श्रीदत्तप्रार्थनाचतुष्कम्
समस्तदोषशोषणं स्वभक्तचित्ततोषणं
निजाश्रितप्रपोषणं यतीश्वराग्र्यभूषणम् ।
त्रयीशिरोविभूषणं प्रदर्शितार्थदूषणं
भजेऽत्रिजं गतैषणं विभुं विभूतिभूषणम् ॥१॥
समस्तलोककारणं समस्तजीवधारणं
समस्तदुष्टमारणं कुबुद्धिशक्तिजारणम् ।
भजद्भयाद्रिदारणं भजत्कुकर्मवारणं
हरिं स्वभक्ततारणं नमामि साधु चारणम् ॥२॥
नमाम्यहं मुदास्पदं निवारिताखिलापदं
समस्तदुःखतापदं मुनीन्द्रवन्द्य ते पदम् ।
यदञ्चितान्तरा(/यदञ्चिता नरा) मदं विहाय नित्यसंमदं
प्रयान्ति नैव तेऽपि तं मुहुर्भजन्ति चाविदम्(?) ॥३॥
प्रसीद सर्वचेतने प्रसीद बुद्धिचोदने
स्वभक्तहृन्निकेतने सदाम्ब दुःखशातने !
त्वमेव मे प्रसूर्मता त्वमेव मे प्रभो पिता
त्वमेव मेऽखिलेहितार्थदोऽखिलागतोऽविता ॥४॥
Meaning please