NIRVANASHATKAM

                                  निर्वाणषट्कम्

मनोबुध्यहंकारचित्तानि नाहं

न च श्रोत्रजिह्वे न च घ्राणनेत्रे।

न च व्योमभूमिर्न तेजो न वायुः

चिदानन्दरूपः शिवोऽहं शिवोऽहम्॥१॥

न च प्राणसंज्ञो न वै पञ्चवायु-

र्नवा सप्तधातुर्न वा पञ्चकोशः ।

न वाक्पाणिपादं न चोपस्थपायु-

श्चिदानन्दरूपः शिवोऽहं शिवोऽहम्॥२॥

न मे द्वेषरागौ न मे लोभमोहौ

मदो नैव मे नैव मात्सर्यभावः।

न धर्मो न चार्थो न कामो न मोक्षः

चिदानन्दरूपः शिवोऽहं शिवोऽहम्॥३॥

न पुण्यं न पापं न सौख्यं न दुःखं

न मन्त्रो न तीर्थं न वेदा न यज्ञाः।

अहं भोजनं नैव भोज्यं न भोक्ता

चिदानन्दरूपः शिवोऽहं शिवोऽहम्॥४॥

न मृत्युर्न शङ्का न मे जातिभेदः

पिता नैव मे न माता न जन्म।

न बन्धुर्न मित्रं गुरुर्नैवशिष्य-

श्चिदानन्दरूपः शिवोऽहं शिवोऽहम्॥५॥

अहं निर्विकल्पो निराकाररूपः

विभुत्वाच्च सर्वत्र सर्वेन्द्रियाणाम्।

न चासंगतो नैव मुक्तिर्न मेय-

श्चिदानन्दरूपः शिवोऽहं शिवोऽहम्॥६॥


TATTWAMASI

                   तत्त्वमसि
निस्तमसि नीरजसि निर्गलितसत्वे
तेजसि विवेकजुषि भेदमतिशून्ये।
निर्वचनमानसपदातिगमचिन्त्यं

तत्वमसि तत्वमसि तत्वमसि राजन्॥
यज्जनितमेतदखिलं जगदनित्यं
स्वप्नजगदभ्रगज वारिवनतुल्यं ।
अप्रमित मूर्तिरहितं परसुखं यत्
तत्वमसि तत्वमसि तत्वमसि राजन्॥
देहगुणजालमपि लीलमतिलोलं
येन लसितं भवति धीपुरशतञ्च
अद्वयमनन्तकमपारमतिसूक्ष्मं
तत्वमसि तत्वमसि तत्वमसि राजन्॥
कोशमयपञ्चकमिदञ्च सविकारं
यत्र वियदादि विमलस्फुरितमेतत्
अस्ति न कदाचिदपि रज्जुवदनन्तं
तत्वमसि तत्वमसि तत्वमसि राजन्
भेदमतिजातमवधूतमनुभूतं
येन विदितं ततं परात्परसुखं च।
तद्भवति सोहमिति यच्छ्रुतिषु चोक्तं
तत्वमसि तत्वमसि तत्वमसि राजन॥


DHANYASHTAKAM

                                                     धन्याष्टकम्
           (श्रीमच्छंकरभगवत्पादविरचितम्)
तज्ज्ञानं प्रशमकरं यदिन्द्रियाणां
तज्ज्ञेयं यदुपनिषत्सु निश्चितार्थम् ।
ते धन्या भुवि परमार्थनिश्चितेहाः
शेषास्तु भ्रमनिलये  परिभ्रमन्ति ॥१॥  ।
आदौ विजित्य विषयान्मदमोहराग-
द्वेषादिशत्रुगणमाहृतयोगराज्याः।
ज्ञात्वामृतं समनुभूतपरात्मविद्या
कान्तासुखा बत गृहे विचरन्ति धन्याः ॥२॥
त्यक्त्वा गृहे रतिमधोगतिहेतुभूता-
मात्मेच्छयोपनिषदर्थरसं  पिबन्तः ।
वीतस्पृहा विषयभोगपदे विरक्ता
धन्याश्चरन्ति विजनेषु विरक्तिसंगाः ॥३॥
त्यक्त्वा ममाहमिति बन्धकरे पदे द्वे
मानावमानसदृशाः समदर्शिनश्च  ।
कर्तारमन्यमवगम्य तदर्पितानि
कुर्वन्ति कर्मपरिपाकफलानि धन्याः ॥४॥
त्यक्त्वैषणात्रयमवेक्षितमोक्षमार्गा
भैक्षामृतेन परिकल्पितदेहयात्राः।
ज्योतिः परात्परतरं परमात्मसंज्ञं
धन्या द्विजा रहसि हृद्यवलोकयन्ति॥५॥
नासन्न सन्न सदसन्न महन्न चाणु
न स्त्री पुमान्न च नपुंसकमेकबीजम्।
यैर्ब्रह्म तत्समनुपासितमेकचित्ता धन्या विरेजुरितरे भवपाशबद्धाः ॥६॥
अज्ञानपङ्कपरिमग्नमपेतसारं
दुःखालयं मरणजन्मजरावसक्तम् ।
संसारबन्धनमनित्यमवेक्ष्य धन्या
ज्ञानासिना तदवशीर्य विनिश्चयन्ति ॥७॥
शान्तैरनन्यमतिभिर्मधुरस्वभावै-
रेकत्वनिश्चितमनोभिरपेतमोहैः ।
साकं वनेषु विजितात्मपदस्वरूपं
शास्त्रेषु सम्यगनिशं विमृशन्ति धन्याः ॥८॥
अहिमिव जनयोगं सर्वदा वर्जयेद्यः
कुणपमिव सुनारीं त्यक्तुकामो विरागी।
विषमिव विषयान्यो मन्यमानो दुरन्ता-
ञ्जयति परमहंसो मुक्तिभावं समेति ॥९॥
संपूर्णं जगदेव नन्दनवनं सर्वेऽपि कल्पद्रुमा
गांगं वारि समस्तवारिनिवहाः पुण्याः समस्ताः क्रियाः ।
वाचः प्राकृतसंस्कृताः श्रुतिशिरो वाराणसी मेदिनी
सर्वावस्थितिरस्य वस्तु विषया दृष्टे परब्रह्मणि ॥१०॥


KAUPINA PANCHAKAM

             कौपीनपञ्चकं स्तोत्रम्
(श्रीमच्छंकरभगवत्पादविरचितम्)
वेदान्तवाक्येषु सदारमन्तो
भिक्षान्नमात्रेण च तुष्टिमन्तः ।
अशोकवन्तः करुणैकवन्तः
कौपीनवन्तः खलुभाग्यवन्तः ॥१॥
मूलं तरोः केवलमाश्रयन्तः
पाणिद्वये भोक्तुममत्रयन्तः।
कन्थामपि स्त्रीमिव कुत्सयन्तः
कौपीनवन्तः खलुभाग्यवन्तः॥२॥
देहाभिमानं परिहृत्यदूरा-
दात्मानमात्मन्यवलोकयन्तः।
अहर्निशं ब्रह्मणि ये रमन्तः
कौपीनवन्तः खलु भाग्यवन्तः ॥३॥
स्वानन्दभावे परितुष्टिमन्तः
स्वशान्तसर्वेन्द्रियवृत्तिमन्तः।
नान्तं न मध्यं न बहिः स्मरन्तः
कौपीनवन्तःखलुभाग्यवन्तः॥४॥
पञ्चाक्षरं पावनमुच्चरन्तः
पतिं पशूनां हृदि भावयन्तः
भिक्षाशना दिक्षु परिभ्रमन्तः
कौपीनवन्तः खलुभाग्यवन्तः ॥५॥


SADHANA PANCHAKAM

                                                             साधनपञ्चकम्
               (श्रीमच्छंकरभगवत्पादविरचितम्)
वेदो नित्यमधीयतां तदुदितं कर्म स्वनुष्ठीयतां
तेनेशस्य विधीयतामपचितिः काम्ये मनस्त्यज्यताम् ।
पापौघः परिधूयतां भवसुखे दोषोऽनुसन्धीयता-
मात्मेच्छा व्यवसीयतां निजगृहात्तूर्णं विनिर्गम्यताम् ॥१॥
संगः सत्सुविधीयतां भगवतो भक्तिर्दृढा धीयतां
शान्त्यादिः परिचीयतां दृढतरं कर्माशु सन्त्यज्यताम् ।
सद्विद्वानुपसर्प्यतां प्रतिदिनं तत्पादुका सेव्यतां
ब्रह्मैकाक्षरमर्थ्यतां श्रुतिशिरोवाक्यं समाकर्ण्यताम् ॥२॥
वाक्यार्थश्च विचार्यतां श्रुतिशिरःपक्षः समाश्रीयतां
दुस्तर्कात्सुविरम्यतां श्रुतिमतस्तर्कोऽनुसन्धीयताम् ।
ब्रह्मैवास्मि विभाव्यतामहरहर्गर्वः परित्यज्यतां
देहेऽहम्मतिरुज्झ्यतां बुधजनैर्वादः परित्यज्यताम् ॥३॥
क्षुद्व्याधिश्च चिकित्स्यतां प्रतिदिनं भिक्षौषधं भुज्यतां
स्वाद्वन्नं न तु याच्यतां विधिवशात्प्राप्तेन सन्तुष्यताम् ।
शीतोष्णादि विषह्यतां न तु वृथा वाक्यं समुच्चार्यता-
मौदासीन्यमभीप्स्यतां जनकृपा नैष्ठुर्यमुत्सृज्यताम् ॥४॥
एकान्ते सुखमास्यतां परतरे चेतः समाधीयतां
पूर्णात्मा सुसमीक्ष्यतां जगदिदं तद्बाधितं दृश्यताम्।
प्राक्कर्म प्रविलीयतां चितिबलान्नाप्युत्तरैः श्लिष्यतां
प्रारब्धं त्विह भुज्यतामथ परब्रह्मात्मना स्थीयताम् ॥५॥
यः श्लोकपञ्चकमिदं पठते मनुष्यः
सञ्चिन्तयत्यनुदिनं स्थिरतामुपेत्य।
तस्याशु संसृतिदवानलतीव्रघोर-
तापः प्रशान्तिमुपयाति चितिप्रसादात् ॥६॥


ATMA PANCHAKAM

                                                आत्मपञ्चकम्
नाहं देहो नेन्द्रियाण्यन्तरंगं
नाहंकारः प्राणवर्गो न बुद्धिः
दारापत्यक्षेत्रवित्तादिदूरः
साक्षी नित्यः प्रत्यगात्मा शिवोऽहम् ॥१॥
रज्ज्वज्ञानाद्भाति रज्जुर्यथाहिः
स्वात्माज्ञानादात्मनो जीवभावः।
आप्तोक्त्या हि भ्रान्तिनाशे स रज्जु-
र्जीवो नाहं देशिकोक्त्या शिवोऽहम् ॥२॥
आभातीदं विश्वमात्मन्यसत्यं
सत्यज्ञानानन्दरूपे विमोहात् ।
निद्रामोहात् स्वप्नवत् तन्नसत्यं
शुद्धः पूर्णो नित्य एकः शिवोऽहम् ॥३॥
मत्तो नान्यत् किञ्चिदत्रास्ति विश्वं
सत्यं बाह्यं वस्तुमायोपक्लिप्तं ।
आदर्शान्तर्भासमानस्यतुल्यं
मय्यद्वैते भाति तस्माच्छिवोऽहम् ॥४॥
नाहं जातो न प्रवृद्धो न नष्टो
देहस्योक्ताः प्राकृताः सर्वधर्माः।
कर्तृत्वादिश्चिन्मयस्यास्ति नाहं-
कारस्यैव  ह्यात्मनो मे शिवोऽहम् ॥५॥
नाहं जातो जन्ममृत्यू कुतो मे
नाहं प्राणः क्षुत्पिपासे कुतो मे ।
नाहं चित्तं शोकमोहौ कुतो मे
नाहं कर्ता बन्धमोक्षौ कुतो मे ॥६॥


PARA PUJA

                                                    परापूजा
        (श्रीमच्छंकरभगवत्पादविरचितम्)
अखण्डे सच्चिदानन्दे निर्विकल्पैकरूपिणि ।
स्थितेऽद्वितीयभावेऽस्मिन् कथं पूजा विधीयते ॥१॥
पूर्णस्यावाहनं कुत्र सर्वाधारस्य चासनम्  ।
स्वच्छस्य पाद्यमर्घ्यं च शुद्धस्याचमनं कुतः॥२॥
निर्मलस्य कुतः स्नानं वस्त्रं विश्वोदरस्य च
अगोत्रस्य त्ववर्णस्य कुतस्तस्योपवीतकम् ॥३॥
निर्लेपस्य कुतो गन्धः पुष्पं निर्वासनस्य च
निर्विशेषस्य का भूषा कोऽलंकारो निराकृतेः ॥४॥
निरञ्जनस्य किं धूपैर्दीपैर्वा सर्वसाक्षिणः।
निजानन्दैकतृप्तस्य नैवेद्यं किं भवेदिह ॥५॥
विश्वानन्दपितुस्तस्य किं तांबूलं प्रकल्प्यते।
स्वयंप्रकाशचिद्रूपो योऽसावर्कादिभासकः ॥६॥
प्रदक्षिणा ह्यनन्तस्य ह्यद्वयस्य कुतो नतिः
वेदवाक्यैरवेद्यस्य कुतः स्तोत्रं विधीयते ॥७॥
स्वयंप्रकाशमानस्य कुतो नीराजनं विभोः।
अन्तर्बहिश्च पूर्णस्य कथमुद्वासनं भवेत्॥८॥
एवमेव परापूजा सर्वावस्थासु सर्वदा
एकबुद्ध्या तु देवेशे विधेया ब्रह्मवित्तमैः ॥९॥
आत्मा त्वं गिरिजा मतिः सहचराः प्राणाः शरीरं गृहं
पूजा ते विषयोपभोगरचना निद्रा समाधिस्थितिः।
सञ्चार: पदयो: प्रदक्षिणविधिः स्तोत्राणि सर्वा गिरो
यद्यत्कर्म करोमि तत्तदखिलं शंभो तवाराधनम् ॥१०॥


 

MANISHA PANCHAKAM

                             मनीषापञ्चकम्
श्वपाकः-
किं गंगांबुनि बिंबितेऽम्बरमणौ चण्डालवाटीपयः
पूरे चान्तरमस्ति  काञ्चनघटी मृत्कुंभयोर्वांबरे ।
प्रत्यग्वस्तुनि निस्तरंगसहजानन्दावबोधांबुधौ
विप्रोऽयं श्वपचोऽयमित्यपि महान् कोऽयं विभेदभ्रमः ॥ १॥
श्रीमद्भगवत्पादाः-
जाग्रत्स्वप्नसुषुप्तिषु स्फुटतरा या संविदुज्जृंभते
या ब्रह्मादि पिपीलिकान्ततनुषु प्रोता जगत्साक्षिणी ।
सैवायं न च दृश्यवस्त्विति दृढा प्रज्ञापि यस्यास्ति चेत्
चण्डालोऽस्तु स तु द्विजोऽस्तु गुरुरित्येषा मनीषा मम ॥२॥
ब्रह्मैवाहमिदं जगच्च सकलं चिन्मात्रविस्तारितं
सर्वं चैतदविद्यया त्रिगुणयाऽशेषं मया कल्पितम् ।
इत्थं यस्य दृढा मतिः सुखतरे नित्ये परे निर्मले
चण्डालोऽस्तु स तु द्विजोऽस्तु गुरुरित्येषा मनीषा मम ॥३॥
शश्वन्नश्वरमेव विश्वमखिलं निश्चित्य वाचा गुरोः
नित्यं ब्रह्म निरंतरं विमृशता निर्व्याजशान्तात्मना ।
भूतं भावि च दुष्कृतं प्रदहता संविन्मये पावके   
प्रारब्धाय समर्पितं स्ववपुरित्येषा मनीषा मम ॥४॥
या तिर्यङ्नरदेवताभिरहमित्यन्तः स्फुटा गृह्यते
यद्भासा हृदयाक्षदेहविषयाः भान्ति स्वतोऽचेतनाः ।
तां भास्यैः पिहितार्कमण्डलनिभां स्फूर्तिं सदा भावय-
न्योगी निर्वृतमानसो हि गुरुरित्येषा मनीषा मम ॥५॥
यत्सौख्यांबुधिलेशलेशत इमे शक्रादयो निर्वृताः
यच्चित्ते नितरां प्रशान्तकलने लब्ध्वा मुनिर्निर्वृतः।
यस्मिन्नित्यसुखांबुधौ गलितधीर्ब्रह्मैव न ब्रह्मवित्
यः कश्चित्स सुरेन्द्रसेवितपदो नूनं मनीषा मम ॥६॥


KASI PANCHAKAM

                          काशीपञ्चकम्
(श्रीमच्छंकरभगवत्पादविरचितम्)
मनोनिवृत्तिः परमोपशान्तिः
सा तीर्थवर्या मणिकर्णिका च
ज्ञानप्रवाहा विमलादिगंगा
सा काशिकाऽहं निजबोधरूपा ॥१॥
यस्यामिदं कल्पितमिन्द्रजालं
चराचरं भाति मनोविलासम्।
सच्चित्सुखैका परमात्मरूपा
सा काशिकाऽहं निजबोधरूपा  ॥२॥
कोशेषु पञ्चस्वधिराजमाना
बुद्धिर्भवानी प्रतिदेहगेहे ।
साक्षी शिवस्सर्वगणोऽन्तरात्मा
सा काशिकाऽहं निजबोधरूपा ॥३॥
काश्यां हि काशते काशी
काशी सर्वप्रकाशिका।
सा काशी विदिता येन
तेन प्राप्ता हि काशिका ॥४॥
काशीक्षेत्रं शरीरं त्रिभुवनजननी व्यापिनी ज्ञानगंगा
भक्तिः श्रद्धा गयेयं निजगुरुचरणद्ध्यानयोगः प्रयागः।
विश्वेशोऽयं तुरीयः सकलजनमनः साक्षिभूतोऽन्तरात्मा
देहे सर्वं मदीये यदि वसति पुनः तीर्थमन्यत्किमस्ति  ॥५॥


KAIVALYASHTAKAM

                  कैवल्याष्टकम्
मधुरं मधुरेभ्योऽपि मङ्गलेभ्योऽपि मङ्गलं ।
पावनं पावनेभोऽपि हरेर्नामैव केवलम्  ॥१॥
आब्रह्मस्तंबपर्यन्तं सर्वं मायामयं जगत्
सत्यं सत्यं पुनः सत्यं हरेर्नामैव केवलम् ॥२॥
स गुरुः स पिता चापि सा माता बान्धवोऽपि सः
शिक्षयेच्चेत्सदा स्मर्तुं हरेर्नामैव केवलम्   ॥३॥
निःश्वासे नहि विश्वासः कदा रुद्धो भविष्यति
कीर्तनीयमतो बाल्याद्धरेर्नामैव केवलम् ॥४॥
हरिः सदा वसेत्तत्र यत्र भागवता जनाः
गायन्ति भक्तिभावेन हरेर्नामैव केवलम्  ॥५॥
अहो दुःखं महादुःखं दु:खात् दुःखतरं यतः
काचार्थं विस्मृतं रत्नं हरेर्नामैव केवलम् ॥६॥
दीयतां दीयतां कर्णो नीयतां नीयतां वचः
गीयतां गीयतां नित्यं हरेर्नामैव केवलम् ॥७॥
तृणीकृत्य जगत्सर्वं राजते सकलोपरि
चिदानन्दमयं शुद्धं हरेर्नामैव केवलम्   ॥८॥