LYRICS OF “ITI VADATI HI – GOPI” BY NARAYANA TEERTHA

Lyrics of “Iti vadati hi
-gopi” by Narayana Teertha
Kriti: इति वदति हिगोपी
Raga:
Kamboji
Tala:  Adi
Pallavi (Refrain)
इति वदति हि –गोपी गोपालकृष्ण
Anupallavi
नतयोनुतयः स्मृतयः कृतयः
प्रतिपदं अस्माभिः त्वयि विहिताः
Charanam
मधुरं मथुरा-नगरी-नारी
मधुरं गायति मधुसूदन ते।
अधुना माधव तव कियदस्मत्
कृतिभिर्नुतिभिः नतिभिः स्मृतिभिः॥१॥  (इति…)
 
नन्दमुकुन्दं परमानन्दं
मन्दस्मेर सुधा वदनेन्दुम्।
बृन्दा वनभुवि सन्तं वन्दे
स्मारं स्मारं वारं वारं ॥२॥ (इति…)
श्रुतयः स्मृतयः कथयन्ति त्वां
सुधियः स्वान्तः करणे सन्तम्।
तदपि मनो मे नन्दकिशोरं
स्मरति हि युवती करिणी कलभम्
॥३॥ (इति…)
मणिनायकमणिः अपि परं अधुना
गुणयोगे सति काच मणीनां ।
मरकतमणिरपि मध्ये घटितो
गणनीयः किं नहि काचेषु ॥ ४॥  (इति…)
इति गोपीजन कथितं प्रथितं
निजजन गदितं विदितं हरिणा।
यति नारायणतीर्थ ग्रथितं
गुरुवर-करुणा-भरितं
गीतम् ॥ ५॥ (इति…)

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

2 Comments on LYRICS OF “ITI VADATI HI – GOPI” BY NARAYANA TEERTHA

  1. Mashi says:

    I would like to get the meaning of this kriti in english or kannada. can you help?

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.