श्रीरामकृष्णप्रातःस्मरणस्तोत्रम्
प्रातः स्मरामि जगतो भव-भाव हेतु
हेतुं लयस्य च भवाम्बुधि-पार-सेतुम्।
लीला-विलास-विलसद्-वपुषं
सुधीशं
सुधीशं
श्रीरामकृष्णमवतारवरं तमीशम् ॥१॥
प्रातर्नमामि कलिदोष-विदाह-दक्षं
चानन्द-कन्दमरविन्द-दलायताक्षम्।
यः कामकांचनमहो तनु-वाङ्मनोभिः
रेजे विहाय भुवि संयत-वाक्
सदाऽभीः॥२॥
सदाऽभीः॥२॥
प्रातर्भजामि भजतां भव-भार-हारं
पापौघहं करुणया धृत-देह-भारम्।
योगीश्वरं परमहंसवरं प्रशान्तम्
मूर्द्धारविन्द-मकरन्द-मधुव्रतं तम् ॥३॥