SRI RAGHAVENDRA VIJAYA- CHAPTER 7

            श्रीराघवेन्द्रविजयः
               सप्तमः सर्गः
     (विद्वत्कुलावतंसैः महाकविभिः श्रीमन्नारायणार्यैर्विरचिता)
स कदाचिदादृतमनाः हरेः स्थलान्यखिलानि पुण्यसरसीश्च वैष्णवीः।
अवलोकितुं यतिवरो धृतव्रतः प्रथमं सुरप्रभुदिशं प्रतस्थिवान्
॥१॥
अनमन्नमज्जनमनोविनोदनं द्युपुरीशमीशमघराशिभञ्जने।
अगमत्ततो  निगमगीतसद्व्रतः परिपूर्णदेवनगरं
गुणाकरम् ॥२॥
अथ लोकमातरमवन्दतेन्दिरामनवद्यहृद्यमणिशृङ्गमन्दिराम्।
वदनेन कान्तिसदनेन पुष्णतीं नमतो निरस्तममतो यतीश्वरः ॥३॥
गुरुपूर्णबोधमतसिन्धुचन्द्रमा यतिराडुपादिशदगाधमेधसाम्।
अथ मानपद्धतिपुरःसरं कृती निजदर्शनं निखिलसम्पदां पदम् ॥४॥
कमलालये कमलया कटाक्षितो यमिराडवाप यमराडपायदम्।
प्रणिनंसुरर्धमहिलं कृपोर्मिलं सरलं श्रितेषु गरलं खलेऽखिले
॥५॥
स ततः प्रणम्य सततादिनिस्स्वनो धिषणाभिनन्दिधिषणो धुतेषणः।
समगादगाधपयसा पयोधिना सह सङ्गमं सपदि सह्यजन्मनः ॥६॥
इह दातुमस्य यतिपुङ्गवस्य सा महनीयरत्नमथ रत्नगर्भया।
धृतमन्तराप्तुमुदितादरा भुवो विवरं विवेश विवशेव सम्भ्रमात्
॥७॥
अवगाह्य सह्यतनयासरस्वतोर्विमले चिरं व्यतिकरे व्यराजत।
हृदि भावितो हरिरिवोदितस्तया सरिदीशदर्शनकृतानुसंमदः ॥८॥
    
अधिरुह्य
तीरमविषह्यतेजसां निलयं कृताघविलयं कृपालयम्।
कलयन्नुवास
दलयन्तमापदं मुरहारिणं मुनिवरो हृदन्तरे ॥९॥
हृदि
बद्धशुद्धिभिरुदारबुद्धिभिः प्रतिषिद्धसिद्धजनगर्वसिद्धिभिः।
परितो
वृतः परिजनैरुपेयिवान् स तु चम्पकाधिपपुरं ततः परम् ॥१०॥
स ददर्श
देवमनिदर्शनश्रियं हरिभक्तिदर्शनविरोधिकर्शनः।
चिरमास्त
तत्र परमास्तिकाग्रणीर्हृदि मस्तुलोलमति वस्तु संस्तुवन्॥११॥
न्यनवीदथैनमनवीनवाग्झरीशिरसां
विकल्पवचसां निगुम्फनैः
परिभक्तिपूरपरिवाहमोहदैः
परिणद्धभक्तजनचित्तसम्मदैः ॥१२॥
हृदि
बोधदुग्धरसवासनाकृते परिनिर्मिताविव पयोजतल्लजौ।
अपवर्गमार्गपरिबोधनाय
मे चरणौ तवेश किमु चिह्नपल्लवौ ॥१३॥
उपरि
श्रितेन पुरतश्च नश्वरव्यवहारदूरगगिरामनारतम्।
प्रणवद्वयेन
मणिनूपुरात्मना परिकर्मिते तव पदे पदे मुदाम् ॥१४॥
रुचिवारिपूररुचिरं
भुजान्तरं शिशिरं तटाकमवगाह्य तावकम्।
त्यजति
श्रमं व्रजति हर्षमद्य मे भवघर्मतापमपनीय दृग्गवी॥१५॥
अरुणाधरं
तरुणचन्द्रसुन्दरं करुणाधरं वदनमीश तावकम्।
स्मितकान्तिपूरनवचन्द्रिकाभरैर्भवशार्वरं
क्षिपति भव्यचेतसाम्॥१६॥
परितः
स्थितेपि चिकुरौघशार्वरैर्विलुठद्भिराननविधौ विभाविते।
तिलकेन
नद्धकुलकेन सा दरं न हि वेत्ति बालतममत्युदारगीः ॥१७॥
अलकावृतालिकमुदारमुन्नतं
स्मितफुल्लगण्डतलमुल्लसन्मुखम्।
दरवामभागनतमौलिमोहनं
तव देव नैव हृदयं जहातु मे ॥१८॥
इति
बाष्पगद्गदतयाऽतिमन्थरं प्रमदप्रवाहकृतकान्तिकन्धरम्।
रचितस्तुतिः
कृतनतिस्समेयिवान् स तु रामसेतुमवलोकनोत्सुकः ॥१९॥
अथ लोचनातिथिमसावपां
निधिं निधिरर्हणीयमहसामुदारधीः।
अकरोदपारमकरोदपाकुलं
सुकरं श्रमापनयशक्तिशीकरम् ॥२०॥
मुनिधुर्यदर्शनकुतूहलादिव
प्रथमं प्रधावितमहोर्मिमुत्सुकाः।
अनुधावितास्सरभसं
यदूर्मयः पुरतोऽभिगन्तुमलसा विचुक्रुशुः ॥२१॥
पुरतस्समुद्यततरङ्गहस्तया
समुदीतपन्नगफणामणीगणैः।
धृतमङ्गलार्थमणिदीपमालया
यतिराडसेव्यत यदीयवेलया ॥२२॥
वदने
विधुं करतले सुरद्रुमं नयने सुधामधिमनः श्रियश्च यः।
निजसन्ततिं
यतिवरेऽनुसन्दधन्मुदितो ननर्त स तरङ्गरिङ्खणैः॥२३॥
अपि
सैकतं बहुतरङ्गसंकुलं तटमक्षमस्स तु किलातिलङ्घितुम्।
अत एव
भङ्गमतिनैल्यमप्यगादयशोभरेण सुयशोहरेण यः ॥२४॥
हृतकल्पभूरुहतया
पुनश्च भाजितकल्पकल्पतरुरोहणाय यः।
हलसंस्कृतो
लहरिभिस्समन्ततः सकरीषराशिरपि सान्द्रशैवलैः ॥२५॥
परिवृत्त्यपूरितजलामपां
भ्रमिं
  स्फुरितास्फुरद्रुचिरविद्रुमां प्रगे।
कवयो
हि यत्र वरुणालये निशा
  कृतदीपशान्तिमभितः शशङ्किरे ॥२६॥
यतिनेतृवादरणधुर्यभास्करे
  प्रकटीकृतेऽहिपतिना रसातलात्।
तमसां
ततिर्यदभियाद्भियोद्गता
  बहिरप्युदीक्षितुमभूज्जडीकृता ॥२७॥
मुखराण्डजा
मणिमरीचिमौक्तिकैः प्रकटप्रवालमुकुला यदूर्मयः।
मरुता
नतोन्नतिभृतो विरेजिरे वरुणालयोपवनशाखिका इव ॥२८॥
अमुमेत्य
मुख्यतममाश्रयं निजं हरिरेष मां प्रतिनिधिं त्यजेदिति।
लुठति
स्म यस्सभयमूर्मिभिश्श्वसन्निजरोधसि क्षितिगवीव रोधसि॥२९॥
सरिदीशितुः
प्रति सरित्कृतोदयाः पुरतोऽस्य मारपृथुका वितन्वते ।
रभसेन
यस्य लहरीकशाहता भ्रमिकैतवेन लिपिलेखनक्रियाः ॥३०॥
अपि
शेषपूर्वकपुनस्सृतिस्थिता-
   वपि पूर्वपश्चिमदिशोरुदन्वति
न कथा
भिदेति विभुना भिदाकृते
   कृतसेतुना लसति यः पयोऽन्ततः ॥३१॥
       
छिदुरस्य
यस्य रघुवीरसायकैर्वसुधापटस्य विवरं निषीव्यता।
विधिना
कृता नु नवतन्तुसन्ततिर्नलसेतुनाऽनवमनन्यदिच्छता॥३२॥
मरुदुल्लसल्लहरिनीविसन्ततेर्गुरुपूरनामवरुणालयच्छदेः।
यदि
याति यत्र दृढमध्यवंशतां नलसेतुरेतु भवघर्मभञ्जनः॥३३॥
सुमसौरभेण
जनरञ्जनोन्मुखे तटनामके धरणिसुन्दरीमुखे।
निदधात्युदग्रनलसेतुनासिकं
मुखमात्मनश्चलितविश्वतोमुखम् ॥३४॥
रघुवीरदुस्तरशराग्रशोषिते
यदगाधतापललसञ्चयेऽखिले।
अतनिष्ट
सेतुरदसीयपृष्ठतः स्फुरदस्थिवंश इति संशयं मुहुः ॥३५॥
परिशोषितं
कलिबलेन यत्पदं सुकृतस्य यत्कृतभयं यदन्तरे।
जलदुर्गमेत्य
कलितापदुर्गमं विधुनोति सेतुवपुषा विरोधिनाम् ॥३६॥
परिमार्ष्टुमात्मतनयाश्रु
शोकजं सघृणं भुवा भुजलता प्रसारिता।
क्षितिसुन्दरी
न किरतीति यज्जले नलसेतुरस्तु कृतचूर्णपद्धतिः ॥३७॥
अवलोक्य
सेतुमवलोक्यवैभवं कमलेशकान्तिरमलाशयस्ततः।
परपूर्वसिन्धुपरिणीसमागमे
स ममज्ज पाथसि नमज्जनावनः॥३८॥
उपसाद्य
तीरमवसद्यमादिमैस्स नियम्य
चित्तमनियम्यसम्पदम्।
रघुवंशदीपमघदंशभञ्जनं
सदयं विधाय हृदयं प्रवेशितम् ॥३९॥
अवनीसुधाशसवनाशभूरुहो
वनशैलमाप वनराशितस्त्ततः।
भवनाशनं
स पवनाशशायिनं नमनैरुपेतुमवने कृतादरम्॥४०॥
प्रथिते
यदीयशिरसि प्रसेदिवान्सततं विधुर्यदि समग्रतेजसा।
कलयेत
को नु कथमित्यसन्मतिं स तु रम्यपर्वत इति श्रुतो यतः ॥४१॥
यदुदग्रशृङ्गतरुसङ्घसेचने
न घनाघनो न च वियन्न्दी प्रभुः।
शबराङ्गनाचतुरगीतिकाद्रवद्दृषदां
शिरस्सु निपपात तद्भरः ॥४२॥
मधुरे
यदीयशिखरेऽतिभास्वरे मुनयो विमुक्तिगतये समुद्गताः।
अनवेक्ष्य
हन्त सृतिमच्चरादिकान्न भवं व्रजन्ति हरिभक्तिगौरवात्॥४३॥
विदधाति
सिद्धमहिलाजनो विधुं रजनीषु यस्य शिखरे तिरोहितम्।
स्तनवाससोऽपरि
विधूपलस्रवज्जलवर्षशान्तिमभिलक्ष्य कुत्रचित्॥४४॥
प्रणिपत्य
तत्र पुरुषं पुरातनं लसितं स सुन्दरवराभिधं हरिम्।
निरगादनन्तशयनं
ततो गुरुः प्रणिपत्य तञ्च समगाज्जनार्दनम् ॥४५॥
अधिताम्रपर्णि
स निमज्ज्य तत्तटे लसिताः प्रणम्य नव देवताः पराः।
कृतमालिकासरिदलंकृतामगान्मधुराभिधां
मधुरवाङ्महापुरीम्॥४६॥
तदधीशसंसदि
विजित्य पण्डितान् बहुमानितो य्तिवरो महीभृता।
अभिवन्द्य
सुन्दरवरं हरं शनैरथ रङ्गवल्लभमुपेयिवानयम् ॥४७॥
तत्र
श्रीरङ्गनाथं तरुणतरणिरुग्वेदरूपे विमाने
   कावेरीवारिपूरप्रसृमरपवनानन्दितानन्तभोगे।
वन्द्यं
देवेश्श्ययानं द्रुहिणभवमुखैरिष्टदं राघवेन्द्रः
    सानन्दं तं प्रणम्य प्रकटितविभवं तां निशामत्यनैषीत्॥४८॥
श्रीमत्कश्यपवंशवार्धिशशिनः षड्दर्शनीवल्लभ-
श्रीलक्ष्मीनरसिंहवित्तविदुषः श्रीवेङ्कटाम्बामणौ।
जातेनाऽर्यदयासुधामयगिरा नारायणेनोदिते
काव्ये चारुणि राघवेन्द्रविजये सर्गोऽभवत्सप्तमः ॥४९॥
 
॥इति कविकुलतिलकेन श्रीनारयणाचार्येण विरचिते श्रीराघवेन्द्रविजये
सप्तमस्सर्गः समाप्तः॥

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.