(वेदन्तदेशिककृतम्)
अहं मद्रक्षणभरो मद्रक्षणफलं तथा ।
न मम श्रीपतेरेवेत्यात्मानं निक्षिपेत् बुधः॥१॥
न्यस्याम्यकिञ्चनः श्रीमन्ननुकूलोऽन्यवर्जितः।
विश्वासप्रार्थनापूर्वमात्मरक्षाभरं त्वयि॥२॥
स्वामी स्वशेषं स्ववशं स्वभरत्वेन निर्भरम्।
स्वदत्तस्वधिया स्वार्थं स्वस्मिन्न्यस्यति मां स्वयम्॥३॥
श्रीमन्नभीष्टवरद त्वामस्मि शरणं गतः।
एतद्देहावसाने मां त्वत्पादं प्रापय स्वयम् ॥४॥
त्वच्छेषत्वे स्थिरधियं त्वत्प्राप्त्येकप्रयोजनम्।
निषिद्धकाम्यरहितं कुरु मां नित्यकिङ्करम् ॥५॥
देवीभूषणहेत्यादिजुष्टस्य भगवंस्तव ।
नित्यं निरपराधेषु कैङ्कर्येषु नियुङ्क्ष्व माम् ॥६॥
मां मदीयं च निखिलं चेतनाचेतनात्मकम्।
स्वकैङ्कर्योपकरणं वरद स्वीकुरु स्वयम् ॥७॥
त्वमेव रक्षकोऽसि मे त्वमेव करुणाकरः।
न प्रवर्तय पापानि प्रवृत्तानि निवारय॥८॥
अकृत्यानां च करणं कृत्यानां वर्जनं च मे।
क्षमस्व निखिलं देव प्रणतार्तिहर प्रभो॥९॥
श्रीमन्नियतपञ्चाङ्गं मद्रक्षणभरार्पणम्॥
अचीकरत्स्वयं स्वस्मिन्नतोऽहमिह निर्भरः ॥१०॥