श्री राहुस्तोत्रम्
(स्कान्दपुराणान्तर्गतम्)
राहुर्दानवमन्त्री च सिंहिकाचित्तनन्दनः।
अर्धकायः सदा क्रोधी चन्द्रादित्यविमर्दनः ॥१॥
रौद्रो रुद्रप्रियो दैत्यः स्वर्भानुर्भानुभीतिदः।
ग्रहराजः सुधापायी राकातिथ्यभिलाषकः ॥२॥
कालदृष्टिः कालरूपः श्रीकण्ठहृदयाश्रयः ।
विधुन्तुदः सैंहिकेयः घोररूपो महाबलः ॥३॥
ग्रहपीडाकरो दंष्ट्री रक्तनेत्रो महोदरः।
पञ्चविंशति नामानि स्मृत्वा राहुं सदा नरः
यः पठेन्महती पीडा तस्य नश्यति केवलम् ॥४॥
आरोग्यं पुत्रमतुलां श्रियं धान्यं पशूंस्तथा।
ददाति राहुस्तस्मै तु यः पठेत् स्तोत्रमुत्तमम् ॥५॥
सततं पठते यः स जीवेत् वर्षशतं नरः ॥६॥
Click here to get to the Master Index from where you can access more than 700 posts
You must log in to post a comment.