अश्वत्थस्तोत्रम्
आयुर्बलं यशोवर्चः प्रजाः पशुवसूनि च।
ब्रह्मप्रज्ञां च मेधां च त्वं नो देहि वनस्पते॥१॥
सततं वरुणो रक्षेत् त्वामाराद्वृष्टिराश्रयेत्।
परितस्त्वां निषेवन्तां तृणानि सुखमस्तु ते ॥२॥
अक्षिस्तन्दं भुजस्पन्दं दुःस्वप्नं दुर्विचिन्तनम्।
शत्रूणां च समुत्थानं ह्यश्वत्थ शमय प्रभो ॥३॥
अश्वत्थाय वरेण्याय सर्वैश्वर्यप्रदायिने।
नमो दुस्स्वप्ननाशाय सुस्वप्नफलदायिने॥४॥
नमो दुस्स्वप्ननाशाय सुस्वप्नफलदायिने॥४॥
मूलतो ब्रह्मरूपाय मध्यतो विष्णुरूपिणे।
अग्रतः शिवरूपाय वृक्षराजाय ते बमः ॥५॥
अश्वत्थ सर्वपापानि शतजन्मार्जितानि च।
नुदस्व मम वृक्षेन्द्र सर्वैश्वर्यप्रदो भव ॥६॥
यं दृष्ट्वा मुच्यते रोगैः स्पृष्ट्वा पापैः प्रमुच्यते।
पदाश्रयाच्चिरञ्जीवी तमश्वत्थं नमाम्यहम् ॥७॥
अश्वत्थ सुमहाभाग सुभग प्रियदर्शन।
इष्टकामांश्च मे देहि शत्रुभ्यश्चाऽपराभवम् ॥८॥
आयुः प्रजां धनं धान्यं सौभाग्यं सर्वसंपदम्।
देहि देव महावृक्ष त्वामहं शरणं गतः ॥९॥
ऋग्यजुः साममन्त्रात्मा सर्वरूपी परात्परः।
अश्वत्थो वेदमूलोऽसावृषिभिः प्रोच्यते सदा ॥१०॥
ब्रह्महा गुरुहा चैव दरिद्रो व्याधिपीडितः ।
आवृत्य लक्षसंख्यं तत्स्तोत्रमेतत्सुखी भवेत् ॥११॥
You must log in to post a comment.