SRI RAGHAVENDRA VIJAYA-CHAPTER 8 -PART 2

                                                     श्रीराघवेन्द्रविजयः
               अष्टमः सर्गः (द्वितीयो
भागः)
     (विद्वत्कुलावतंसैः महाकविभिः श्रीमन्नारायणार्यैर्विरचिता)
इन्द्रनीलकुलनीलघनालीमध्यवृत्तिचपलेन
चकाशे।
प्रावृडब्जनयनाचिकुरालीयल्लकोल्लसितकुंकुमरेखा॥४१॥
कुम्भसम्भवगुरोरुपदेशं
प्राप्तुकाम इव दक्षिणदेशम्।
जृम्भमाणजलधौ
जलपाने वारिवाहनिवहो विशति स्म ॥४२॥
पाकवैरिवनसिन्धुतरङ्गाकृष्टरूढतरुमूलकलापा।
व्योम्नि
विद्युदिव काञ्चनवल्ली काममभ्रसरिता निपतन्ती॥४३॥
व्योम्नि
सान्द्रतरवारिदवृन्दे विद्युतासु विततासु समन्तात्।
फुल्लमीलितपयोरुहपंक्त्या
पुष्पवत्समुदयावनुमेयौ॥४४॥
निर्गतानि
दिवि सूर्यविभिन्नग्रीष्मवासरमदावलकुम्भात्।
मौक्तिकानि
सह मस्तकमांसैः सेन्द्रगोपकरका अनुचक्रुः ॥४५॥
दुग्धवारिधिपयस्यधिवर्षं
शार्ङ्गिणि स्वपति शेषशरीरे।
मीलनान्नयनयोस्तनुलक्ष्म्यौ
मेघपूर्णगगने द्युमणीन्दू ॥४६॥
स्वामिनि
क्षतवसौ दिननाथे यत्पुराऽजनि दिनेष्वतिकार्श्यम्।
तद्विमर्शमधिगम्य
दिनानामद्य हृद्ययति वासरवृद्धिम् ॥४७॥
स्वप्रियां
जलजिनीं परिभूय प्रोर्मयत्तुहिनहन्तृदिनेभ्यः।
तादृशी
दिनकरोदितवृद्धिर्या निशा क्षयविधावपि दक्षा॥४८॥
पूर्णिमाहनि
स पूषणि मध्येपुष्करं लसति  पुष्करनेत्रम्।
पूजयन्यतिवरैरिह
चातुर्मास्यनामनियमं विदधाति॥४९॥
पूर्णरोचिषि
तुषारमरीचौ भानुमालिनि गतेऽम्बरमध्यम्।
सोयमारभत
कर्म हि चातुर्मास्यनाम रचयन् हरिपूजाम्॥५०॥
तद्गतैरनुदिनं
क्रियमाणेष्वेकवासरकृतं विभवं यः।
कश्चिदाह
यदि हन्त निवृत्तिं ब्राह्मणः श्रुतिततिं स लभेत ॥५१॥
दुर्दिने
हरिकटाक्षविहीने पङ्किले च समये समतीते।
सम्प्रबुद्धहरिवीक्षणतोऽभूद्वासरोऽथ
विशदीभवदाशः ॥५२॥
मल्लिकाक्षनिवहेषु
मनोज्ञेष्वंबुजेषु मुदिरेषु शरेषु।
तत्र
तत्र विशदं महिमानं दर्शयन् विहरति स्म स कालः ॥५३॥
दिग्जयोन्मुखनृपव्रजकीर्त्या
गर्भिणीकृतशरद्दिनलक्ष्म्याः।
व्यक्तकीरततिरोमलतायाः
पाण्डिमाऽजनि पयोधरदृश्यः॥५४॥
वीक्ष्य
संयमिवरस्य पयोदा दानकेलिमतुलां धनलक्ष्म्याः।
हन्त
वर्षविमुखाः समभूवन् पाण्डुरा भृशकृशाश्च शुचेव ॥५५॥
आत्मनोभिमुखमागतमेनं
वीक्ष्य संयमिवरं धनदाशाम्।
हर्षतोऽनुविचचार
तदग्रे हंसपालिरिव वारिदपुञ्जः ॥५६॥
वारिदागमयुगान्तविरामे
नैकरूपसरसीमिषशौरेः।
नाभिपद्मनिवहा
इव पद्मा व्यञ्जयन्त्यलिविधिं विलसन्तः॥५७॥
उत्थितस्य
सरसीरुहनाभेश्चन्द्रसूर्यनयनस्य तदानीम्।
शंसतः
स्म नलिनीरजनीशौ सम्प्रबोधमधिकं विलसन्तौ॥५८॥
प्रावृडागमयुगान्तसमुद्यद्वारिवाहजलधौ
विनिवृत्ते।
सैकतोत्कर
इव क्षणदायाश्चन्द्रिका बुधजनैरुदलेखि॥५९॥
काम्यकर्मचयभञ्जनहेतूभूतदर्शनमिमं
यमिधुर्यम्।
वीक्ष्य
बिभ्यदिव तत्फलभूतं शालिवृन्दमभवद्भयनम्रम्॥६०॥
प्रावृडाहितजलाक्रमभङ्गां
सस्यमञ्जरिविभूषितगात्रीम्।
मातरं
क्षितिमवेक्ष्य वनाली पक्वदाडिमफलेन जहास ॥६१॥
मातुलुङ्गलतिकामिह
चूते स्प्रष्टुमुद्यति फलस्तनमध्ये।
मोहिते
च मरुता वनराजिः पक्वदाडिमफलेन जहास ॥६२॥
मानिनीजनविमोहनचूर्णैः
सारसीषु नृपसैन्यरजोभिः।
व्योममण्डपकमौक्तिकगुच्छैराविरास
समयो हिमपूरैः ॥६३॥
पद्मिनीवनमवलोक्य पतङ्गो मन्ददीधितिरिहास हिमौघैः।
रव्यदर्शनवशादिव
शोकादब्जिनी च तुहिनैः किमु लीना॥६४॥
उष्णरश्मिरधिकं
हिमभीतो हव्यवाहदिशमिच्छति गन्तुम्।
अग्निरस्त्युत
न वेति विवेक्तुं प्रागयादिव समीरणचारः॥६५॥
पाण्डुरङ्गपुरविठ्ठलमीक्ष्य
प्रस्थितः सः करवीरपुराख्यम्।
पत्तनं
विरचयन्हरिपूजां तत्र वासमकरोच्चिरकालम् ॥६६॥
भानुमालिनि
गतेऽथ तुलायां रामनाथपुरमेत्य चिराय।
सह्यभूधरसुतासलिलेऽस्मिन्मज्जनेन
मुदितोऽभवदेषः ॥६७॥
गौतमाघपरिहरिणि
तोये स्नानकर्म विरचय्य स विद्वान्।
पूजितः
प्रतिपदं प्रतिधीरैः प्राविशत्किल पुरीं विजयाख्याम् ॥६८॥
मुद्रयाऽरिदरयोर्मिलिताग्न्योरङ्कितानकृत
शिष्यसमूहान्।
वादिनोपि
परिभूय विशिष्य श्वेतमातपनिवारणमाप्नोत् ॥६९॥
स्नातवानथ
बुधैः सह कृष्णानिम्नगापयसि निर्जितमारः।
तत्तटे
जयगुरूदितटीकां व्याकृतापि यतिराडनुभाष्यम् ॥७०॥
तत्र
तत्र विरचय्य स वासं पुण्यभूषु पुरुषोत्तमभक्तः।
श्रीमहीधरमुपेत्य
च तुङ्गं वेङ्कटेशमवलोकितुमागात्॥७१॥
नत्वा
देवं वेङ्कटेशं यतीन्द्रः कृत्वा वासं वासरान् कांश्चिदत्र।
काञ्चीमागात्काञ्चनागाररम्यां
नत्वा विष्णुं चानमत्पार्वतीशम् ॥७२॥
शोणाद्रिमासाद्य
निषेव्य शम्भुं वृद्धाचलं प्राप्य विलोक्य रुद्रम्।
श्रीमुष्णमभ्येत्य
वराहरूपं विष्णुं प्रणम्यैव नुतिं व्यतानीत् ॥७३॥
कृत्वा
दिग्विजयमुपागतस्य दूरे
    कावेरीशिशिरजलावलोकमात्रात्।
यत्सौख्यं
समजनि तत्सुखम् मुरारेः
    प्रायः स्यादिति यदि का कथेतरेषाम्॥७४॥
 
श्रीकुम्भघोणनगरीं
प्रविशत्युदारां
    रामार्चयोरुतपसैव कृशे यतीन्द्रे।
मन्ये
कथं न जनतामहितामयोध्यां
     रामेण तेन भरतेन कृतप्रवेशाम् ॥७५
प्रहृष्टेन
चित्तेन मध्ये प्रतोल्यां महाधीर्विलासेन तात्कालिकेन।
भुजङ्गप्रयातेन
भूदेववन्द्यो हनूमन्तमिष्टं प्रणौति स्म देवम्॥७६॥
वाद्यैश्चित्रैर्मुखरितदिशः
शङ्खभेरीमृदङ्गैः
   फुल्लैः पुष्पैर्विविधमनुजैः
कीर्यमाणः समन्तात्।
वीथ्यां
वीथ्यां युवतिकरगारार्तिके राघवेन्द्रो
    रामे पूर्वं प्रविशति मठं प्राविशत्सम्पदाढ्यम्
॥७७॥
  
श्रीमत्कश्यपवंशवार्धिशशिनः षड्दर्शनीवल्लभ-
श्रीलक्ष्मीनरसिंहवित्तविदुषः श्रीवेङ्कटाम्बामणौ।
जातेनाऽर्यदयासुधामयगिरा नारायणेनोदिते
काव्ये चारुणि राघवेन्द्रविजये सर्गो जयत्यष्टमः॥७८॥
॥इति कविकुलतिलकेन श्रीनारयणाचार्येण विरचिते श्रीराघवेन्द्रविजये
अष्टमस्सर्गः समाप्तः॥

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

This site uses Akismet to reduce spam. Learn how your comment data is processed.