SRIPADASAPTATI

                    SRIPADASAPTATI
This is a beautiful devotional poem
from Melpathur Narayana Bhattatiri,   the celebrated author of Narayaneeyam which is
a masterly summary, in 1036 verses, of Srimad Bhagavatam containing 18000 verses.
Sripadasaptati is a hymn to the lotus feet of Bhagavati( another name for Durga
or Parvathy, consort of Lord Shiva) consecrated at Muktisthala (known as
Mukkolam) in Kerala. The composition is full of figures of speech in Sanskrit
like upama, utpreksha, shlesha etc and can easily match, in
its poetic excellence and rhythmic beauty,  the Padaravinda Satakam on Kamakshi
by Mooka Kavi.  
Bhattatiri  as a
poet shines  through these scintillating
70 verses which certainly will gladden the hearts of devotees of the Divine
Mother.  
       श्रीपादसप्ततिः
दक्षाधःकरपल्लवे लसदसिं दक्षोर्ध्वगे शूलिनीं
वामोर्ध्वे फलकोज्ज्वलां कटितटन्यस्तान्यहस्तांबुजाम्
शूलाग्राहतकासरासुरशिरोनिष्ठां प्रहृष्टां सुरैर्
जुष्टामिष्टफलप्रदां भगवतीं मुक्तिस्थलस्थां भजे ॥१॥
यत्संवाहनलोभिनः शशिकलाचूडस्य हस्तांबुज-
स्पर्शेनापि च लोहितायति मुहुस्त्वत्पादपङ्केरुहम्।
तेनैवोद्धतकासुरासुरशिरश्शृंगाग्रसञ्चूर्णन-
प्राचण्ड्यं तदनुष्ठितं किल कथं मुक्तिस्थलस्थे शिवे !॥२॥
त्वत्पादं निजमस्तके घटयितुं के के नु  लोकेजनाः
किं किं नारचयन्ति दुश्चरतपश्चर्यासपर्यादिकम्।
मन्ये धन्यतमं तु देवि!
महिषं वैरस्थयैव त्वया
यन्मूर्ध्नि स्वयमेव पातकहरं पादांबुजं पातितम् ॥३॥
त्वत्पादांबुजमर्पितं क्व नु शिवे! किं नु त्रयी मस्तके?
नित्यं तत्त्वविचारदत्तमनसां चित्तांबुजाग्रेषु वा
किं वा त्वत्प्रणयप्रकोपविनमन्मारारिमौलिस्थले?
किं प्रोत्खण्डितघोरसैरिभमहादैत्येन्द्रमूर्धान्तरे ॥४॥
त्वत्पादाञ्चलरूपकल्पलतिकाबालप्रवालद्वयं
ये तावत् कलयन्ति जातु शिरसा नम्रेण कम्रोज्ज्वलम् ।
तेषामेव हि देवि!
नन्दनवनक्रीडासु लभ्यं पुनः
स्वर्वल्लीतरुणप्रवालभरणं सेवानुरूपं फलम् ॥५॥
धावल्यं परिलाल्यते पुररिपोरंगेन तुंगश्रिया
किञ्च श्यामलिमापि कोमलतरे भात्येव गात्रे हरेः।
तत्तादृक्पदवीं ममापि जनयेत्यस्तोकसेवारसा-
दारुण्यं तव लीयते चरणयोः कारुण्यमूर्ते शिवे !॥६॥
आरुण्यं यदिदं त्वदीयपदयोराभाति,
तत् केचन
प्राहुस्तुङ्गनितंबभारभरणक्लान्त्या किलोपागतम्।
अन्ये माहिषमूर्धपेषमिलितं रक्तद्रवं मन्वते
मन्येहं तु नतेषु सान्द्रमनुरागोत्गारमेवानयो: ॥७॥
प्राहुः पद्मसमाश्रयं शतधृतिं त्वत्पादपद्माश्रया-
दन्तस्त्वत्पदपद्मवीक्षणवशात् कृष्णोऽपि पद्मेक्षणः।
यत् पद्मार्चनमामनन्ति सुधियो दारिद्र्यविद्रावणं
मुक्तिक्षेत्रगते!
भवानि! तदपि
त्वत्पादपद्मार्चनम् ॥८॥
पादं ते सरसीरुहद्रुहमिमं यत्सेवते पद्मभू-
र्नूनं तत् स्वनिवासपंकजवरश्रीलंघनाशंकया।
गोविन्दोऽपि च वारिराशिदुहितुर्वासाब्जबाधाभिया
स्वस्यैवाग्रकरोत्गृहीतकमलत्राणाभिलाषेण वा ॥९॥
सेवन्ते कुलसंपदे नखमयाः शीतांशवस्त्वत्पदं
तत्पाकोननु वीक्ष्यते हि नितरामन्येषु शीतांशुषु।
एको बालक एव मौलिमयि!
ते यातो, ललाटात्मता-
मन्यो, निर्मलगण्डमण्डलदशामन्यौ
तु धन्यौ गतौ ॥१०॥
घोरं पादसहस्रकं प्रकटयन्नाशासु भासां पतिर्-
ध्वान्तं नो पुनरान्तरं शमयितुं शक्नोति शैलात्मजे।
त्वत्पादद्वितयेन कोमलतरेणानेन चेतःस्पृशा
जन्तूनां बहिरन्तरन्धतमसं कृन्तत्यनन्तं शिवे ॥११॥
सूर्येन्द्वग्निसमीरणादिसकलस्वर्वासिनामुन्मदः
सर्वाण्येव पदानि यो मथितवान् दुर्वारशौर्योष्मणा।
तं घोरं महिषासुरं निजपदेनैकेन सम्मृद्‍नती
यत्त्वं प्रत्यकृथा स्ततः किमपरं त्वद्वैभवं ब्रूमहे ॥१२॥
एकं वामतयैव, दक्षिणतयैवान्यत्, पदं
देहिनां
ख्यातं मुक्तिपुराधिवासिनि!
शिवे!, चित्रं
त्वयि त्वीदृशं।
आनम्रेषु जनेष्वभीष्टकरणे पादावुभौ दक्षिणा-
वानम्रे तु कृतागसि स्मरहरे वामाक्षि! वामावुभौ ॥१३॥
आनम्रस्य पुरद्रुहः शिरसि ते पादाब्जपातः शिवे!
जीया, द्येन
बभूव पंकजवती मौलिस्रवन्ती क्षणं।
किञ्चोदञ्चितबालपल्लववती जाता जटावल्लरी
लाक्षापातवशेन सान्ध्यसुषमा सान्द्रा च चान्द्री कला ॥१४॥
दृष्ट्वा रात्रिषु चन्द्रपादजनितां पाथोरुहाणां व्यथां
देवि त्वं करुणाकुलेव कुरुषे तद्वैरनिर्यातनम् ।
मानानम्रमहेशमौलिवलभीवासस्य शीतत्विषो
नित्यं पङ्कजपादघातजनिता बाधा यदाधीयते॥१५॥
संभ्रान्तिस्तव देवि!
सा विजयते मानावनम्रे शिवे
त्वत्पादांबुरुहप्रहारमुदिते मन्दं समुत्थायिनि।
लक्षारागरसारुणं निपतितं गंगापयश्शीकरं
दृष्ट्वा शोणितशङ्कया तरलिता कान्तं यदालंबथाः ॥१६॥
  
सा  पादद्वितयाहतिर्जयति ते, यस्यां गिरीन्द्रात्मजे!
प्राचीनेन्दुयुते नवेन्दुदशके मौलिस्थलीसंगते
स्वस्यैकादशमूर्तितासमुचितानैकादशैवोडुपा-
नाबिभ्राण इवाबभौ स भगवानेकोऽपि रुद्रः स्वयम् ॥१७॥
किं वैरिञ्चकरोटिकोटिनिहतं किं वा फणिग्रामणी-
निश्वासानिलखेदितं न्विदमिति प्रेमार्द्रसंलापिना।
मानस्योपशमे करेण शनकैरामृद्‍नता शंभुना
भूयश्चुंबितमंबुजद्युतिपदं ध्यायामि माये तव ॥१८॥
पूर्वं जह्नुसुता सकृन्मुररुपोः श्रीपादसंक्षालना-
पुण्यादीदृशवैभवा समभवत् गोविन्दवन्द्ये! शिवे!।
सेयं संप्रति शंभुमौलिनिलया मानप्रसंगानतौ
नित्यं त्वच्चरणावसेचनभुवा पुण्येन कीदृग्भवेत् ॥१९॥
पूर्वं व्याकरणप्रपञ्चनविधौ लब्ध्वाप्यनेकं पदं
किं नो तृप्तिमगादगाधिपसुते!
शेषः फणिग्रामणीः।
आलीनः शशिमौलिमूर्धनि चिरं प्रेमप्रकोपानतौ
लब्धुं ते पदमेकमेव कुतिकी नित्यं यतो वर्तते ॥२०॥
तिष्ठन्त्यां प्रणयप्रकोपवशतो बाष्पाकुलाक्ष्यां त्वयि
श्रीकण्ठे नखदर्पणप्रतिफलद्रूपे पुरोवर्तिनि।
पादाग्रे पतितोयमित्यभिहिते सख्या, तवालोकनं
लोलं पादतले विभाति सहसा साकोपमालीमुखे ॥२१॥
कान्तालोकनलज्जया विनमिते कान्ते मुखांभोरुहे
यासौ भूतलपातुका नयनयोः शोभा तवाभासते।
सा तावत्तरुणारुणांबुजयुगभ्रान्त्या त्वदंघ्रिद्वय-
प्रान्ते भाति मरन्दपानकुतुकभ्रान्तेव भृङ्गावली ॥२२॥
किं ब्रूमः कुटिलात्मकोपि कबरीभारस्त्वदीयः शिवे!
केलीविश्लथितस्तनोति यदयं त्वत्पादसंस्पर्शनम्।
तत् भूयः सुमनोगणादृतगुणस्त्वन्मौलिसंलाल्यतां
धत्ते चित्रमसौ,
त्वदंघ्रिभजनात् किं केन नो लभ्यते ॥२३॥
रागद्वेषमुखा हि विभ्रमभरा नश्यन्ति विश्वेश्वरि!
त्वत्संगादिति मुक्तिदेशनिलये!
मिथ्या जनैः कथ्यते ।
उद्यद्द्वेषमुदारविभ्रमभरं गात्रं दधत्या त्वया
रागोपि ध्रियतेऽधिकं चरणयोः शोणांबुजच्छाययोः॥२४॥
देवि! त्वत्पदसत्परागमनिशं
मौलौ समाबिभ्रतां
साधूनामपरागतैव भवतीत्याश्चर्यमास्तामिदं।
पादस्ते नखरप्रभाबलसितो जागर्ति सोयं पुन-
श्चित्रं नाम खरप्रभावलसितो दुष्टासुरं पिष्टवान् ॥२५॥
द्वित्वेन स्थितत्योस्त्वदीयपदयोर्द्वैतं निरस्य स्फुटं
कैवल्यप्रतिपादने कुशलता जातेति कोऽयं क्रमः।
किं वा युक्तिभिरत्र,
मुक्तिकरता व्यक्तैव ते पादयोर्-
मुक्ता एव हि विस्फुरन्ति विमलास्तत्संगिनोऽमी नखाः॥२६॥
पादाग्रं तव कामदं सुरलताशाखाग्रमाचक्ष्महे
जाता यत्र हि बालपल्लवरुचिः स्वैरेव रागोदयैः।
उत्सर्पन्नखमण्डलीसुषमया पुष्पालिरुत्पादिता
सञ्जातालिरुतिश्च मञ्जुलतरैर्मञ्जीरशिञ्जारवैः ॥२७॥
देवीयं तव सन्नतेशमकुटस्वर्लोककल्लोलिनी-
कल्लोलाहतिभिर्विशेषविमला जीयान्नखश्रेणिका।
यद्धावल्यमवाप्तुमात्तकुतुकास्तोये तपस्यन्त्यमी
दीनाः फेनकणाश्च मौक्तिकगणाः शंखाश्च शंकामहे ॥२८॥
माने शंभुशिरःप्रहारचरितं नैव त्वदिच्छाकृतं
जाने देवि! पदाब्जयोस्तु पुरजिन्मूर्ध्ना विरोधादिदम्।
एते पादनखांशुबद्धकलहाः शीतांशुमन्दाकिनी-
भोगीन्द्राः किल शङ्करस्य शिरसा शङ्कां विना रक्षिताः ॥२९॥
देवि! त्वच्चरणोच्च्लन्नखघृणिश्रेणीषु
लीनो नम-
न्नाभाति स्फटिकाचलस्फुटतटीशायीव सायन्नटः।
हंसालीन इव स्वयं कमलभूः,
क्षीराब्धिशायीव च
श्रीभर्ता मघवापि नाकसरिति स्नायन्निवालोक्यते ॥३०॥
डोलाकेलिविधौ हिमाचलशिलादेशे समभ्याहतात्
पादाग्रात्तव यानि यावकरसप्रस्यन्दनान्यंबिके!।
तान्यभ्यागतसुंभसंगरभवद्रक्तांबुविस्तारणा-
बिन्दुक्षेपनिभानि नन्ददमरीवन्द्यानि वन्दामहे ॥३१॥
डोलाकेलिषु यं हिमाचलशिलालग्नं वनेवासिनो
भक्त्या योगिवरास्त्रिपुण्ड्रकलिते लिम्पन्ति फालान्तरे।
यं सिद्धप्रमदाः समेत्य तिलकं कुर्वन्ति नत्वा मुहु-
स्तं दाक्षायणि!
ते कदा नु पदयोरीक्षेय लाक्षारसम्? ॥३२॥
देवि! त्वं
मुरवैरिणः प्रणमने यत्किञ्चिदाकुञ्चय       
श्रीपादांबुज, मन्यथास्य शिरसि त्वत्पादलाक्षाञ्चिते ।
श्रीभूम्योरितरप्रणामकृतमित्यन्योन्यमाशङ्कया
रोषव्याकुलयोश्चिरं स भगवान् जायेत पर्याकुलः ॥३३॥
प्रागुद्वाहविधौ हिमाचलसदस्यश्माधिरोपाय य-
’न्न स्प्रक्ष्यामि वियद्धुनी’ मिति पुनः सत्यं विधातुं च यत्।
दैत्योक्षेपणसाहसे विरचिते संवाहनार्थं च यत्
तत् पादग्रहणत्रयं विजयते शर्वेण शर्वाणि! ते ॥३४॥
सुंभस्ते किल देवि!
रागकलहे पादप्रहारोत्सवं
लब्धुं कांक्षितवा,नुपायमिह खल्वज्ञो न विज्ञातवान्।
यद्यायोत्स्यत घोरमाहिषवपुर्धारी स वैरी, ततः
प्राघानिष्यत मूर्ध्नि कोमलरुचा पादारविन्देन ते ॥३५॥
आनम्रे गिरिशे पदप्रहरणे दत्ते भवत्या रुषा
“नाथे! किं महिषोह” मित्यभिहिते देवेन तस्मिन् क्षणे।
आलिष्वाकुलितस्मितासु,
पुनरप्युद्दामपुष्यद्रुष-
स्तन्मौलौ जयति द्वितीयमपि ते पादाब्जसंताड
नम् ॥३६॥
पादाग्रं तव संगरश्रमवशादाक्षारिलाक्षारसं
विन्यस्तं मृगनायकोपरि चिराज्जीयादगेन्द्रात्मजे।
यत्कान्त्यैव च लोहितो मृगपतिर्दैत्यप्रहारोत्गल-
द्रक्तांभःकणिका वहन्नपि तथा नामानि वैमानिकैः ॥३७॥
“नैवालिम्प निलिम्पमूर्धसु, न वा सिंहोपरि त्यज्यतां
मा चेदं महिषस्य मूर्ध्नि रभसादालिप्य लोलुप्यतां।
पत्युर्मौलिनदीजले परमिदं संक्षालनीयं त्वये”-
त्यालीकेलिगिरो जयन्ति गिरिजे!
त्वत्पादलाक्षार्पणे ॥३८॥
नत्वैव प्रथमं त्वदंघ्रिकमलं तौ पुष्पवन्तावुभौ
त्रैलोक्यं महसाभिभूय चरतो व्योमान्तरप्रान्तरे।
नाथे! तौ
कथमन्यथा परिगलद्लाक्षारसक्षालितौ
वीक्ष्येते भृशशोणबिंबमुदयारंभे प्रियंभावुकौ    ॥३९॥
त्रैलोक्यं वशयन्ति पापपटलीमुच्चाटयन्त्युच्चकै-
र्विद्वेषं जनयन्त्यधर्मविषये प्रस्तंभयन्त्यापदः।
आकर्षन्त्यभिवाञ्छितानि महिषस्वर्वैरिणॊ मारणा-
श्चित्त्रं! त्वत्पदसिद्धचूर्णनिवहाः षट्कर्मणां साधकाः ॥४०॥
किं कल्पद्रुमपञ्चकं प्रणमतामाकांक्षितापादने
किं पञ्चायुधबाणपञ्चकमिदं मारारिसंमोहने।
सूक्ष्मं किञ्चन पञ्चभूतवपुषो विश्वस्य किं कारणं
त्वत्पादाङ्गुलिपञ्चकात्मकमिदं किं भाति शंभोः प्रिये ॥४१॥
डोलाकेलिषु दूरदूरगमने प्रेङ्खोलनाविभ्रमे
मेदिन्यामनिपातितं जयति ते नाथे!
पदांभोरुहम्।
भक्त्या सन्नमतां त्वदाननगलत्गानामृतामूर्च्छया
भूपृष्ठे चिरशायिनां दिविषदामाघट्टनासाध्वसात् ॥४२॥
मञ्जीरप्रसरन्मसारसुषमारूपा कलिन्दात्मजा
स्वच्छ्च्छायनखांशुसञ्चयमयी गंगा च संगामुका।
शोणः पादरुचां चयश्च मिलितो येन त्वदग्रे, ततो
मज्जन्तीव नमन्ति तत्र मुनयः सर्वेऽपि शर्वाङ्गने ॥४३॥
मञ्जीरार्पितशक्रनीलशकलश्रीचञ्चरीकाञ्चितं
राजद्रेणुविभूषितं परमहंसालीभिरासेवितम् ।
त्वत्पादाग्रसरोजमङ्गुलिदलच्छायाभिराभासुरं
विष्वग्रोचिनखांशुजालपयसि स्वच्छे समुच्छोभते॥४४॥
मञ्जीरस्वनमञ्जुविष्किररवे तत्संगिनीलोपल-
च्छायारूपतमोलवे नखमिषादक्षीणतारागणे।
सन्ध्यारागनिभस्वकान्तिपटले त्वत्पादमूलात्मक-
प्रत्यूषोपगमे हि देवि!
लभते लोकः प्रबोधोदयम्॥४५॥
विद्यामुक्तिरमावधूषु नितरां कामातुरा मानवा-
स्तप्तास्त्वन्नखकान्तिचन्दनरसैरालिप्य गात्रं निजं।
त्वत्पादाब्जरुचिप्रवालनिचिते भूमीतले शेरते
नित्यं देवि! भवत्कृपाप्रियसखीविश्वासतः केवलम्॥४६॥
मञ्जीरक्वणितैः क्षिपन्निव मुहुः श्रीमन्नखांशूत्गमैर्
दैत्येन्द्रं प्रहसन्निवारुणरुचा रुष्यन्निवास्मै भृशम्।
धीरायां त्वयि निर्विकारमनसि त्वत्पाद एव स्फुटं
पुष्णन् वैरिविकारमेष महिषध्वंसी परित्रायताम् ॥४७॥
क्षिप्रं देवि शिरस्पदेन महिषं
पिष्ट्वा ततोऽधः पदं
दित्स्यन्त्यां  त्वयि  कण्ठभञ्जनभिया कण्ठीरवे विद्रुते  ।
मेदिन्यामपि  भीतिकंपिततनौ  प्रेमत्वराशालिना
शर्वेणैवनिजाङ्कसीम्नि  निहितं पादद्वयं ते जयेत्     ॥ ४८॥
पुर्वं  देवि!  पदांबुजेन महिषप्रध्वंसनाभ्यासतः
पश्चात् कुत्सितसुम्भदैत्यविजयोप्येवं  कृतः  किं त्वया?
नो चेत् भाति  कथं कुसुंभविजयी पादाब्जदेशोऽयमि-
त्यालापे गिरिशस्य तद्विजयते
मन्दस्मितं देवि  ते  ॥४९॥
“बिभ्राणेन मनोज्ञयावकरसं मञ्जुध्वनन्नूपुर-
श्लेषालंकृतिशालिना नखमणीजातप्रसादश्रिया।
एकैनेव पदेन देवि! महिषध्वंसे
महीयस्तरः
श्लोकोऽयं रचितस्त्वये” ति  विबुधाः संश्लाघनं कुर्वते ॥५०॥
त्वं शंभोर्महिषी  भवस्यगसुते! तेनोपहासाय  ते
दैत्योऽयं  महिषीभवन्नुपगतः  सोऽयं कथं क्षम्यते।
इत्थं नूपुरनिस्वनैरिव वदन्
पादस्त्वदीयो रुषा
शस्त्रप्रग्रहणात्पुरैव महिषं
पिष्णन् परित्रायताम् ॥५१॥
देव्या पङ्कशयोऽद्य कोऽपि महिषच्छद्मा
महान् कण्टकः
पादेनाहत इत्युदूढहसितं सख्या
समावेदिते ।
सद्यः कण्टकशालिना करतलेनासाद्य
पादांबुजं
गृह्णन्नार्तिविनोदनाय गिरिशो
जीयात् प्रियस्ते  शिवे ॥५२॥
त्वत्पादाङ्गुलिपल्लवैरगसुते ! देवि!
स्वयं पञ्चभिः
पञ्चत्वं गमितो महासुर इति
स्वात्मानुरूपं  कृतं।
एतैरेव नतो जनस्त्रिदशतां नीतो
महेशः पुनर्-
लक्षत्वं गमितः प्रसूनधनुषो
विस्मापनं तत् द्वयम्॥५३॥
ब्राह्मं माघवनं च वाहनमहो
मन्दैर्गतैर्निन्दितं
धावल्येन नखत्विषां विहसितो
वाहोऽपि माहेश्वरः।
इत्थं वाहनवैरितां भजति ते
पादस्ततो मन्महे
कात्यायन्यमुना न्यघानि महिषः
कार्तान्तवाहभ्रमात् ॥५४॥
सीमन्तप्रकरे  सुरेन्द्रसुदृशां सिन्दूररेखात्मना
माणिक्यद्युतिसंज्ञयैव मकुटीकोटीषु
दैत्यद्रुहां।
शंभोर्मूर्ध्नि  जटाघटारुणरुचिव्याजेन पादप्रभै-
वैका ते परिणाममेति करुणामूर्ते! गिरीन्द्रात्मजे
!॥५५ ॥
नो केशः परमाश्रयः सुमनसां
पादाब्जरेणुश्च ते
नो मन्दारसिता परं स्मितरुचिर्मञ्जीरयोश्च
द्वयी।
नो बाहुः कलहं समेत्य जयति
त्वद्यानलीलाप्यसौ
नो शुंभत्तरलाक्षमाननमिदं पादांबुजं
चाम्बिके!॥५६॥
नाथे!  तावकवाहसिंहचकितास्त्वत्पादमूले नता
नूनं बभ्रमुरभ्रमुप्रियमुखा  दिक्कुंभिवीराश्चिरं।
नोचेदेष कथं   तदुन्नतशिरस्सिन्दूरसन्दोहजो
रागस्ते चरणांबुजे परिणमन्न्द्यापि
विद्योतते ॥५७॥
त्वत्पादोयमजाश्रितश्च रुचिरस्पर्शान्वितो
योगिना-
मन्तःस्थाकृतिरूष्मभाक्  च महिषप्रध्वंसनप्रक्रमे।
एवं खल्वखिलाक्षरात्मकममुं
शैलेन्द्रकन्ये कथं
भाषन्ते नतवर्गबन्धुमपवर्गालंबनं
वा जनाः ॥५८॥    
उन्मीलन्नखमण्डलीहिमकणः शोणप्रभागैरिकं
बिभ्राणः परिशोभमानकटको भूयोवनैकाश्रयः।
गायत्सिद्धवधूनिषेविततलः पादस्त्वदीयः
शिवे!
राजत्येष हिमाद्रिपादवदिदं
युक्तं हिमाद्रेः सुते ॥५९॥
दिक्पालैर्दशभिः पृथक्पृथगयं  त्वत्पादयोरर्पितो
दृश्यो भक्त्यनुराग एव दशधा
शोणाङ्गुलिश्रीमिषात्।
पादाभ्यामपि तान् प्रति प्रकटिता  नूनं प्रसादाङ्कुरा
दृश्यन्ते नखकान्तिपंक्तिदशकव्याजेन
शैलात्मजे ॥६०॥
“मेघानां कुलिशस्यचाऽप्रतिहता
धाराः क्रमन्तां चिरं
नो नश्येन्मददानवारिविभवो नाकस्य
नागस्य च।
पुत्रोयं मम सैनिकाश्च दधतां
नित्यं जयन्तः सुखं”।
त्वत्पादांबुजपातिनः सुरपतेरित्थं  जयन्त्यर्थनाः॥६१॥
“आज्यासक्तकरैर्द्विजन्मभिरहं
हूएय, नो दानवैः
स्वाहारोचितमस्तु पार्श्वमनिशं
तादृक् च हव्यं लभै।
रक्षावानिति भूतिमानिति च मे
शब्दप्रसिद्ध्या शिवे!
नोपेक्ष्योह” मिति त्वदंघ्रिनमने
जीयासुरेग्नेर्गिरः ॥६२॥
“त्वद्भक्ताघमबुद्धिपूर्वलिखितं
स्याच्चेत् क्षमेथाः शिवे!
कान्तस्ते मयि रोषवान्  कुरु पुनस्तस्यार्द्रभावं शनैः।
देवि! त्वं महिषाभिहन्त्रि!
चकितं त्रायस्व मे वाहनं”
कालस्येति जयन्ति ते पदनतौ
लोलस्य संप्रार्थनाः ॥६३॥
“धर्माचारपरोहमित्यवमतो रक्षोभिरेकान्वयैर्-
मह्यं देवि  विनिन्दितां दिशमदुर्जातिद्विषश्चामराः।
दैवादित्युभयच्युतो विशरणो
रक्ष्योह” मित्यादय-
स्त्वत्पादप्रणतौ जयन्ति निरृतेरत्याकुलाः
प्रार्थनाः ॥६४॥
“मत्पुत्र्या मम वा मुकुन्दगृहताभाग्यं
न संक्षीयतां
माहं पायिषि कुंभजेन मुनिना
कल्पान्तसूर्येण वा।
द्वेधा मे सुरवाहिनीदयितता
साधु त्वया रक्ष्यतां”
त्वत्पादांबुजपातिनो  जलपतेरित्थं जयन्त्यर्थनाः ॥६५॥ 
  
“विश्वप्राणमयी त्वमेव मम तु प्राहुर्जगत्प्राणतां
सर्वस्यापि सदागतिर्हि भवती
मामेवमाहुर्जनाः।
लज्जापादकमीदृशं जननि! नः किं कुर्महे
पाहि मा”-
मित्येवं पवनस्य ते पदनतौ वाचो
जयन्त्याकुलाः ॥६६॥
“शंखोल्लासिगलोज्ज्वले!
समकरे! प्द्मेन कुन्दस्मिते
पादाग्रादृतकच्छपे! मुखहापद्मे!
मुकुन्दाश्रिते!।
इत्यस्मन्निधिगात्रि! नीलनयने!
चर्चात्मिके पाहि मा”-
मित्थं पादनतिः शिवे! विजयते सख्युः
कुबेरस्य ते ॥६७॥
“सन्नामेषु भवत्पदांबुजनखच्छायां
जटासंगिनीं
गङ्गेत्यालिजना वदन्ति वितथं
माभूर्मुधा कोपिनी।
दृष्टिर्मय्ययि! नीयतां परुषमप्येकं
वचो दीयता”
मीशानस्य भवानि! ते पदनतावित्थं
जयन्त्यर्थनाः ॥६८॥
“नाभीतोभवमादितस्तव बलात् पश्चादभीतोस्म्यहं
त्र्यक्षेण त्रिमुखीकृतोऽपि
चतुरास्योऽहं तवैव स्तवैः।
त्वं विश्वात्मतयोपजन्य न पुनः
स्रष्टारमाख्याहि मा”
मित्थं देवि! जयन्ति ते
पदनतौ वाणीपतेर्वाणयः ॥६९॥
“आशीरस्ति मुखे विडंबयति मां भूयोऽपि
चाशीःस्पृहा
भोगाः सन्ति सहस्रधा पुनरहं
भोगान् कथं प्रार्थये।
शेषोहं स्पृहयाम्यशेषसुखमित्येतच्च
हासास्तदं
नाथे चिन्तय सर्व” मित्यहिपतेस्त्वत्पादपातो
जयेत् ॥७०॥
पार्वत्याः पदमत्रदृश्यमितिवा  पादे भवत्वेन वा
साधुत्वात्तदुपास्तये हिततया
पद्यान्यमूनि स्फूटं ।
सैषा मुक्तिपुरीगिरीन्द्रतनयाभक्तेन
नारायणे-
नाबद्धा खलु  सप्ततिर्दिशतु वः कल्याणहल्लोहलम्
॥७१॥
             

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.