MUKUNDA MUKTAVALi

         मुकुन्दमुक्तावली
नवजलधरवर्णं
चम्पकोद्भासिकर्णं
विकसित
नयनास्यं विस्फुरन्मन्दहासम् ।
कनकरुचिदुकूलं
चारुबर्हावतंसं
कमपि
निखिलसारं नौमि गोपीकुमारम् ॥१॥
सजलजलदनीलं
वल्लवीकेलिलोलं
श्रितसुरतरुमूलं
विद्युदुल्लासिचेलम्।
नतसुरमुनिजालं
सन्मनोबिम्बलीलम्
सुररिपुकुलकालं
नौमि गोपालबालम् ॥२॥

सजलजलदनीलं
दर्शितोदारलीलं
करतलधृतशैलं
वेणुनादैः रसालम्।
व्रजजनकुलपालं
कामिनीकेलिलोलं
कलितललितमालं
नौमि गोपालबालम् ॥३॥
स्मितललितकपोलं
स्निग्धसंगीतलोलम्
ललितचिकुरजालं
चौर्य-चातुर्य-लीलम्
शतमखरिपुकालं
शातकुंभाभचेलं
कुवलयदलनीलं
नौमि गोपालबालम् ॥४॥
मुरलिनिनदलोलं
मुग्धमायूरचूडं
दलितदनुजजालम्
धन्यसौजन्यशीलम्।
परहितनवहेलं
पद्मसद्मानुकूलम्
नवजलधरनीलं
नौमि गोपालबालम् ॥५॥
मुखजितशरदिन्दुः
केलिलावण्यसिन्धुः
करविनिहितकन्दुः
वल्लवीप्राणबन्धुः।
वपुरुपसृतरेणुः
कक्षनिक्षिप्तवेणु-
र्वचनवशगधेनुः
पातु मां नन्दसूनुः ॥६॥
ध्वस्त-दुष्ट-शंखचूड! वल्लवीकुलोपगूढ!
भक्तमानसाधिरूढ! नीलकण्ठपिञ्छचूड!
कण्ठलम्बिमंजुगुञ्ज! केलिलब्धरम्यकुञ्ज!
कर्णवर्तिफुल्लकुन्द! पाहि देव मां
मुकुन्द!  ॥७॥
यज्ञभंगरुष्ट-शक्रनुन्न-घोर-मेघ-चक्र-
वृष्टिपूर-खिन्न-गोप-वीक्षणोपजात-कोप-
क्षिप्त-सव्य-हस्तपद्म-धारितोच्च-शैल-सद्म-
गुप्त-गोष्ठ रक्ष
रक्ष मां तदद्य पंकजाक्ष ॥८॥
मुक्ताहारं
दधदुडुचक्राकारं
सारं
गोपीमनसि मनोजारोपि।
कोपी
कंसे खलनिकुरुंबोत्तंसे
वंशे
रङ्गे दिशतु रतिं नः शार्ङ्गी॥९॥
लीलाधामा
जलधरमालाश्यामा
क्षमा
कामदा विरचयन्ती रामा।
सा मामव्यादखिलमुनीनां
स्तव्या
गव्यापूर्तिः
प्रभुरघशत्रोर्मूर्तिः ॥१०॥
पर्व-वर्तुल-शर्वरीपति-गर्वरीति-हननं
नन्दनन्दनमिन्दिराकृत
वन्दनं धृत-चन्दनम्।
सुन्दरी
रतिमन्दरीकृत कन्दरं धृतमन्दरं
कुण्डलद्युतिमण्डलप्लुतकन्धरं
भज सुन्दरम् ॥११॥

गोकुलाङ्गनमङ्गलं कृतपूतनाभवमोचनं
कुन्द-सुन्दर-दन्त-मम्बुजवृन्द-वन्दित-लोचनम्।
सौरभाकर-फुल्ल-पुष्कर-विस्फुरत्-कर-पल्लवं
दैवत-व्रज-दुर्लभं भज वल्लवी-कुल-वल्लभम्
॥१२॥
तुण्डकान्ति-दण्डितोरु-पाण्डुरांशु-मण्डलं
गण्डपालि-ताण्डवालिशालि-रत्न-कुण्डलम्।
फुल्ल-पुण्डरीक-खण्ड-क्लृप्त-माल्य-मण्डनं
चण्ड-बाहुदण्ड-मत्र-नौमि-कंस-खण्डनम् ॥१३॥
उत्तरङ्ग-दङ्गराग-सङ्गमाऽति-पिङ्गला
तुङ्गशृङ्ग-सङ्गि-पाणि-रङ्गनाऽति-मङ्गला
दिग्विलासि-मल्लिहासि-कीर्ति-वल्लि-पल्लवा
त्वां
स पातु फुल्ल-चारु-चिल्लिरद्य-वल्लवा ॥१४॥
इन्द्रनिवारं
व्रजपतिवारं
निर्धूतवारं
हृतघनवारम् ।
रक्षितगोत्रं
प्रीणितगोत्रम्
त्वां
धृतगोत्रं नौमि सगोत्रम्॥१५॥?
कंसमहीपति-हृद्गतशूलं
संततसेवित-यामुन-कूलम्।
वन्दे-सुन्दर-चन्द्रक-चूडं
त्वामहमखिल-चराचर-मूलम् ॥१६॥
मलयजरुचिरस्तनुजितमुदिरः
पालितविबुधस्तोषितवसुधः
मामति-रसिकः केलिभिरधिकः
स्मितसुभगरदः
कृपयतु वरदः ॥१७॥
उररीकृत-मुरली-रुत-भङ्गं
नवजलधरकिरणोल्लसदङ्गम्
युवती-हृदयादृत-मदन-तरङ्गं
प्रणमत
यामुन-तट-कृत-रङ्गम्॥१८॥ 
नवांभोदनीलं
जगत्तोषिशीलं
मुखासङ्गिवंशं
शिखण्डावतंसम्
करालंबिवेत्रं
वरांभोजनेत्रं
धृतस्फीतगुञ्जं
भजे लब्धकुञ्जम् ॥१९॥
हृतक्षोणीभारं
कृतक्लेशहारं
जगत्गीतसारं
महारत्नहारम्
मृदुश्यामकेशं
लसद्वन्यवेषं
कृपाभिर्नुदेशं
भजे वल्लवीशम्  ॥२०॥
उल्लसद्वल्लवीवाससां
तस्कर-
स्तेजसा
निर्जित प्रस्फुरद्भास्करः
पीनहस्तादयोरुल्लसच्चन्दनः
पातु
वः सर्वतो देवकीनन्दनः ॥२१॥
संसृतेस्तारकं
तं गवां चारकं
वेणुना
मण्डितं क्रीडने पण्डितम्।
धातुभिर्वेषिणं
दानवद्वेषिणं
चिन्तय
स्वामिनं वल्लवीकामिनम् ॥२२॥ 
उपात्तकबलं
परागशबलं
मदेकशरणं
सरोजचरणम्।
अरिष्टदलनं
विकृष्टललनं
नमामि
समहं सदैव तमहम् ॥२३॥
विहारसदनं
मनोज्ञरदनं
प्रणीतमदनं
शशाङ्कवदनम्।
उरस्थकमलं
यशोभिरमलं
करान्तकमलं
भजस्व तममलम् ॥२४॥
दुष्टध्वंसः
कर्णिकारावतंसः
खेलद्वंशी
पञ्चमध्वानशंसी
योगीचेत:केलिभङ्गी निकेतः
पातु
स्वैरी हन्त वः कंसवैरी ॥२५॥
वृन्दाटव्यां
केलिमानन्दमय्यां
कुर्वन्नारीचित्तकन्दर्पधारी  ।
नम्रोद्गारी
मां दुकूलापहारी
नीपारूढः
पातु बर्हावचूडः ॥२६॥
रुचिरनखे
रचय सखे
वलितरतिं
भजनततिम्।
त्वमविरतस्वरितगति-
र्नत
शरणॆ हरिचरणे ॥२७॥
रुचिरपटः
पुलिनतटः
पशुपपतिर्गुणवसति- ।
र्स
मम शुचिर्ज्जलदरुचि-
र्मनसि
परिस्फुरतु हरिः॥२८॥
केलीविहित-यमलार्जुन-भञ्जन!
सुललितचरित! निखिलजनरञ्जन!
लोचन-नर्तन-जित-खल-खञ्जन!
मां
परिपालय कालियगञ्जन!  ॥२९॥
भुवनविस्तृत
महिमाडंबर!
विरचित
निखिल खलोत्करशंबर
वितर
यशोदातनय वारं वारं
अभिलषितं
मे धृतपीतांबर ॥३०॥
चिकुर-करंबित चारु
शिखण्डं
फाल-विनिर्जित वरशशिखण्डं
रदरुचि-निर्धुत मोदित
कुन्दं
कुरुत
बुधाः हृदि सपदि मुकुन्दम्॥३१॥
यः परिरक्षित
सुरभी-लक्ष-
स्तदपि
च सुर-भी मर्दनदक्षः।
मुरलीवादन-कुशाली शाले
स दिशतु
कुशलं तव वनमाली ॥३२॥
रमितनिखिलडिंभे
वेणुपीतोष्ठबिम्बे
हतखलनिकुरुम्बे
वल्लवीदत्तचुंबे।
भवतु
महितनन्दे तत्र वा केलिकन्दे
जगति
विरल तुण्डॆ भक्तिरुर्वी मुकुन्दे ॥३३॥
पशुपयुवतिगोष्ठी-चुम्बित-श्रीमदोष्ठी
स्मरतरलित-दृष्टिर्निर्मितानन्दवृष्टिः।
नवजलधरधाम
पातु वः कृष्णनाम
भुवनमधुरवेषा
मालिनी मूर्तिरेषा ॥३४॥
Transliterated into Devanagari from http://www.stotraratna.sathyasaibababrotherhood.org/k4.htm

SRI RUKMINI SANDESHA:

                             रुक्मिणी संदेशः
          (श्रीमद्भागवतम्)
श्रुत्वा गुणान् भुवनसुंदर शृण्वतां ते
निर्विश्य कर्णविवरैः हरतोऽङ्ग तापम् ।
रूपं दृशां दृशिमतां अखिलार्थलाभं
त्वय्यच्युताविशति चित्तमपत्रपम् मे ॥१॥
का त्वा मुकुन्द महतीकुलशीलरूप-
विद्यावयोद्रविणधामभिरात्मतुल्यम् ।
धीरा पतिं कुलवती न वृणीत कन्या
काले नृसिंह नरलोकमनोभिरामम् ॥२॥
तन्मे भवान् खलु वृतः पतिरङ्ग जाया-
मात्मार्पितश्च भवतोऽत्र विभो विधेहि।
मा वीरभागमभिमर्शतु चैद्य आरात्
गोमायुवन्मृगपतेः बलिमम्बुजाक्ष ॥३॥
पूर्तेष्टदत्तनियमव्रतदेवविप्र-
गुर्वर्चनादिभिरलं भगवान् परेशः
आराधितो यदि गदाग्रज एत्य पाणिं
गृह्णातु मे न दमघोषसुतादयोन्ये ॥४॥
श्वोभाविनि त्वमजितोद्वहने विदर्भान्
गुप्तस्समेत्य पृतनापतिभिः परीतः।
निर्मथ्य चैद्यमगधेन्द्रबलं  प्रसह्य
मां राक्षसेन विधिनोद्वह वीर्यशुल्काम् ॥५॥
अन्तः पुरान्तरचरीमनिहत्यबन्धून्
त्वामुद्वहे कथमिति प्रवदाम्युपायम्।
पूर्वेद्युरस्ति महती कुलदेवियात्रा
यस्यां बहिर्नववधूर्गिरिजामुपेयात् ॥६॥
यस्याङ्घ्रिपङ्कजरजः स्नपनं महान्तो
वाञ्छन्त्युमापतिरिव आत्मतमोपहत्यै।
यर्ह्यम्बुजाक्ष न लभेय भवत्प्रसादं
जह्यामसून् व्रतकृशान् शतजन्मभिः स्यात् ॥७॥


KRISHNASHRAYA STUTI (VALLABHACHARYA RACHITAM)

कृष्णाश्रय स्तुति

श्रीवल्लभाचार्य

सर्वमार्गेषु नष्टेषु कलौ च खलधर्मिणि।

पाषण्डप्रचुरे लोके कृष्ण एव गतिर्मम॥१॥

म्लेच्छाक्रान्तेषु देशेषु पापैकनिलयेषु च।

सत्पीडाव्यग्रलोकेषु कृष्ण एव गतिर्मम॥२॥

गंगादितीर्थवर्येषु दुष्टैरेवावृतेष्विह।

तिरोहिताधिदेवेषु कृष्ण एव गतिर्मम॥३॥

अहंकारविमूढेषु सत्सु पापानुवर्तिषु।

लोभपूजार्थयत्नेषु कृष्ण एव गतिर्मम॥४॥

अपरिज्ञाननष्टेषु मन्त्रेष्वव्रतयोगिषु।

तिरोहितार्थवेदेषु कृष्ण एव गतिर्मम॥५॥

नानावादविनष्टेषु सर्वकर्मव्रतादिषु।

पाषण्डैकप्रयत्नेषु कृष्ण एव गतिर्मम॥६॥

अजामिलादिदोषाणां नाशकोऽनुभवे स्थितः।

ज्ञापिताखिलमाहात्म्यः कृष्ण एव गतिर्मम॥७॥

प्राकृताः सकल देवा गणितानन्दकं बृहत्।

पूर्णानन्दो हरिस्तस्मात्कृष्ण एव गतिर्मम॥८॥

विवेकधैर्यभक्त्यादिरहितस्य विशेषतः।

पापासक्तस्य दीनस्य कृष्ण एव गतिर्मम॥९॥

सर्वसामर्थ्यसहितः सर्वत्रैवाखिलार्थकृत्।

शरणस्थ समुद्धारं कृष्णं विज्ञापयाम्यहम्॥१०॥

कृष्णाश्रयमिदं स्तोत्रं यः पठेत्कृष्णसन्निधौ।

तस्याश्रयो भवेत्कृष्ण इति श्रीवल्लभोऽब्रवीत्॥११॥


KUNTIDEVI KRITA SRIKRISHNA STOTRAM

कुन्तीदेवीकृतश्रीकृष्णस्तोत्रम्

नमस्ये पुरुषं त्वाद्यमीश्वरं प्रकृतेः परम्।

अलक्ष्यं सर्वभूतानामन्तर्बहिरवस्थितम्॥१॥

माया जवनिकाच्छन्नमज्ञाऽधोक्षजमव्ययम्।

न लक्ष्यसे मूढदृशा नटो नाट्यधरो यथा ॥२॥

तथा परमहंसानां मुनीनाममलात्मनाम्।

भक्तियोगविधानार्थं कथं पश्येमहि स्त्रियः ॥३॥

कृष्णाय वासुदेवाय देवकीनन्दनाय च।

नन्दगोपकुमाराय गोविन्दाय नमो नमः ॥४॥

नमः पङ्कजनाभाय नमः पङ्कजमालिने।

नमः पङ्कजनेत्राय नमस्ते पङ्कजाङ्घ्रये॥५॥

विपदः सन्तु नः शश्वत् तत्र तत्र जगद्गुरो।

भवतो दर्शनं यत्स्यादपुनर्भवदर्शनम्॥६॥

जन्मैश्वर्यश्रुतश्रीभिरेधमानमदः पुमान्।

नैवार्हत्यभिधातुं वै त्वामकिञ्चनगोचरम्॥७॥

नमोऽकिञ्चनवित्ताय निवृत्तगुणवृत्तये।

आत्मारामाय शान्ताय कैवल्यपतये नमः ॥८॥

शृण्वन्ति गायन्ति गृणन्त्यभीक्ष्णशः

स्मरन्ति नन्दन्ति तवेहितं जनाः।

त एव पश्यन्त्यचिरेण तावकं

भवप्रवाहोपरमं पदाम्बुजम् ॥९॥

त्वयि मेऽनन्यविषया मतिर्मधुपतेऽसकृत्

रतिमुद्वहतादद्धा गङ्गेवौघमुदन्वति॥१०॥

श्रीकृष्ण कृष्णसख वृष्ण्यृषभावनिध्रु-

ग्राजन्यवंशदहनानपवर्गवीर्य।

गोविन्द गोद्विजसुरार्तिहरावतार

योगेश्वराखिलगुरो भगवन्नमस्ते ॥११॥


GOVINDA PANCHAVIMSHATI STOTRAM

गोविन्दपञ्चविंशतिस्तोत्रम्

  (ब्रह्मसंहितान्तर्गतम्)

ईश्वरः परमः कृष्णः

सच्चिदानन्दविग्रहः।

अनादिरादिर्गोविन्दः

सर्वकारणकारणम् ॥१॥

चिन्तामणिप्रकरसद्मसु  कल्पवृक्ष-

लक्षावृतेषु  सुरभीरभिपालयन्तम् ।

लक्ष्मीसहस्रशतसंभ्रमसेव्यमानं

गोविन्दमादिपुरुषं तमहं भजामि ॥२॥

वेणुं क्वणन्तमरविन्ददलायताक्षं

बर्हावतंसमसितांबुदसुन्दरांगम्।

कन्दर्पकोटिकमनीयविशेषशोभं

गोविन्दमादिपुरुषं तमहं भजामि ॥३॥

आलोलचन्द्रकलसद्वनमाल्यवंशी-

रत्नाङ्गदं प्रणयकेलिकलाविलासम्।

श्यामं त्रिभङ्गललितं नियतप्रकाशं

गोविन्दमादिपुरुषं तमहं भजामि ॥४॥

अङ्गानि यस्य सकलेन्द्रियवृत्तिमन्ति

पश्यन्ति पान्ति कलयन्ति चिरं जगन्ति ।

आनन्दचिन्मयसदुज्ज्वलविग्रहस्य

गोविन्दमादिपुरुषं तमहं भजामि ॥५॥

अद्वैतमच्युतमनादिमनन्तरूपं

आद्यं पुराणपुरुषं नवयौवनं च।

वेदेषु दुर्लभमदुर्लभमात्मभक्तौ

गोविन्दमादिपुरुषं तमहं भजामि ॥६॥

पन्थास्तु कोटिशतवत्सरसंप्रगम्यो

वायोरथापि मनसो मुनिपुङ्गवानाम् ।

सोऽप्यस्ति यत्प्रपदसीम्न्यविचिन्त्य तत्त्वे

गोविन्दमादिपुरुषं तमहं भजामि ॥७॥

एकोऽप्यसौ रचयितुं जगदण्डकोटिं

यच्छक्तिरस्ति जगदण्डचये यदन्तः।

अण्डान्तरस्थपरमाणुचयान्तरस्थं

गोविन्दमादिपुरुषं तमहं भजामि ॥८॥

यद्भावभावितधियो मनुजास्तथैव

संप्राप्यरूपमहिमासनयानभूषाः।

सूक्तैर्यमेव निगमप्रथितैः स्तुवन्ति

गोविन्दमादिपुरुषं तमहं भजामि ॥९॥

आनन्दचिन्मयरसप्रतिभाविताभि-

स्ताभिर्य एव निजरूपतया कलाभिः

गोलोक एव निवसत्यखिलात्मभूतो

गोविन्दमादिपुरुषं तमहं भजामि ॥१०॥

प्रेमाञ्जनच्छुरितभक्तिविलोचनेन

सन्तः सदैव हृदयेषु विलोकयन्ति

यं श्यामसुन्दरमचिन्त्यगुणस्वरूपं

गोविन्दमादिपुरुषं तमहं भजामि ॥११॥

रामादि मूर्तिषु कलानियमेन तिष्ठन्

नानावतारमकरोद्भुवनेषु किन्तु ।

कृष्णः स्वयं समभवत् परमः पुमान् यो

गोविन्दमादिपुरुषं तमहं भजामि ॥१२॥

यस्य प्रभा प्रभवतो जगदण्डकोटि-

कोटिष्वशेषवसुधादिविभूतिभिन्नम् ।

तद्ब्रह्म निष्कलमनन्तमशेषभूतं

गोविन्दमादिपुरुषं तमहं भजामि ॥१३॥

माया हि यस्य जगदण्डशतानि सूते

त्रैगुण्यतद्विषयवेदवितायमाना

सत्त्वावलंबिपरसत्त्वविशुद्धसत्त्वं

गोविन्दमादिपुरुषं तमहं भजामि ॥१४॥

आनन्दचिन्मयरसात्मकतया मनःसु

यः प्राणिनां प्रतिफलं स्मरतामुपेत्य।

लीलायितेन भुवनानि जयत्यजस्रं

गोविन्दमादिपुरुषं तमहं भजामि ॥१५॥

सृष्टिस्थितिप्रलयसाधनशक्तिरेका

छायेव यस्य भुवनानि बिभर्ति दुर्गा।

इच्छानुरूपमपि यस्य च चेष्टते सा

गोविन्दमादिपुरुषं तमहं भजामि ॥१५॥

क्षीरं यथा दधिविकारविशेषयोगात्

सञ्जायते नहि ततः पृथगस्ति हेतोः।

यत्सम्भूतमपि तथा समुपैति कार्याद्

गोविन्दमादिपुरुषं तमहं भजामि ॥१६॥

यः कारणार्णवजले भजति स्म योग-

निद्रामनन्तजगदण्डसरोमकूपः

आधारशक्तिमवलंब्य परं स्वमूर्तिं

गोविन्दमादिपुरुषं तमहं भजामि ॥१७॥

यस्यैकनिःश्वसितकालमथावलंब्य

जीवन्ति लोमविलजा जगदण्डनाथाः।

विष्णुर्महान् स इह यस्य कलाविशेषो

गोविन्दमादिपुरुषं तमहं भजामि ॥१८॥

भास्वान्यथाश्मशकलेषु निजेषु तेजः

स्वीयं कियत्प्रकटयत्यपि तद्वदत्र ।

ब्रह्मा य एष जगदण्डविधानकर्ता

गोविन्दमादिपुरुषं तमहं भजामि ॥१९॥

यत्पादपल्लवयुगं विनिधाय कुंभ-

द्वन्द्वे प्रणामसमये स गणाधिराजः।

विघ्नान्विहन्तुमलमस्यजगत्त्रयस्य

गोविन्दमादिपुरुषं तमहं भजामि ॥२०॥

अग्निर्महीगगनमम्बुमरुद्दिशाश्च

कालस्तथात्ममनसीति जगत्त्रयाणि

यस्मात्भवन्ति विभवन्ति विशन्ति यं च

गोविन्दमादिपुरुषं तमहं भजामि ॥२१॥

यच्चक्षुरेष सविता सकलग्रहाणां

राजा समस्तसुरमूर्तिरशेषतेजः

यस्याज्ञया भ्रमति संभृतकालचक्रो

गोविन्दमादिपुरुषं तमहं भजामि ॥२२॥

धर्मोऽथ पापनिचयः श्रुतयस्तपांसि

ब्रह्मादिकीटपटगवादयश्च जीवाः

यद्दत्तमात्रविभवप्रकटप्रभावा

गोविन्दमादिपुरुषं तमहं भजामि ॥२३॥

यस्त्विन्द्रगोपमथवेन्द्रमहो स्वकर्म-

बन्धानुरूपफलभाजनमातनोति।

कर्माणि निर्दहति किन्तु च भक्तिभाजां

गोविन्दमादिपुरुषं तमहं भजामि ॥२४॥

यं क्रोधकामसहजप्रणयादिभीति-

वात्सल्यमोहगुरुगौरवसेव्यभावैः

संचिन्त्य तस्य सदृशीं तनुमापुरेते

गोविन्दमादिपुरुषं तमहं भजामि ॥२५॥


INDRAKRITA SRIKRISHNA STOTRAM

           इन्द्रकृतश्रीकृष्णस्तोत्रम्
अक्षरं परमं ब्रह्म ज्योतिरूपं सनातनम्
गुणातीतं निराकारं स्वेच्छामयमनन्तकम्॥१॥
भक्तध्यानाय सेवायै नानारूपधरं वरम्।
शुक्लरक्तपीतश्यामं युगानुक्रमणेन च ॥२॥
शुक्लतेजः स्वरूपं च सत्ये सत्यस्वरूपिणम्।
त्रेतायां कुङ्कुमाकारं ज्वलन्तं ब्रह्मतेजसा ॥३॥
द्वापरे पीतवर्णं च शोभितं पीतवाससा।
कृष्णवर्णं कलौ कृष्णं परिपूर्णतमं प्रभुम् ॥४॥
नवधाराधरोत्कृष्टनवसुन्दरविग्रहम्।
नन्दैकनन्दनं वन्दे यशोदानन्दनं प्रभुम् ॥५॥
गोपिकाचेतनहरं राधाप्राणाधिकं परं।
विनोदमुरलीशब्दं कुर्वन्तं कौतुकेन च ॥६॥
रूपेणाप्रतिमेनैव रत्नभूषणभूषितम्।
कन्दर्पकोटिसौन्दर्यं बिभ्रतं शान्तमीश्वरम् ॥७॥
क्रीडन्तं राधया सार्धं वृन्दारण्ये च कुत्रचित्।
कुत्रचिन्निर्ज्जनेऽरण्ये राधावक्षस्थलस्थितम् ॥८॥
जलक्रीडां प्रकुर्वन्तं राधया सह कुत्रचित्।
राधिका कबरीभारं कुर्वन्तं कुत्रचिद्वने ॥९॥
कुत्रचिद्राधिकापादे दत्तवन्तमलक्तकम्।
राधाचर्विततांबूलं गृह्णन्तं कुत्रचिन्मुदा ॥१०॥
पश्यन्तं कुत्रचिद्राधां पश्यन्तीं वक्रचक्षुषा।
दत्तवन्तञ्च राधायै कृत्वा मालां च कुत्रचित् ॥११॥
कुत्रचिद्राधया सार्धं गच्छन्तं रासमण्डलम्।
राधादत्तां गले मालां धृतवन्तं च कुत्रचित् ॥१२॥
सार्धं गोपालिकाभिश्च विहरन्तञ्च कुत्रचित्।
राधां गृहीत्वा गच्छन्तं  तां विहाय च कुत्रचित् ॥१३॥
विप्रपत्नीदत्तमन्नं भुक्तवन्तं च कुत्रचित्
भुक्तवन्तं तालफलं बालकैः सह कुत्रचित् ॥१४॥
वस्त्रं गोपालिकानाञ्च हरन्तं कुत्रचिन्मुदा।
गवां गणं व्याहरन्तं कुत्रचिद्बालकैस्सह ॥१५॥
कालियमूर्ध्नि पादाब्जं दत्तवन्तं च कुत्रचित्।
विनोदमुरलीशब्दं कुर्वन्तं कुत्रचिन्मुदा  ॥१६॥
गायन्तं रम्यसंगीतं कुत्रचिद्बालकैः सह।
नन्दैकनन्दनं वन्दे यशोदा नन्दनं प्रभुम् ॥१७॥
इदमिन्द्रकृतं स्तोत्रं नित्यं भक्त्या च यः पठेत्।
इह प्राप्य दृढां भक्तिमन्ते दास्यं लभेत्ध्रुवम् ॥१८॥
जन्ममृत्युजराव्याधि शोकेभ्यो मुच्यते नरः
नहि पश्यति स्वप्नेऽपि यमदूतं यमालयम् ॥१९॥


SRIKRISHNA STAVARAJAH

श्रीकृष्णस्तवराजः
महादेव उवाच –
शृणु देवि प्रवक्ष्यामि स्तोत्रं परमदुर्लभं
यद्ज्ञात्वा न पुनर्गच्छेन्नरो निरययातनाम् ॥१॥
नारदाय च यत्प्रोक्तं ब्रह्मपुत्रेण धीमता
सनत्कुमारेण पुरा योगीन्द्रगुरुवर्त्मना ।।२॥
         स्तोत्रम्
प्रसीद भगवन्मह्यं अज्ञानात्कुण्ठितात्मने।
तवांघ्रिपङ्कजरजोरागिणीं भक्तिमुत्तमाम् ॥३॥
अज प्रसीद भगवन्नमितद्युतिपञ्जर! ।
अप्रमेय प्रसीदास्मद् दुःखहन् पुरुषोत्तम! ॥४॥
स्वसंवेद्य प्रसीदास्मदानन्दात्मन्ननामय ।
अचिन्त्यसारविश्वात्मन् प्रसीद परमेश्वर! ॥५॥
प्रसीद तुङ्गतुङ्गानां प्रसीद शुभशोभन!।
प्रसीद गुणगंभीर! गंभीराणां महाद्युते ! ॥६॥
प्रसीदाव्यक्तविस्तीर्ण विस्तीर्ण नामगोचर!।
प्रसीदार्द्रार्द्रजातीनां प्रसीदान्तान्तदायिनाम् ॥७॥
गुरोर्गरीयः सर्वेश! प्रसीदानन्ददेहिनाम्।
जय माधव मायात्मन्! जय शाश्वतशंखभृत् ॥८॥
जय शंखधर श्रीमन् जय नन्दकनन्दन!
जय चक्रगदापाणे जय देव जनार्दन! ॥९॥
जयरत्नवराबद्धकिरीटाक्रान्तमस्तक! ।
जय पक्षिपतिच्छायानिरुद्धार्ककरारुण! ॥१०॥
नमस्ते नरकाराते नमस्ते मधुसूदन! ।
नमस्ते ललितापाङ्ग! नमस्ते नरकान्तक! ॥११॥
नमः पापहरेशान! नमः सर्वभयापह!  ।
नमः सम्भूतसर्वात्मन् नमः संभृतकौस्तुभ! ॥१२॥
नमस्ते नयनातीत नमस्ते भयहारक!
नमो विभिन्नवेषाय नमः श्रुतिपथातिग! ॥१३॥
नमस्त्रिमूर्तिभेदेन सर्गस्थित्यन्तहेतवे।
विष्णवे त्रिदशाराति जिष्णवे परमात्मने ॥१४॥
चक्रभिन्नारिचक्राय चक्रिणे चक्रवल्लभ!
विश्वाय विश्ववन्द्याय विश्वभूतानुवर्तिने ॥१५॥
नमोऽस्तु योगिध्येयात्मन् नमोस्त्वध्यात्मरूपिणे ।
भक्तिप्रदाय भक्तानां नमस्ते मुक्तिदायिने ॥१६॥
पूजनं हवनं चेज्या ध्यानं पश्चान्नमस्क्रिया।
देवेश कर्म सर्वं मे भवेदाराधनं तव ॥१७॥
इति हवनजपार्चाभेदतो विष्णुपूजा
नियतहृदयकर्मा यस्तु मन्त्री चिराय।
स खलु सकलकामान् प्राप्य कृष्णान्तरात्मा
जननमृतिविमुक्तोऽत्युत्तमां भक्तिमेति ॥१८॥
गोगोपगोपिकावीतं गोपालं गोष्ठगोप्रदम्।
गोपैरीड्यं गोसहस्रैर्नौमि गोकुलनायकम् ॥१९॥
प्रीणयेदनया स्तुत्या जगन्नाथं जगन्मयम्
धर्मार्थकाममोक्षाणामाप्तये  पुरुषोत्तमम् ॥२०॥


 

SRI GOPALA ASHTAKAM

             श्रीगोपालाष्टकम्
        ( ब्रह्मानन्दविरचितम्)
यस्माद्विश्वं जातमिदं चित्रमतर्क्यं
यस्मिन्नानन्दात्मनि नित्यं रमते वै।
यत्रान्ते संयाति लयञ्चैतदशेषं
तं गोपालं सन्ततकालं प्रतिवन्दे ॥१॥
यस्याऽज्ञानाज्जन्मजरारोगकदंबं
ज्ञाते यस्मिन्नश्यति तत्सर्वमिहाशु
गत्वा यत्रायाति पुनर्नो भवभूमिं
तं गोपालं सन्ततकालं प्रतिवन्दे॥२॥
तिष्ठन्नन्तर्यो यमयत्येतदजस्रं
यं कश्चिन्नो वेद जनोप्यात्मनि सन्तं
सर्वं यस्येदं च वशे तिष्ठति विश्वं
तं गोपालं सन्ततकालं प्रतिवन्दे॥३॥
धर्मोऽधर्मणैह तिरस्कारमुपैति
काले यस्मिन् मत्स्यमुखैश्चारुचरित्रैः।
नानारूपैः पाति तदा योऽवनिबिंबं
तं गोपालं सन्ततकालं प्रतिवन्दे॥४॥
प्राणायामैर्ध्वस्तसमस्तेन्द्रियदोषा
रुद्ध्वा चित्तं यं हृदि पश्यन्ति समाधौ।
ज्योतीरूपं योगिजना मोदनिमग्ना-
स्तं गोपालं सन्ततकालं प्रतिवन्दे॥५॥
भानुश्चन्द्रश्चोडुगणश्चैव हुताशो
यस्मिन्नैवाभाति तडिच्चापि कदापि।
यद्भासा चाभाति समस्तं जगदेतत्
तं गोपालं सन्ततकालं प्रतिवन्दे॥६॥
सत्यं ज्ञानं मोदमवोचुर्निगमा यं
यो ब्रह्मेन्द्रादित्यगिरीशार्चितपादः।
शेतेनन्तोऽनन्तनवांबुनिधौ य-
स्तं गोपालं सन्ततकालं प्रतिवन्दे॥७॥
शैवाः प्राहुर्यं शिवमन्ये गणनाथं
शक्तिश्चैकेऽर्कञ्च तथान्ये मतिभेदात्
नानाकारैर्भाति य एकोऽखिलशक्ति-
स्तं गोपालं सन्ततकालं प्रतिवन्दे॥८॥
श्रीमत्गोपालाष्टकमेतत् समधीते
भक्त्यानित्यं यो मनुजो वै स्थिरचेताः।
हित्वा तूर्णं पापकलापं स समेति
पुण्यं विष्णोर्धाम यतो नैव निपातः ॥९॥


GOPALA VIMSHATI

                                गोपालविंशति:
       (वेदान्तदेशिकविरचितम्)
वन्दे वृन्दावनचरं वल्लवीजनवल्लभम्।
जयन्तीसंभवं धाम वैजयन्तीविभूषणम्॥१॥
वाचं निजाङ्करसिकां प्रसमीक्षमाणो
वक्त्रारविन्दविनिवेशितपाञ्चजन्यः
वर्णत्रिकोणरुचिरे वरपुण्डरीके
बद्धासनो जयति वल्लवचक्रवर्ती ॥२॥
आम्नायगन्धरुचिरस्फुरिताधरोष्ठ-
मस्राविलेक्षणमनुक्षणमन्दहासम्।
गोपालडिंभवपुषं कुहनाजनन्याः
प्राणस्तनन्धयमवैमि परं पुमांसम् ॥३॥
आविर्भवत्यनिभृताभरणं पुरस्ता-
दाकुञ्चितैकचरणं निहितान्यपादम्।
राधानिबद्धमुकुरेण निबद्धतालं
नाथस्य नन्दभवने नवनीतनाट्यम् ॥४॥
कुन्दप्रसूनविशदैर्द्दशनैश्चतुर्भिः
सन्दश्य मातुरनिशं कुचचूचुकाग्रम्।
नन्दस्य वक्त्रमवलोकयतो मुरारे-
र्मन्दस्मितं मम मनीषितमातनोतु  ॥५॥
हर्तुं कुम्भे विनिहितकरः स्वादुहैयंगवीनं
दृष्ट्वा चापग्रहणचटुलां मातरं जातरोषाम् ।
पायादीषत्प्रचलितपदो नावगच्छन्नतिष्ठ-
न्मिथ्यागोपः सपदि नयने मीलयन् विश्वगोप्ता॥६॥
व्रजयोषिदपाङ्गवेदनीयं मथुराभाग्यमनन्यभाग्यमीडे।
वसुदेववधूस्तनन्धयं तत् किमपिब्रह्म किशोरभावदृश्यम्॥७॥
परिवर्तितकन्धरं  भयेन स्मितफुल्लाधरपल्लवं स्मरामि।
विटपित्वनिरासकं कयोश्चिद्विपुलोलूखलकर्षकं कुमारम् ॥८॥
निकटेषु निशामयामि नित्यं निगमान्तैरधुनापिमृग्यमाणम्।
यमलार्जुनदृष्टबालकेलिं यमुनासाक्षिकयौवतं युवानम् ॥९॥
पदवीमदवीयसींविमुक्तेरटवीसंपदमंबुवाहयन्तीं।
अरुणाधरसाभिलाषवंशां करुणां कारणमानुषं भजामि ॥१०॥
अनिमेषनिषेवनीयमक्ष्णो-
रजहद्यौवनमाविरस्तु चित्ते।
कलहायितकुन्तलं कलापैः
करुणोन्मादकविग्रहं विभो मे ॥११॥
अनुयायि मनोज्ञवंशनालै
रवतु स्पर्शितवल्लवी विमोघैः।
अनघस्मितशीतलैरसौ मा-
मनुकंपासरिदंबुजैरपांगैः ॥१२॥
अधराहितचारुवंशनाला
मुकुटालंबिमयूरपिञ्छमालाः।
हरिनीलशिलाविहंगलीलाः
प्रतिभासन्तु ममान्तिमप्रयाणे॥१३॥
अखिलानवलोकयामि कालान्
महिलालीनभुजान्तरस्य यूनि
अभिलाषपदं व्रजांगनाना-
मभिलापक्रमदूरमाभिरूप्यम् ॥१४॥
महसे महितायमौलिना
विनतेनाञ्जलिमञ्जनत्विषे।
कलयामि विदग्धवल्लवी-
वलयाभाषितमञ्जुवेणवे ॥१५॥
जयतु ललितनृत्यं शिक्षतो वल्लवीनां
शिथिलवलयशिञ्जा शीतलैर्हस्ततालैः।
अखिलभुवनरक्षागोपवषस्य विष्णो-
रधरमणिसुधाया वंशवान् वंशनालः ॥१६॥
चित्राकल्पश्रवसि कलयन् लांगलीकर्णपूरं
बर्होत्तंसस्फुरितचिकुरो बन्धुजीवं दधानः।
गुञ्जां बद्धामुरसि ललितां धारयन् हारयष्टिं
गोपस्त्रीणां जयति कितवो कोऽपि कामापहारी ॥१७॥
लीलायष्टिं करकिसलये दक्षिणे न्यस्य धन्या-
मंसे देव्याः पुलकनिबिडे सन्निविष्टान्यबाहुः।
मेघश्यामो जयति ललितं मेखलादत्तवेणु-
र्गुञ्जापीडस्फुरितचिकुरो गोपकन्याभुजंगः॥१८॥

प्रीत्यालीढस्मृतिमधिगतां प्राप्तगाढांगपालीं
पश्चादीषन्मिलितनयनां प्रेयसीं प्रेक्षमाणः।
भस्त्रायंत्रप्रणिहितकरो भक्तजीवातुरव्या-
द्वारिक्रीडानिबिडवसनो वल्लवीवल्लभो नः ॥१९॥
वासो हृत्वा दिनकरसुता सन्निधौ वल्लवीनां
लीलास्मेरो जयति ललितामास्थितः कन्दशाखाम्।
सव्रीडाभिस्तदनु वसनं ताभिरभ्यर्थ्यमानः
कामी कश्चित् करकमलयोरञ्जलिं याचमानः ॥२०॥


  

PRAYER OF GOPIS TO LORD VISHNU TO PROTECT CHILD KRISHNA

PRAYER OF GOPIS TO LORD VISHNU
TO PROTECT CHILD KRISHNA
Source: Srimad Bhagavatam, Tenth Canto, 6th Chapter:  Putana Moksha
अव्यादजोङ्घ्रिमणिमांस्तव जान्वथोरू
यज्ञोच्युत: कटितटं जठरं हयास्यः
हृत् केशवस्त्वदुर ईश इनस्तु कण्ठं
विष्णुर्भुजं मुखमुरुक्रम ईश्वर कम्
चक्र्यग्रतः सहगदो हरिरस्तु पश्चात्
त्वत्पार्श्वयोर्धनुरसी मधुहाजनश्च
कोणेषु शंख उरुगाय उपर्युपेन्द्रः
तार्क्ष्यः क्षितौ हलधरः पुरुषः समन्तात्
इन्द्रियाणि हृषीकेशः प्राणान्नारायणोऽवतु
श्वेतद्वीपपतिश्चित्तं मनो योगेश्वरोऽवतु
पृश्निगर्भस्तु ते बुद्धिं आत्मानं भगवान् परः
क्रीडन्तं पातु गोविन्दः शयानं पातु माधवः
व्रजन्तमव्याद्वैकुण्ठः आसीनं त्वां श्रियः पतिः
भुञ्जानं यज्ञभुक् पातु सर्वग्रहभयंकरः
डाकिन्यो यातुधान्यश्च कूष्माण्डा येऽर्भकग्रहाः
सर्वे नश्यन्तु ते विष्णोर्नामग्रहणबीरवः
 
May Aja protect your feet, Animaan your knees,  yagna  your thighs, Achyuta your hip and Hayaasya your stomach.  May Keshava protect your heart,  Isha your chest, Inah your neck, Vishnu your hands, Urukrama your face and Ishwara your head.
May Chakree guard you from the front,  Hari with his mace from behind,  Madhuha and Ajana with  bow and arrow and sword on your sides, Urugaaya with shamkha on the corners, Upendra from above, Tarkshya on the earth and Purusha with the plough from all sides. 
May Hrishikesha protect your senses, Naraayana your prana, the Lord of shwetha Dwipa your chitta,and Yogeswara your mind.  May Prisnigarbha protect your intellect and the Highest Bhagawan your Atma .
May Govinda guard you while playing, Madhava while sleeping, Vaikuntha while walking and Shriyah Pati while sitting. May Yagnabhuk, the terror of all evil spirits,  take care of you while eating.
May all evil be destroyed for the child by the power of the names of  Lord Vishnu
[Note: The Gopis of Vraja invoke the protection of the Lord for the child Krishna.]