श्रीविष्ण्वष्टकम्
शतानीकः-
ब्रह्मन्नपारे संसारे रागादिव्याप्तमानसः।
शब्दादिलुब्धपुरुषः किं कुर्वन्नावसीदति॥१॥
श्री शौनकः-
स्वे महिम्नि स्थितं देवं अप्रमेयमजं विभुम्।
शोकमोहविनिर्मुक्तं विष्णुं ध्यायन्न
सीदति॥२॥
सीदति॥२॥
प्रमाणमतिगं ब्रह्म वेदान्तेषु प्रकाशितम्।
आद्यं पुरुषमीशानं विष्णुं ध्यायन्न सीदति॥३॥
अमृतं साधनं साध्यं यं पश्यन्ति मनीषिणः।
ज्ञेयाख्यं परमात्मानं विष्णुं ध्यायन्न सीदति॥४॥
अशनाद्यैरसंस्पृष्टं सेवितं
योगिभिस्सदा।
योगिभिस्सदा।
सर्वदोषविनिर्मुक्तं विष्णुं ध्यायन्न सीदति॥५॥
क्ष्रराक्षरविनिर्मुक्तं जन्ममृत्युविवर्जितम्।
अभयं सत्यसङ्कल्पं विष्णुं ध्यायन्न सीदति॥६॥
अतुल्यसखधर्माणं व्योमदेहं सनातनम्।
धर्माधर्मविनिर्मुक्तं विष्णुं ध्यायन्न सीदति॥७॥
व्यासाद्यैर्मुनिभिस्सिद्धैः ध्यानयोगपरायणैः।
अर्चितं भावकुसुमैः विष्णुं ध्यायन्न सीदति॥८॥
विष्ण्वष्टकमिदं पुण्यं योगिनां प्रीतिवर्धनम्।
यः पठेत्परया प्रीत्या स गच्छेद्विष्णुसाम्यताम्॥९॥
एतत् पुण्यं पापहरं धन्यं दुःस्वप्ननाशनम्।
पठतां शृण्वतां चैव विष्णोर्माहात्म्यमुत्तमम्॥१०॥
You must log in to post a comment.