सङ्कटा नामाष्टकम्
आनन्दकानने देवी सङ्कटा नाम विश्रुता।
वीरेश्वरोत्तरे भागे पूर्वं चन्द्रेश्वरस्य च ॥१॥
शृणु नामाष्टकं तस्याः सर्वसिद्धिकरं नृणां ।
सङ्कटा प्रथमं नाम द्वितीयं विजया तथा ॥२॥
तृतीयं कामदा प्रोक्तं चतुर्थं दुःखहारिणी।
शर्वाणी पञ्चमं नाम षष्ठं कार्त्यायनी तथा॥३॥
सप्तमं भीमनयना सर्वरोगहराष्टमं
नामाष्टकमिदं पुण्यं त्रिसन्ध्यं श्रद्धयान्वितः
यः पठेत् पाठयेद्वापि नरो मुच्येत सङ्कटात् ॥४॥
You must log in to post a comment.