गर्गसंहितायाम् अश्वमेधखण्डे पञ्चचत्वारिंशोऽध्यायः रासक्रीडा
गोप्य ऊचुः —
अधरबिम्बविडम्बितविद्रुमं
मधुरवेणुनिनादविनोदितम् ॥
कमलकोमलनीलमुखाम्बुजं
त(क)मपि गोपकुमारमुपास्महे ॥१॥
श्यामलं विपिनकेलिलम्पटं
कोमलं कमलपत्रलोचनम् ॥
कामदं व्रजविलासिनीदृशां
शीतलं मतिहरं भजामहे ॥२॥
तं विसञ्चलितलोचनाञ्चलं
सामिकुड्मलितकोमलाधरम् ॥
वंशवल्गितकराङ्गुलीमुखं
वेणुनादरसिकं भजामहे ॥३॥
ईषदङ्कुरितदन्तकुड्मलं
भूषणं भुवनमङ्गलश्रियः ॥
घोषसौरभमनोहरं हरेः
वेषमेव मृगयामहे वयम् ॥४॥
अस्तु नित्यमरविन्दलोचनः
श्रेयसे हि तु सुरार्चिताकृतिः ॥
यस्य पादसरसीरुहामृतं
सेव्यमानमनिशं मुनीश्वरैः ॥५॥
गोपकै रचितमल्लसङ्गरं
सङ्गरे जितविदग्धयौवनम् ॥
चिन्तयामि मनसा सदैव तं
दैवतं निखिलयोगिनामपि ॥६॥
उल्लसन्नवपयोदमेव तं
फुल्लतामरसलोचनाञ्चलम् ॥
वल्लवीहृदयपश्यतोहरं
पल्लवाधरमुपास्महे वयम् ॥७॥
यद्धनञ्जयरथस्य मण्डनं
खण्डनं तदपि सञ्चितैनसाम् ॥
जीवनं श्रुतिगिरां सदाऽमलं
श्यामलं मनसि मेऽस्तु तन्महः ॥८॥
गोपिकास्तनविलोललोचन-
प्रान्तलोचनपरम्परावृतम् ॥
बालकेलिरसलोलसंभ्रमं
माधवं तमनिशं विभावये ॥९॥
नीलकण्ठकृतपिच्छशेखरं
नीलमेघतुलिताङ्गवैभवम् ॥
नीलपङ्कजपलाशलोचनं
नीलकुन्तलधरं भजामहे ॥१०॥
घोषयोषिदनुगीतवैभवं
कोमलस्वरितवेणुनिःस्वनम् ॥
सारभूतमभिरामसम्पदां
धाम तामरसलोचनं भजे ॥११॥
मोहनं मनसि शार्ङ्गिणं परं
निर्गतं किल विहाय मानिनीः ॥
नारदादिमुनिभिश्च सेवितं
नन्दगोपतनयं भजामहे ॥१२॥
श्रीहरिस्तु रमणीभिरावृतो
यस्तु वै जयति रासमण्डले ॥
राधया सह वने च दुःखिताः
तं प्रियं हि मृगयामहे वयम् ॥ १३॥
देवदेव व्रजराजनन्दन
देहि दर्शनमलं च नो हरे ॥
सर्वदुःखहरणं च पूर्ववत्
संनिरीक्ष्य तेऽशुल्कदासिकाः ॥१४॥
क्षितितलोद्धरणाय दधार यः
सकलयज्ञवराहवपुः परम् ॥
दितिसुतं विददार च दंष्ट्रया
स तु सदोद्धरणाय क्षमोऽस्तु नः ॥१५॥
मनुमताद्रुचिजो दिविजैः सह
वसु दुदोह धरामपि यः पृथुः ॥
श्रुतिमपाद् धृतमत्स्यवपुः परं
स शरणं किल नोऽस्त्वशुभक्षणे ॥१६॥
अवहदब्धिमहो गिरिमूर्जितं
कमठरूपधरः परमस्तु यः ॥
असुहरं नृहरिः तमदण्डयत्
स च हरिः परमं शरणं च नः ॥१७॥
नृपबलिं छलयन्दलयन्नरीन्
मुनिजनाननुगृह्य चचार यः ॥
कुरुपुरं च हलेन विकर्षयन्
यदुवरः स गतिर्मम सर्वथा ॥१८॥
व्रजपशून्गिरिराजमथोद्धरन्
व्रजपगोपजनं च जुगोप यः ॥
द्रुपदराजसुतां कुरुकश्मलाद्
भवतु तच्चरणाब्जरतिश्च नः ॥१९॥
विषमहाग्निमहास्त्रविपद्गणात्
सकलपाण्डुसुताः परिरक्षिताः ॥
यदुवरेण परेण च येन वै
भवतु तच्चरणः शरणं च नः ॥२०॥
मालां बर्हिमनोज्ञकुन्तलभरां वन्यप्रसूनोषितां
शैलेयागरुकॢप्तचित्रतिलकां शश्वन्मनोहारिणीम् ॥
लीलावेणुरवामृतैकरसिकां लावण्यलक्ष्मीमयीं
बालां बालतमालनीलवपुषं वन्दामहे देवताम् ॥२१॥
गर्ग उवाच –
इति स्त्रीभिः रुदन्तीभिः रेवतीरमणानुजः ।
आविर्बभूव चाहूतस्तासां मध्ये च भक्तितः ॥२२॥
॥ इति श्रीगर्गसंहितायां हयमेधखण्डे रासक्रीडायां पञ्चचत्वारिंशोऽध्यायः ॥
GOPIKAGEETAM from Gagra Samhita contributed by Vishwas R. Bhide and proofread by PSA Easswaran
You must log in to post a comment.