MANISHA PANCHAKAM

                             मनीषापञ्चकम्
श्वपाकः-
किं गंगांबुनि बिंबितेऽम्बरमणौ चण्डालवाटीपयः
पूरे चान्तरमस्ति  काञ्चनघटी मृत्कुंभयोर्वांबरे ।
प्रत्यग्वस्तुनि निस्तरंगसहजानन्दावबोधांबुधौ
विप्रोऽयं श्वपचोऽयमित्यपि महान् कोऽयं विभेदभ्रमः ॥ १॥
श्रीमद्भगवत्पादाः-
जाग्रत्स्वप्नसुषुप्तिषु स्फुटतरा या संविदुज्जृंभते
या ब्रह्मादि पिपीलिकान्ततनुषु प्रोता जगत्साक्षिणी ।
सैवायं न च दृश्यवस्त्विति दृढा प्रज्ञापि यस्यास्ति चेत्
चण्डालोऽस्तु स तु द्विजोऽस्तु गुरुरित्येषा मनीषा मम ॥२॥
ब्रह्मैवाहमिदं जगच्च सकलं चिन्मात्रविस्तारितं
सर्वं चैतदविद्यया त्रिगुणयाऽशेषं मया कल्पितम् ।
इत्थं यस्य दृढा मतिः सुखतरे नित्ये परे निर्मले
चण्डालोऽस्तु स तु द्विजोऽस्तु गुरुरित्येषा मनीषा मम ॥३॥
शश्वन्नश्वरमेव विश्वमखिलं निश्चित्य वाचा गुरोः
नित्यं ब्रह्म निरंतरं विमृशता निर्व्याजशान्तात्मना ।
भूतं भावि च दुष्कृतं प्रदहता संविन्मये पावके   
प्रारब्धाय समर्पितं स्ववपुरित्येषा मनीषा मम ॥४॥
या तिर्यङ्नरदेवताभिरहमित्यन्तः स्फुटा गृह्यते
यद्भासा हृदयाक्षदेहविषयाः भान्ति स्वतोऽचेतनाः ।
तां भास्यैः पिहितार्कमण्डलनिभां स्फूर्तिं सदा भावय-
न्योगी निर्वृतमानसो हि गुरुरित्येषा मनीषा मम ॥५॥
यत्सौख्यांबुधिलेशलेशत इमे शक्रादयो निर्वृताः
यच्चित्ते नितरां प्रशान्तकलने लब्ध्वा मुनिर्निर्वृतः।
यस्मिन्नित्यसुखांबुधौ गलितधीर्ब्रह्मैव न ब्रह्मवित्
यः कश्चित्स सुरेन्द्रसेवितपदो नूनं मनीषा मम ॥६॥


Author Socials Follow me