेङ्घ्री(ङ्घ्रि)शरणं भयाद् अयम् ।
विभाव्य भूयोपि दयासुधाम्बुधे
विधेहि भो नाथ तथा यथेच्छसि ॥२॥

विहाय संसारमहामरुस्थलीम्
अलीकदेहादिमिलन्मरीचिकाम् ।
मनोमृगो मे करुणामृताम्बुधे
विगाढुम् ईश त्वयि गाढम् ईहते ॥३॥

त्वदङ्घ्रिफुल्लाम्बुजमध्यनिर्गलन्-
मरन्दनिष्प(निःष्य)न्दनितान्तलम्पटः ।
मनोमिलिन्दो मम मुक्तचापलः
त्वदन्यम् ईशान तृणाय मन्यते ॥४॥

जगत्त्रयत्राणविधौ धुरन्धरं
तवाङ्घ्रिराजीवम् अपास्य ते जनाः ।
शरण्यम् अन्यत् मृगयन्ति यान्ति ये
नितान्तम् ईशान कृतान्तदेहलीम् ॥५॥

रमामुखाम्भोजविकासनक्षमो
जगत्र(त्त्र)योद्बोधविधानदीक्षितः ।
कदा मदज्ञानविभावरीं हरे
हरिष्यति त्वन्नयनारुणोदयः ॥६॥

मुनीन्द्रचित्तैकचकोरजीविका
समस्तसन्तापचयापनोदिनी ।
महानिशीथे मम मानसे कदा
स्फुरिष्यति त्वन्नखचन्द्रचन्द्रिका ॥७॥

सुयौवनापाण्डुरगण्डमण्डल-
प्रतिस्फुरत्कुण्डलताण्डवाद्भुतम् ।
गदाग्रज त्वन्मुखफुल्लपङ्कजं
कदा मदक्ष्णोरतिथीभविष्यति ॥८॥

सुरापगातुङ्गतरङ्गचालितां
सुरासुरानीकललाटलालिताम् ।
कदा दधे देव दयामृतोदधे
भवत्पदाम्भोरुहधूलिधोरणीम् ॥९॥

अजा(महा)जवाच्छि(श्च्छि)न्नविवेकरश्मयो
मदोत्ध(द्ध)ता देव मदक्षवाजिनः ।
अलं समासाद्य तवाङ्घ्रिमन्दुराम्
अपास्तवेगा दधतां सुशीलताम् ॥१०॥


यतिरहं श्रीमतो भगवतः शङ्कराचार्यस्य भगवत्पादाभिधां बिभ्रतः सम्प्रदायानुगतो वेदतदनुकूलसकलशास्त्रनिचये श्रद्धावान् गुरुणाऽनुल्लङ्घनीयशासनेन विदितवेदवेदान्तशैवाद्यागमतन्त्रादिरसरहस्येनाऽनुगृहीतो निश्चितवेदप्रामाण्यस्तादृशविद्वत्त्वलोभी येन जीवन्मुक्त्यादिक्रमेण विदेहकैवल्याप्तिरुपदिष्टा मात्रा श्रीमत्या स्नेहपरयोमया हैमवत्या श्रुत्या॥

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.