SRI RAGHAVENDRA VIJAYA – CHAPTER 10

                श्रीराघवेन्द्रविजयः
                  
दशमःसर्गः
     (विद्वत्कुलावतंसैः महाकविभिः श्रीमन्नारायणार्यैर्विरचतम्)
उत्तरामुखतया वलमाने सायमर्यमरथेऽभिसुमेरु।
तन्मुखोल्लसितसारथिभासा पाटला स्फुरति पाशभृदाशा ॥१॥
सायमन्तिकचरन्मुनिपालीगीतसामनिनदेन शताङ्गे।
विद्रुमारुणमणीजलसेकाल्लोहितायति सरोरुहबन्धुः॥२॥
निर्धुताखिलतमा निजजन्माऽरभ्य विष्णुपदसेवनशीलः।
स्वस्वरूपमगमत्परमाविर्भूतमेष मिहिरोऽरुणभावम् ॥३॥
रागिणं स्वमवलोक्य निकामं रागिणाञ्च विषमां गतिमीक्ष्य।
वस्तुमापदपरागसमीपं मन्दमन्दमरविन्दकुटुम्बी ॥४॥
विप्लवं व्रजति कान्तिकलत्रे पद्मिनीमपरवारिधिजाताम्।
उद्विवक्षुहृदयो हरिदश्वो याचितुं तमगमत्तटिनीशम् ॥५॥
सान्ध्यरागमयपावकदीप्तं लोकमीक्ष्य शकुना भयमूढाः।
प्राद्रवन् झटिति शावकवर्गं वीक्षितुं विहितभूरिनिनादाः ॥६॥
पद्मिनी परिचिता सततं नः सा बताऽऽत्मपतिना वियुतेति।
सद्य एव वियुतानि बभूवुश्चक्रवाकपततां मिथुनानि ॥७॥
एकचक्रमवलंब्य शताङ्गं बाधते विरहिणो मिहिरोऽसौ।
इत्यवेत्य मदनः स्वयमाधादेकचक्रमयमाशु शताङ्गम्॥८॥
अम्बराभिधहरिन्मणिपात्रे शङ्खविष्णुपदवारिदधानम्।
हेमभाजनयुगं शशिभान्वोर्मण्डलद्वयमिदं कलयामः ॥९॥
पूर्वभूमिधरगाधिसुतेन प्रेरितं रविमयाब्जभवास्त्रम्।
तद्ग्रसत्यपरशैलवसिष्ठे कोपवह्निरिव सान्ध्यमरीचिः ॥१०॥
अम्बुजेष्वरयुतेषु वियोक्तुं सायशाणकषणेन सुतीक्ष्णम्।
किञ्चकार निजकञ्जकलम्बं तादृगेव यदभून्मुकुलं तत् ॥११॥
वीक्ष्य पद्मविपिनेषु पुरा यत्केसरिश्रियमदुद्रवदारात्।
तां विलोक्य शिथिलां पुनरागात्तत्तथैव तिमिरद्विपवृन्दम्॥१२॥
अर्चयन्मधुकरच्छलशालिग्राममेष समयाभिधयोगी।
सायमम्बुजसमुद्गममध्ये सन्निधाय विदधेऽस्य च मुद्राम् ॥१३॥
पद्मिनी पतिशुचा भ्रमरालीकङ्कणं निरसितुं कृतचेताः।
अब्जपाणिमनिलेन विलोलं हन्त हन्त समकोचयदाशु॥१४॥
रश्मिजालमधिकं भुवनाब्धेः कालधीवरवरः परिकृष्य।
पङ्कशैवललुठज्झषसङ्घं ध्वान्ततारनिभतो गगनेऽधात्॥१५॥
चन्द्रदीधितिनटीं दिवसान्तः सादरं नटयितुं भुवनान्तः।
संविकीर्य किमु तारसुमौघं ध्वान्तनीलयवनीं पुरतोऽधात् ॥१६॥
वर्षके सति तमिस्रजलौघं व्योमनामनि घनाघनसंघे।
दीपिकास्ततः इतो वलमानाः शक्रगोपनिकरा इव रेजुः ॥१७॥
दग्धतामुपगतेषु मनोभूवह्निनाऽयुगपदेषु निकामम्।
भञ्जिते सति हि शार्वरधूमे रेजुरग्निकणिका इव दीपाः ॥१८॥
भानुकार्तयुगधर्मविलोपाज्जृम्भिते जगति शार्वरपापे ।
अस्फुरंस्तत इतः किल दीपा रक्षिता इव तपोङ्कुररेखाः ॥१९॥
 
कालनामनिजनाटकमध्ये दीपिकावलिनिभेन विधात्रा।
उद्यदिन्दुमयदीपवरस्य प्रागतानि किमु सूचनभङ्गी ॥२०॥
चन्द्रिकापि यदि सङ्घटिता स्याद्ध्वान्तदीपततिसङ्गतिकाले।
किं त्रिवेणिकथयाऽस्ति कवीनां स्वल्पतोपि जहतां पुनरुक्तिम्॥२१॥
व्योमगुग्गुलुतरोर्धवला निर्यासपंक्तिरिव तारकराजिः।
शार्वरेभकषणाल्लुलिताः किं तत्कणा भुवि तमोमणिदम्भात्॥२२॥
शर्वरीशशरदा परिमृष्टः शार्वरव्रजघनाघनसङ्घः ।
दृश्यते स्म शनकैर्धवलश्रीश्चन्द्रिकालहरिकामपदिश्य॥२३॥
कालकालवदनेन तमिस्रैः श्मश्रुलेन शरदेन च तारैः।
अम्बरेण वियुजां ग्रसनार्थं सान्ध्यरागरसना प्रसृता नु ॥२४॥
विप्रयुक्तसुदृशां विलयार्थं ध्वान्तकल्पजलधावभिवृद्धे।
बिम्बनश्रियमवापुरुडूनां ज्योतिरिङ्गणगणस्फुरणानि ॥२५॥
मारकारुरकृताधितमिस्रं गोलमब्धिनलिनीविरहाग्नेः।
ऊर्मिभस्त्रपवनैरतितप्तं शीतरश्म्युदयरागमिषेण ॥२६॥
निर्यतो भुवि निलिम्पतटिन्याः कौमिदीमिषपयःप्रकरस्य।
मौक्तिकभ्रम इव प्रचकाशे पूर्वशैलशिखरे शशिबिम्बम्॥२७॥
पूर्वसिन्धुसलिलेन निषेक्तुं तारकाङ्कुरततिं ततरश्मि।
इन्दुबिम्बपिटकं किमु दध्रे दक्षिणोत्तरहरित्परिणीभ्याम्॥२८॥
उत्क्षिपन्त्युदयरक्तिममौलिप्रावृतिं हरिदिशा हरिणाक्षी।
मन्दमिन्दुवदनं किमुदञ्चत्यादृता नटितुमम्बररङ्गे॥२९॥
पान्थसंहृतिकृते कृतचेता यष्टुमादित हविर्नवनीतम्।
द्रौतमेष विषमेषुरुदन्वन्मौलिलोलविधुबिम्बनिभेन ॥३०॥
चक्रवाकमिथुनच्छलनीरक्षीरयोरकृत हन्त विभागम्।
व्योमनामसरसीकृतकेलिः सायमेष सितरश्मिमरालः॥३१॥
पूर्वभूमिधरवेदिगतोद्यद्द्रागवह्न्युपरि रश्मिघृताक्ताम्।
सम्पचन् विधुवपां समयोऽधाद्योजिताम्बरवपाश्रपणीकाम्॥३२॥
अन्धकारनिभकल्पविरामे विप्लुतं जगदिदं विधुवेधाः।
किं ससर्ज तदिदं यदमुष्मिन्नुद्यते सति परं विललास ॥३३॥
संयमीन्द्रविविधोक्तिविलासं श्रोतुमुत्सुकमना दिवसान्ते।
उन्ममज्ज जलधेर्विधुदम्भाद्दर्शयन् फणगणान् फणिराजः ॥३४॥
रक्तयोरभिमुखं स्थितिभाजोः पद्मिनीकुमुदिनीपरिणेत्रोः।
कः करोतु बत बिम्बविवेकं नापरत्र यदि लक्ष्मविलासः ॥३५॥
पूर्वशैलवृषभाचलदृश्यं देवतीर्थमधिगम्य सुधांशुम्।
हृष्यतोऽस्य भुवनस्य नमोघं चन्द्रिकाऽऽत्मसुकृतत्वमयासीत्॥३६॥
विष्टपे विधुरुचा विदधाने क्षीरसागरनिमज्जनकेलिम्।
पाठकर्म स समाप्य सरस्यां मंक्तुमन्त उदयुंक्त यतीन्द्रः॥३७॥
स्नानकर्म विरचय्य वसानो वाससी त्रिपदया सवितारम्।
वन्दते स्म तदनु  त्रिदशेशं विष्णुमैहत समर्हितुमर्हम्॥३८॥
अर्पयन्भगवते सुममाल्यं प्रीणयन् स पयसा च फलेन।
हेमपात्रविलसद्घनसारारार्तिकेन कलयंस्तमहृष्यत् ॥३९॥
मन्त्रपुष्पमधिमौलि दधानो यन्त्रितान्यविषयो रघुनेतुः।
सादरं दरनिमीलितनेत्रः स्तोतुमारभत संयमिधुर्यः ॥४०॥
वेदसिद्धमणुतोऽप्यणुभावं मोददायि महतोऽपि महत्त्वम्।
बिभ्रतं प्रथयितुं मनवे त्वां मीनतां शरणयामि भवन्तम्॥४१॥
वेदविप्लुतिकृतं विधिजाड्यं हन्त हन्तुमदधाज्जलजन्म।
मीनभावनभरेण ततो मे विस्तृणीहि विमलं प्रतिबोधम् ॥४२॥
आत्मनैव कमठेन वितन्वन्मन्दरेण च भवानरणी द्वे।
मन्थतोऽकृत हलाहलवह्निं होतुमिन्द्ररिपुवृन्दहवींषि ॥४३॥
आदिसूकर धरोद्धरणं ते सिन्धुबन्धुजठरात् श्रुतिगीतम्।
मादृशां भवपयोधिगतानां रक्षणे परिचयं तदवैमः ॥४४॥
पूर्णचन्द्रगतलक्षणरेखा लक्षिता यदि तदैककलायाम्।
संश्रितेन्दुमणिदंष्ट्रधरं स्यात्सोपमा भवति सूकररूप ॥४५॥
तावकं नरहरेऽतिविरुद्धं वेषधारणमिदं तनुते नः।
अत्यसङ्घटितकर्म च कृत्वा पालये प्रण्तमित्युपदेशम्॥४६॥
दारितोदरहिरण्यकशत्रोरान्त्रमाल्यकलितं तव रूपम्।
नारसिंह कलयेऽननुभूतं शारदं जलधरं सहशम्पम् ॥४७॥
जानतां निजमनः परमाणौ मातुमेव बलिनिग्रहदम्भात्।
वामनं यदभवत्तव रूपं तत्सुखेन भगवन्हृदि कुर्मः ॥४८॥
चन्द्रमा इव भुवो रचयन्नक्षत्रयोगमपि यत्त्वमलासीः।
तेन शात्रवयशोम्बुजराजीमुद्रणं तव कृतिं बहु मन्ये ॥४९॥
तारणे दुरितनीरनिधेर्नः सेतुभावमचिरेण यियासोः
भासते तव विभो करुणायाः पूर्वरङ्ग इव दक्षिणसेतुः ॥५०॥
बन्धनाय कृतमात्मजनन्यास्तादृशञ्च गुणमङ्ग्यकरोर्यत्।
तेन निर्गुणमतानि निरस्यन्दर्शयस्यपि निजं गुणवत्ताम् ॥५१॥
सर्वदेवरथचेष्टमङ्गीकुर्वतस्तव सदैव जगत्याम्।
अर्जुनैकरथसारथिभावो विस्मयाय विदुषां न कथञ्चित्॥५२॥
त्वं कुचेलमुनिमीश कुचेलाद्यार्पणेन कृतवानकुचेलम्।
सोऽभवत्तदपि चारुकुचेलालंकृतस्तदिदमद्भुतमासीत् ॥५३॥
एवमादिविविधैरवतारैः पालिताखिलजनौघ ममाघम्।
सन्निरस्य कमलास्य नमस्यां स्वीकुरुष्व रघुवंशवतंस ॥५४॥
इत्युदीर्य विनतोपि नयेन प्रार्थितस्तदनु संसदमागात्।
सत्पथं विशदयन् समुदीतः पूर्वशैलमिव कैरवबन्धुः॥५५॥
प्रांशुयन्मणिगवाक्षविनिर्यद्द्योसरिज्जलवशात्समुपेत्य।
अक्षमा इव लुठन्ति यतीन्दुच्छत्रचामरमिषेण मरालाः ॥५६॥
व्योमलङ्घनमदेन समुद्यन् यन्निरुद्धगतयो दिवि ताराः।
तत्प्रभुं शरणयन्ति यतीन्दुं मौक्तिकासनगमौक्तिकदम्भात्॥५७॥
नाद्भुतं श्रितवतां सततं यत्स्तम्भदुर्गुणलयो भवितेति।
संनियच्छति निगृह्य समस्तं स्तम्भमप्यतिमहान्तमसौ यत्॥५८॥
सञ्चरन् क्वचन यत्र दिदृक्षुश्चन्द्रकान्तमणिमण्टपतोऽधः।
आदृतः शशिरुचा बत सिद्धः पर्यहास्यत परत्र गतेन ॥५९॥
सञ्चरच्छिखिमुखोरगपीतस्वाश्रयानिललयात्सघनेषु।
सम्पतत्सु पतिता भुवि सिद्धा विस्मयं दधति हन्त यदन्तः ॥६०॥
न त्यजन्ति मिहिरं तव खलु यत्राङ्गारचर्वणचणा हि चकोराः।
पक्षिभाषणकृते यदि नानावालखिल्यनिगमाध्ययनानि॥६१॥
तत्र चन्द्रमणिकुट्टिमसिन्धौ मौक्तिकासनमये भुजगेन्द्रे।
राजते रघुपुरन्दरनामा पाटलाम्बरधरः परमात्मा॥६२॥
केचन प्रतिपुरन्दरमेनं पर्युपासत बुधा निगमान्तैः।
कुर्वतेऽत्र पदपूर्वसमस्यापूरणञ्च कवयः पुरतोऽस्य ॥६३॥
श्रियः पतिःश्रीमति शासितुं जगन्निपीय यस्य क्षितिरक्षिणः
कलाः
श्रियः कुरूणामधिपस्य पालनीः श्रियः स दत्तामिह ते पुरे स्थितः॥६४॥
सन्तं श्रीरमणप्रियं यतिवरं व्यासस्य भावे भृशं
    दुर्वारामितमायिभिक्षुतिमिरे पर्वस्थचन्द्रं भुवि।
सत्सङ्घस्तुतमिष्टदक्षितिरुहं वन्दारुविप्रश्रियं
    तं नत्वा सकलो दुरूहसुदृशं संयाति विद्यादिकं ॥६५॥
  
श्रीमत्कश्यपवंशवार्धिशशिनः षड्दर्शनीवल्लभ-
श्रीलक्ष्मीनरसिंहवित्तविदुषः श्रीवेङ्कटाम्बामणौ।
जातेनाऽर्यदयासुधामयगिरा नारायणेनोदिते
काव्ये चारुणि राघवेन्द्रविजये सर्गोऽन्तिमोऽभूदिह॥६६॥
॥इति कविकुलतिलकेन श्रीनारयणाचार्येण विरचिते श्रीराघवेन्द्रविजये
दशमस्सर्गः समाप्तः॥
        ॥श्रीमद्राघवेंद्रविजयः समाप्तः॥    
            ॥श्रीकृष्णार्पणमस्तु॥
 

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

This site uses Akismet to reduce spam. Learn how your comment data is processed.