HYMNS TO GANESHA – SHRI GANESHA ASHTAKAM (GANESHA PURANA)

 श्रीगणेशाष्टकम्
       (गणेशपुराणांतर्गतं)  
 यतोऽनंतशक्तेरनंताश्च जीवाः
यतो निर्गुणादप्रमेया
गुणास्ते ।
यतो भाति सर्वं त्रिधाभेदभिन्नं
सदा तं गणेशं नमामो
भजामः ॥ १ ॥
यतश्चाविरासीज्जगत्सर्वमेतत्
तथाब्जासनो विश्वगो
विश्वगोप्ता ।
तथेन्द्रादयो देवसंघा
मनुष्याः
सदा तं गणेशं नमामो
भजामः ॥ २ ॥
यतो वह्निभानू  भवोभूर्जलं च
यतस्सागराश्चन्द्रमा
व्योमवायुः ।
यतः स्थावरा जंगमा
वृक्षसंघाः
सदा तं गणेशं नमामो
भजामः ॥ ३ ॥
यतो दानवाः किन्नरा
यक्षसंघाः
यतश्चारणा वारणाः श्वापदाश्च
यतः पक्षिकीटाः यतो
वीरुधश्च
सदा तं गणेशं नमामो
भजामः ॥ ४ ॥
यतो बुद्धिरज्ञाननाशो
मुमुक्षो:
यतस्संपदो भक्तसंतोषिकाः
स्युः ।
यतो विघ्ननाशो यतः
कार्यसिद्धिः
सदा तं गणेशं नमामो
भजामः  ॥ ५ ॥
यतो पुत्रसंपद्यतो वांछितार्थो
यतोऽभक्तविघ्नास्तथानेकरूपाः ।
यतः शोकमोहौ यतः काम एवं
सदा तं गणेशं नमामो भजामः ॥ ६ ॥
यतोऽनंतशक्तिः
स शेषो बभूव
धराधारणेऽनेकरूपे च शक्तः ।
यतोऽनेकधा स्वर्गलोकाहि नानाः
सदा तं गणेशं नमामो भजामः ॥ ७ ॥
यतो वेदवाचो विकुण्ठा मनोभिः
सदा नेति नेतीति यत्ता गृणन्ति ।
परब्रह्मरूपं चिदानन्दभूतं
सदा तं गणेशं नमामो भजामः ॥ ८ ॥
पुनरूचे गणाधीशः स्तोत्रमेतत्पठेन्नरः ।
त्रिसन्ध्यं त्रिदिनं
तस्य सर्वं कार्यं भविष्यति ॥ ९ ॥
यो जपेदष्टदिवसं श्लोकाष्टकमिदं शुभम् ।
अष्टवारं चतुर्थ्यां
तु सोऽष्टसिद्धीरवाप्नुयात् ॥ १० ॥
यः पठेन्मासमात्रन्तु
दशवारं दिने दिने ।
स मोचयेद्बंधगतं राजवध्यं न संशयः ॥ ११ ॥
विद्याकामो लभेद्विद्यां पुत्रार्थी पुत्रमाप्नुयात् ।
वांछितांल्लभते सर्वानेकविंशतिवारतः ॥ १२ ॥
यो जपेत्परयाभक्त्या गजाननपरोनरः ।
एवमुक्त्वा ततो देवश्चान्तर्धानं गतो प्रभुः ॥ १३ ॥

        

             ***

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.