SRI KAMAKSHI SUPRABHATAM

        श्री कामाक्षी सुप्रभातम्
कामाक्षि देव्यंब तवार्द्रदृष्ट्या
मूकः स्वयं मूककविर्यथाऽऽसीत्।
तथा कुरु त्वं परमेश जाये
त्वत्पादमूले पतितं दयार्द्रे ॥१॥
उत्तिष्ठोत्तिष्ठ वरदे उत्तिष्ठ जगदीश्वरि।
उत्तिष्ठ जगदाधारे त्रैलोक्यं मङ्गलं कुरु ॥२॥
शृणोषि कच्चिद् ध्वनिरुत्थितोऽयं
मृदङ्गभेरीपटहानकानाम्।
वेदध्वनिं शिक्षितभूसुराणां
शृणोषि भद्रे कुरु सुप्रभातम्  ॥३॥
शृणोषि भद्रे ननु शंखघोषं
वैतालिकानां मधुरं च गानम्।
शृणोषि मातः पिककुक्कुटानां
ध्वनिं प्रभाते कुरु सुप्रभातम्  ॥४॥
मातर्निरीक्ष्य वदनं भगवान् शशाङ्को
लज्जान्वितः स्वयमहो निलयं प्रविष्टः।
द्रष्टुं त्वदीय वदनं भगवान् दिनेशो
ह्यायाति देवि सदनं कुरु सुप्रभातम् ॥५॥
पश्यांब केचित् धृतपूर्णकुंभाः
केचित् दयार्द्रे धृतपुष्पमालाः।
काश्चित् शुभाङ्ग्यो धृतवाद्यहस्ताः
तिष्ठन्ति तेषां कुरु सुप्रभातम् ॥६॥
भेरीमृदङ्गपणवानकवाद्यहस्ताः
स्तोतुं महेशदयिते स्तुतिपाठकास्त्वाम्।
तिष्ठन्ति देवि समयं तव काङ्क्षमाणाः
उत्तिष्ठ दिव्यशयनात् कुरु सुप्रभातम् ॥७॥
मातर्निरीक्ष्य वदनं भगवान् त्वदीयं
नैवोत्थितः शशिधिया शयितस्तवाङ्के।
संबोधयाशु गिरिजे विमलं प्रभातं
जातं महेशदयिते कुरु सुप्रभातम् ॥८॥
अन्तश्चरन्त्यस्तव भूषणानां
झल्‍झल्‍ध्वनिं नूपुरकङ्कणानाम्।
श्रुत्वा प्रभाते तव दर्शनार्थी
द्वारि स्थितोऽहं कुरु सुप्रभातम् ॥९॥
वाणी पुस्तकमंबिके गिरिसुते पद्मानि पद्मासना
रंभा त्वंबरडम्बरं गिरिसुता गंगा च गंगाजलम्।
काळी तालयुगं मृदंगयुगलं बृन्दा च नन्दा तथा
नीला निर्मलदर्पणं धृतवती तासां प्रभातं कुरु ॥१०॥
उत्थाय देवि शयनात् भगवान् पुरारिः
स्नातुं प्रयाति गिरिजे सुरलोकनद्याम्।
नैको हि गन्तुमनघे रमते दयार्द्रे
ह्युत्थिष्ठ देवि शयनात् कुरु सुप्रभातम् ॥११॥
पश्यांब केचित्फलपुष्पहस्ताः
केचित् पुराणानि पठन्ति मातः।
पठन्ति वेदान् बहवस्तवाग्रे
तेषां जनानां कुरु सुप्रभातम् ॥१२॥
लावण्यशेवधिमवेक्ष्य चिरं त्वदीयं
कन्दर्पदर्पदलनोऽपि वशंगतस्ते।
कामारिचुम्बितकपोलयुगं त्वदीयं
द्रष्टुं स्थिता वयमये कुरु सुप्रभातम् ॥१३॥
गांगेयतोयमवगाह्य मुनीश्वरास्त्वां
गंगाजलैः स्नपयितुं बहवो घटांश्च।
धृत्वा शिरस्सु भवतीमभिकाङ्क्षमाणाः
द्वारि स्थिता हि वरदे कुरु सुप्रभातम् ॥१४॥
काञ्चीकलापपरिरंभनितंबबिम्बं
काश्मीरचन्दनविलेपितगण्डदेशम्।
कामेशचुम्बितकपोलमुदारनासां
द्रष्टुं स्थिताः वयमये कुरु सुप्रभातम् ॥१५॥
मन्दस्मितं विमलचारुविशालनेत्रं
गण्डस्थलं कमलकोमलगर्भगौरं।
चक्राङ्कितं च युगलं पदयोर्मृगाक्षि
द्रष्टुं स्थिताः वयमये कुरु सुप्रभातम् ॥१६॥
मन्दस्मितं त्रिपुरनाशकरं पुरारेः
कामेश्वरप्रणयकोपहरं स्मितं ते।
मन्दस्मितं विपुलहासमवेक्षितुं ते
मातः स्थिता वयमये कुरु सुप्रभातम् ॥१७॥
माता शिशूनां परिरक्षणार्थं
न चैव निद्रावशमेति लोके।
माता त्रयाणां जगतां गतिस्त्वं
सदा विनिद्रा कुरु सुप्रभातम् ॥१८॥
मातर्मुरारि कमलासन वन्दितांघ्र्याः
हृद्यानि दिव्यमधुराणि मनोहराणि।
श्रोतुं तवांब वचनानि शुभप्रदानि
द्वारि स्थिताः वयमये कुरु सुप्रभातम् ॥१९॥
दिगंबरो ब्रह्मकपालपाणिः
विकीर्णकेशः फणिवेष्टिताङ्गः।
तथापि मातस्तव देवि संगात्
महेश्वरोऽभूत् कुरु सुप्रभातम् ॥२०॥
अयि नु जननि दत्तस्तन्यपानेन देवि
द्रविडशिशुरभूत् वै ज्ञानसंबन्धमूर्तिः।
द्रविडतनयभुक्तक्षीरशेषं भवानि
वितरसि यदि मातः सुप्रभातं भवेन्मे ॥२१॥
जननि तव कुमारः स्तन्यपानप्रभावात्
शिशुरपि तव भर्तुः कर्णमूले भवानि।
प्रणवपदविशेषं बोधयामास देवि
यदि मयि च कृपा ते सुप्रभातं भवेन्मे ॥२२॥
त्वं विश्वनाथस्य विशालनेत्रा
हालास्यनाथस्य नु मीननेत्रा।
एकाम्रनाथस्य नु कामनेत्रा
कामेशजाये कुरु सुप्रभातम् ॥२३॥
श्रीचन्द्रशेखरगुरुर्भगवान् शरण्ये
त्वत्पादभक्तिभरितः फलपुष्पपाणिः।
एकाम्रनाथदयिते तव दर्शनार्थी
तिष्ठत्ययं यतिवरो मम सुप्रभातम् ॥२४॥
एकाम्रनाथदयिते ननु कामपीठे
संपूजितासि वरदे गुरुशंकरेण।
श्रीशंकरादि गुरुवर्य समर्चिताङ्घ्रिं
द्रष्टुं स्थिता वयमये कुरु सुप्रभातम्॥२५॥
दुरितशमनदक्षौ मृत्युसंत्रासदक्षौ
शरणमुपगतानां मुक्तिदौ ज्ञानदौ तौ।
अभयवरदहस्तौ द्रष्टुमंब स्थितोऽहं
त्रिपुरदलनजाये सुप्रभातं ममार्ये ॥२६॥
मातस्त्वदीयचरणं हरिपद्मजाद्यैः
वन्द्यं रथाङ्गसरसीरुहशंखचिह्नम्।
द्रष्टुं च योगिजनमानसराजहंसं
द्वारि स्थितोऽस्मि वरदे कुरु सुप्रभातम्॥२७॥
पश्यन्तु केचिद्वदनं त्वदीयं
स्तुवन्तु कल्याणगुणांस्तवान्ये।
नमन्तु पादाब्जयुगं त्वदीयं
द्वारि स्थितानां कुरु सुप्रभातम् ॥२८॥
केचित्सुमेरोश्शिखरेऽतितुङ्गे
केचिन्मणिद्वीपवरे विशाले।
  
पश्यन्तु केचित्वमृताब्धि मध्ये
पश्याम्यहं त्वामिह सुप्रभातम् ॥२९॥
शंभोर्वामाङ्गसंस्थां शशिनिभवदनां नीलपद्मायताक्षीं
श्यामाङ्गां चारुहासां निबिडितकुचां पक्वबिम्बाधरोष्ठीम्।
कामाक्षीं कामदात्रीं कुटिलकचभरां भूषणैर्भूषिताङ्गीं
पश्यामः सुप्रभाते प्रणतजनिमतां अद्य नः सुप्रभातम् ॥३०॥
कामप्रदा कल्पतरुर्विभासि
नान्या गतिर्मे ननु चातकोऽहम्।
वर्षस्य मेघाः कनकांबुधाराः
काश्चित् तु धारा मयि कल्पयाशु ॥३१॥
त्रिलोचनप्रियां वन्दे वन्दे त्रिपुरसुन्दरीम्।
त्रिलोकनायिकां वन्दे सुप्रभातं ममाम्बिके ॥३२॥
कामाक्षि देव्यम्ब तवार्द्रदृष्ट्या
कृतं मयेदं तव सुप्रभातम्।
सद्यः फलं मे सुखमम्ब लब्धं
ततश्च मे दुःखदशा कथं हि ॥३३॥
ये वा प्रभाते पुरतस्तवार्ये
पठन्ति भक्त्या ननु सुप्रभातं।
शृण्वन्ति ये वा त्वयि बद्धचित्ताः
तेषां प्रभातं कुरु सुप्रभातम् ॥३४॥

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.