नवग्रहस्तोत्रम्
(वेदव्यासकृतं)
जपाकुसुमसङ्काशं काश्यपेयं
महाद्युतिं ।
महाद्युतिं ।
तमोरिं सर्वपापघ्नं प्रणतोऽस्मि दिवाकरम्॥१॥
दधिशंखतुषाराभं क्षीरोदार्णवसंभवम्।
नमामि शशिनं सोमं शंभोर्मकुटभूषणम् ॥२॥
धरणीगर्भसंभूतं विद्युत्कान्तिसमप्रभम्।
कुमारं शक्तिहस्तं तं मङ्गलं प्रणमाम्यहम् ॥३॥
प्रियंगुकलिकाश्यामं रूपेणाप्रतिमं बुधम्
सौम्यं सौम्यगुणोपेतं तं बुधं प्रणमाम्यहम् ॥४॥
देवानाञ्च ऋषीणाञ्च गुरुं काञ्चनसन्निभम्।
बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिम् ।५॥
हिमकुन्दमृणालाभं दैत्यानां परमं गुरुम्।
सर्वशास्त्रप्रवक्तारं भार्गवं प्रणमाम्यहम् ॥६॥
नीलाञ्जनसमाभासं रविपुत्रं यमाग्रजम्।
छायामार्ताण्डसंभूतं तं नमामि शनैश्चरम् ॥७॥
अर्द्धकायं महाविर्यं चन्द्रादित्यविमर्दनम्।
सिंहिकागर्भसंभूतं तं राहुं प्रणमाम्यहम् ॥८॥
पलाशपुष्पसंकाशं तारकाग्रहमस्तकम्।
रौद्रं रौद्रात्मकं घोरं तं केतुं
प्रणमाम्यहम् ॥९॥
प्रणमाम्यहम् ॥९॥
इति व्यासमुखोद्गीतं यः पठेत् सुसमाहितः
दिवा वा यदि वा रात्रौ विघ्नशान्तिर्भविष्यति॥१०॥
नरनारीनृपाणां च भवेत् दुःस्वप्ननाशनम्।
ऐश्वर्यमतुलं तेषामारोग्यं पुष्टिवर्धनम् ॥११॥
ग्रहनक्षत्रजापीडास्ताश्चोराग्निसमुद्भवाः
ताः सर्वाः प्रशमं यान्ति व्यासो ब्रूते न संशयः ॥१२॥