SHRIVISHNU PURANE AKRURAKRUTAA BHAGAVATSTUTI

       श्रीविष्णुपुराणे अक्रूरकृता
भगवत्स्तुतिः
सन्मात्ररूपिणेऽचिन्त्यमहिम्ने
परमात्मने।
व्यापिने
नैकरूपैकस्वरूपाय नमो नमः ॥१॥
सर्वरूपाय
तेऽचिन्त्य हविर्भूताय ते नमः
नमो
विज्ञानपाराय पराय प्रकृतेः प्रभो ॥२॥
भूतात्मा
चेन्द्रियात्माच प्रधानात्मा तथा भवान्।
आत्मा
च परमात्मा च त्वमेकः पञ्चधा स्थितः॥३॥

प्रसीद सर्व सर्वात्मन् क्षराक्षरमयेश्वर।

ब्रह्मविष्णुशिवाख्याभिः
कल्पनाभिरुदीरितः ॥४॥
अनाख्येयस्वरूपात्मन्ननाख्येयप्रयोजन।
अनाख्येयाभिधानं
त्वां नतोऽस्मि परमेश्वर ॥५॥

यत्र नाथ विद्यन्ते नामजात्यादिकल्पनाः।
तद्ब्रह्म
परमं नित्यमविकारि भवानजः ॥६॥

कल्पनामृतेऽर्थस्य सर्वस्याधिगमो यतः।
ततः
कृष्णाच्युतानन्तविष्णुसंज्ञाभिरीड्यते ॥७॥
सर्वार्थास्त्वमज
विकल्पनाभिरेतै-
र्देवाद्यैर्भवति
हि यैरनन्त विश्वम्।
विश्वात्मा
त्वमिति विकारहीनमेत-
त्सर्वस्मिन्न
हि भवतोऽस्ति किञ्चिदन्यत् ॥८॥
त्वं
ब्रह्मा पशुपतिरर्यमा विधाता
धाता
त्वं त्रिदशपतिस्समीरणोऽग्निः।
तोयेशो
धनपतिरन्तकस्त्वमेको
     भिन्नार्थैर्जगदभिपासि
शक्तिभेदैः ॥९॥
     विश्वं भवान्
सृजति सूर्यगभस्तिरूपो
     विश्वेश ते गुणमयोऽयमतः
प्रपञ्चः।
     रूपं परं सदिति
वाचकमक्षरं य-
     ज्ज्ञानात्मने
सदसते प्रणतोऽस्मि तस्मै ॥१०॥
   
     ऊँ नमो वासुदेवाय नमस्संकर्षणाय च।
     प्रद्युम्नाय
नमस्तुभ्यमनिरुद्धाय ते नमः ॥११॥

  

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.