HYMNS TO HANUMAN – SRI HANUMATPANCHARATNA STOTRAM

श्रीहनुमत्पञ्चरत्नस्तोत्रम्

(श्रीशङ्कराचार्यकृतम्)

 

वीताखिलविषयेच्छं
जातानन्दाश्रुपुलकमत्यच्छम् ।
सीतापतिदूताख्यं
वातात्मजमद्य भावये हृद्यम् ॥ १ ॥

 

तरुणारुणमुखकमलं
करुणारसपूरपूरितापाङ्गम् ।
सञ्जीवनमाशासे
मञ्जुलमहिमानमञ्जनाभाग्यम् ॥ २ ॥

 

शम्बरवैरिशरातिग-
मम्बुजदलविपुललोचनोदारम् ।
कम्बुगलमनिलदिष्टं
बिम्बज्वलितोष्ठमेकमालम्बे ॥ ३ ॥

 

दूरीकृतसीतार्तिः
प्रकटीकृतरामवैभवस्फूर्तिः ।
दारितदशमुखकीर्तिः
पुरतो मम भातु हनुमतो मूर्तिः ॥ ४ ॥

 

वानरनिकराध्यक्षं
दानवकुलकुमुदरविकरसदृशम् ।
दीनजनावनदीक्षं
पवनतपःपाकपुञ्जमद्राक्षम् ॥ ५ ॥

 

एतत् पवनसुतस्य
स्तोत्रं यः पठति पञ्चरत्नाख्यम् ।
चिरमिह निखिलान् भोगान्
भुक्त्वा श्रीरामभक्तिमान् भवति ॥ ६ ॥