BHISHMASTAVARAJAH (FROM THE EPIC MAHABHARATA)

     BHISHMASTAVARAJAH
Bhishma Stava Rajah is one of the finest hymns to the
Ultimate Reality incarnated as Lord Krishna. It is considered as one of the
five jewels in the great epic of Mahabharata as mentioned in the following
oft-quoted  verse:
                
                              गीता नामसहस्रं च स्तवराजोऽनुस्मृतिः।
           गजेन्द्रमोक्षणं चैव पञ्चरत्नानि भारते॥
The following are the five jewels in Mahabharata:
Bhagavadgita, the Song Divine, a Universal philosophy
of life and being enabling  the individual
soul transcend the pluralistic universe and experience its complete identity
with the One Ultimate Reality
.
     
Vishnu
Shasranama, the thousand names of Vishnu.
Bhishmastavaraajah,
Hymn by Bhishma addressed to Lord Krishna while the former was awaiting Uttaraayana
(when the Sun turns North from the tropic of Capricorn)   to
cast off his mortal body.
Anusmruti, ways to remember the Lord
while one still in this world and  in
one’s last moments,  as
expounded by Lord Vishnu to Narada
Maharshi
Gajendra
Moksham,  the story of the Gajendra’s
release by the Lord from the clutches of an allegator and Gajendra’s hymn
addressed to the Lord.
Given
below is the text of the jewel of a hymn by Bhishma Pitamaha addressed to
Lord Krishna
                                भीष्मस्तवराजः
जनमेजय उवाच-
शरतल्पेशयानस्तु भरतानां पितामहः
कथमुत्सृष्टवान् देहं कञ्च योगमधारयत्॥१॥
वैशम्पायन उवाच-
शृणुष्वावहितो राजन् शुचिर्भूत्वा समाहितः।
भीष्मस्य कुरुशार्दूल देहोत्सर्गं महात्मनः॥२॥
निवृत्तमात्रे त्वयन उत्तरे वै दिवाकरे।
समावेशयदात्मानमात्मन्येव समाहितः॥३॥
विकीर्णांशुरिवादित्यो भीष्मः शरशतैश्चितः।
शुशुभे परया लक्ष्म्या वृतो ब्राह्मणसत्तमैः॥४॥
व्यासेन वेदविदुषा नारदेन सुरर्षिणा।
देवस्थानेन वात्स्येन तथाश्मकसुमन्तुना॥५॥
तथा जैमिनिना चैव पैलेन च महात्मना।
शाण्डिल्यदेवलाभ्यां च मैत्रेयेण च धीमता॥६॥
असितेन वसिष्ठेन कौशिकेन महात्मना।
हारीतलोमशाभ्यां च तथात्रेयेण धीमता ॥७॥
बृहस्पतिश्च शुक्रश्च च्यवनश्च महामुनिः
सनत्कुमारः कपिलो वाल्मीकिस्तुम्बुरुः कुरुः॥८॥
मौद्गल्यो भार्गवो रामस्तृणबिन्दुर्महामुनिः
पिप्पलादोऽथ वायुश्च संवर्तः पुलहः कचः॥९॥
काश्यपश्च पुलस्त्यश्च क्रतुर्दक्षः पराशरः।
मरीचिरङ्गिराः काश्यो गौतमो गालवो मुनिः॥१०॥
धौम्यो विभाण्डो भाण्डव्यो धौम्रः कृष्णानुभौतिकः।
उलूकः परमो विप्रो मार्कण्डेयो महामुनिः ॥११॥
भास्करिः पूरणः कृष्णः सूतः परमधार्मिकः।
एतैश्चान्यैर्मुनिगणैर्महाभागैर्महात्मभिः ॥१२॥
श्रद्धादमशमोपेतैर्वृतश्चन्द्र इव ग्रहैः
भीष्मस्तु पुरुषव्याघ्र कर्मणा
मनसा गिरा ॥१३॥
शरतल्पगतः कृष्णं प्रदध्यौ प्राञ्जलिः शुचिः।
स्वरेण हृष्टपुष्टेन तुष्टाव मधुसूदनम्   ॥१४॥
योगेश्वरं पद्मनाभं विष्णुं जिष्णुं जगत्पतिम्।
कृताञ्जलिपुटो भूत्वा वाग्विदां प्रवरः प्रभुः ।
भीष्मः परमधर्मात्मा वासुदेवमथास्तुवत् ॥१५॥
भीष्म उवाच –
आरिराधयिषुः कृष्णं वाचं जिगदिषामि यां
तया व्याससमासिन्या प्रीयतां पुरुषोत्तमः ॥१६॥
शिचिं शुचिपदं हंसं तत्पदं परमेष्ठिनं।
मुक्त्वा सर्वात्मनात्मानं तं प्रपद्ये प्रजापतिम् ॥१७॥
अनाद्यन्तं परं ब्रह्म न देवा नर्षयो विदुः।
एको यं वेद भगवान्धाता नारायणो हरिः ॥१८॥
नारायणादृषिगणास्तथा सिद्धमहोरगाः।
देवा देवर्षयश्चैव यं विदुः परमव्ययम् ॥१९॥
देवदानवगन्धर्वा  यक्षराक्षसपन्नगाः।
यं न जानन्ति को ह्येष कुतो वा भगवानिति॥२०॥
यस्मिन् विश्वानि भूतानि तिष्ठन्ति च विशन्ति च।
गुणभूतानि भूतेशे सूत्रे मणिगणा इव ॥२१॥
यस्मिन्निन्ये तते तन्तौ दृढे स्रगिव तिष्ठति।
सदसद्ग्रथितं विश्वं विश्वाङ्गे विश्वकर्मणि॥२२॥
हरिं सहस्रशिरसं सहस्रचरणेक्षणम्।
सहस्रबाहुमुकुटं सहस्रवदनोज्ज्वलम् ॥२३॥
प्राहुर्नारायणं देवं यं विश्वस्य परायणम्।
अणीयसामणीयांसं स्थविष्ठं च स्थवीयसाम् ॥२४॥
गरीयसां गरिष्ठं च श्रेष्ठं च श्रेयसामपि ॥२५॥
यं वाकेष्वनुवाकेषु निषत्सूपनिषत्सु च ।
गृणन्ति सत्यकर्माणं सत्यं सत्येषु सामसु ॥२६॥
चतुर्भिश्चतुरात्मानं सत्त्वस्थं सात्वतां पतिम्।
यं दिव्यैर्देवमर्चन्ति गुह्यैः परमनामभिः ॥२७॥
यस्मिन्नित्यं तपस्तप्तं मदङ्गेष्वनुतिष्ठति।
सर्वात्मा सर्ववित् सर्वः सर्वज्ञः सर्वभावनः ॥२८॥
यं देवं देवकी देवी वसुदेवादजीजनत्
भौमस्य ब्रह्मणो गुप्त्यै दीप्तमग्निमिवारणिः॥२९॥
यमनन्यो व्यपेताशीरात्मानं वीतकल्मषम्।
दृष्ट्वानन्त्याय गोविन्दं पश्यत्यात्मानमात्मनि ॥३०॥
अतिवाय्विन्द्रकर्माणमतिसूर्यातितेजसम्।
अतिबुद्धीन्द्रियात्मानं तं प्रपद्ये प्रजापतिम् ॥३१॥
पुराणे पुरुषं प्रोक्तं ब्रह्म प्रोक्तं युगादिषु।
क्षये सङ्कर्षणं प्रोक्तं तमुपास्यमुपास्महे ॥३२॥
यमेकं बहुधात्मानं प्रादुर्भूतमधोक्षजम्।
नान्यभक्ताः क्रियावन्तो यजन्ते सर्वकामदम्॥३३॥
यमाहुर्जगतः कोशं यस्मिन् सन्निहिताः प्रजाः।
यस्मिन् लोकाः स्फुरन्तीमे जले शकुनयो यथा ॥३४॥
ऋतमेकाक्षरं ब्रह्म यत्तत्सदसतोः परम्।
अनादिमध्यपर्यन्तं न देवा नर्षयो विदुः॥३५॥
यं सुरासुरगन्धर्वाः सिद्धा ऋषि महोरगाः।
प्रयता नित्यमर्चन्ति परमं दुःखभेषजम् ॥३६॥
अनादिनिधनं देवमात्मयोनिं सनातनम् ।
अप्रेक्ष्यमनभिज्ञेयं हरिं नारायणं प्रभुम् ॥३७॥
यं वै विश्वस्य कर्तारं जगतस्तस्थुषां पतिम्।
वदन्ति जगतोऽध्यक्षमक्षरं परमं पदम् ॥३८॥
हिरण्यवर्णं यं गर्भमदितिर्दैत्यनाशनम्।
एकं द्वादशधा जज्ञे तस्मै सूर्यात्मने नमः ॥३९॥
शुक्ले देवान् पितॄन् कृष्णे तर्पयत्यमृतेन यः।
यश्च राजा द्विजातीनां तस्मै सोमात्मने नमः ॥४०॥
महतस्तमसः पारे पुरुषं ह्यतितेजसम्।
यं ज्ञात्वा मृत्युमत्येति तस्मै ज्ञेयात्मने नमः ॥४१॥
यं बृहन्तं बृहत्युक्थे यमग्नौ यं महाध्वरे।
यं विप्रसंघाः गायन्ति तस्मै वेदात्मने नमः ॥४२॥
ऋग्यजुःसामधामानं दशार्धहविरात्मकम्।
यं सप्ततन्तुं तन्वन्ति तस्मै यज्ञात्मने नमः॥४३॥
चतुर्भिश्च चतुर्भिश्च द्वाभ्यां पञ्चभिरेव च।
हूयते च पुनर्द्वाभ्यां तस्मै होमात्मने नमः ॥४४॥
यः सुपर्णो यजुर्नाम छन्दोगात्रस्त्रिवृच्छिराः।
रथन्तरं बृहत्साम तस्मै स्तोत्रात्मने नमः ॥४५॥
यः सहस्रसमे सत्रे जज्ञे विश्वसृजामृषिः।
हिरण्यपक्षः शकुनिस्तस्मै हंसात्मने नमः ॥४६॥
पदाङ्गसन्धिपर्वाणं स्वरव्यञ्जनभूषणम्।
यमाहुरक्षरं दिव्यं तस्मै वागात्मने नमः॥४७॥
यज्ञाङ्गो यो वराहो वै भूत्वा गामुज्जहार ह।
लोकत्रयहितार्थाय तस्मै वीर्यात्मने नमः ॥४८॥
यः शेते योगमास्थाय पर्यङ्के नागभूषिते ।
फणासहस्ररचिते तस्मै निद्रात्मने नमः॥४९॥
यस्तनोति सतां सेतुमृतेनामृतयोनिना।
धर्मार्थव्यवहाराङ्गैस्तस्मै सत्यात्मने नमः॥५०॥
यं पृथग्धर्मचरणाः पृथग्धर्मफलैषिणः
पृथग्धर्मैः समर्चन्ति तस्मै धर्मात्मने नमः॥५१॥
यतः सर्वे प्रसूयन्ते ह्यनङ्गात्माङ्गदेहिनः।
उन्मादाः सर्वभूतानां तस्मै  कामात्मने नमः ॥५२॥
यं च व्यक्तस्थमव्यक्तं विचिन्वन्ति महर्षयः।
क्षेत्रक्षेत्रज्ञमासीनं तस्मै क्षेत्रात्मने नमः ॥५३॥
यं त्रिधात्मानमात्मस्थं वृतं षोडशभिर्गुणैः।
प्राहुः सप्तदशं सांख्यास्तस्मै सांख्यात्मने नमः ॥५४॥

यं विनिद्राः जितश्वासाः सत्त्वस्थाः संयतेन्द्रियाः।
ज्योतिः पश्यन्ति युञ्जानास्तस्मै योगात्मने नमः ॥५५॥
अपुण्यपुण्योपरमे यं पुनर्भवनिर्भयाः।
शान्ताः संन्यासिनो यान्ति तस्मै मोक्षात्मने नमः ॥५६॥
योऽसौ युगसहस्रान्तप्रदीप्तार्चिर्विभावसुः।
संभक्षयति भूतानि तस्मै घोरात्मने नमः ॥५७॥
संभक्ष्य सर्वभूतानि कृत्वा चैकार्णवं जगत्।
बालः स्वपिति यश्चैकस्तस्मै मायात्मने नमः ॥५८॥
तद्यस्य नाभ्यां संभूतं यस्मिन् विश्वं प्रतिष्ठितम्।
पुष्करे पुष्कराक्षस्य तस्मै पद्मात्मने नमः   ॥५९॥
सहस्रशिरसे चैव पुरुषायामितात्मने।
चतुःसमुद्रपर्याय योगनिद्रात्मने नमः॥६०॥
यस्य केशेषु जीमूताः नद्यः सर्वाङ्गसन्धिषु।
कुक्षौ समुद्राश्चत्वारस्तस्मै  तोयात्मने नमः ॥६१॥
यस्मात् सर्वाः प्रसूयन्ते सर्गप्रलयविक्रियाः।
यस्मिंश्चैव प्रलीयन्ते  तस्मै हेत्वात्मने नमः॥६२॥
यो निषण्णो भवेद्रात्रौ दिवा भवति विष्ठितः।
इष्टानिष्टस्य च द्रष्टा तस्मै द्रष्ट्रात्मने नमः ॥६३॥ 
अकुण्ठं सर्वकार्येषु धर्मकार्यार्थमुद्यतम्।
वैकुण्ठस्य च तद्रूपं तस्मै कार्यात्मने नमः॥६४॥
त्रिःसप्तकृत्वो यः क्षत्रं धर्मवित् क्रान्तगौरवम्।
क्रुद्धो निजघ्ने समरे तस्मै क्रौर्यात्मने नमः ॥६५॥
विभज्य पञ्चधात्मानं वायुर्भूत्वा शरीरगः।
यश्चेष्टयति भूतानि तस्मै वाय्वात्मने नमः॥६६॥
युगेष्वावर्तते योगैर्मासर्त्वयनहायनैः।
सर्गप्रलययोः कर्ता तस्मै कालात्मने नमः ॥६७॥
ब्रह्म वक्त्रं भुजौ क्षत्रं कृत्स्नमूरूदरं विशः।
पादौ यस्याश्रिताः शूद्रास्तस्मै वर्णात्मने नमः॥६८॥
यस्याग्निरास्यं द्यौर्मूर्द्धा खं नाभिश्चरणौ क्षितिः।
सूर्यश्चक्षुर्दिशः श्रोत्रे तस्मै लोकात्मने नमः ॥६९॥
परः कालात् परो यज्ञात् परात्परतरश्च यः।
आनादिरादिर्विश्वस्य तस्मै विश्वात्मने नमः॥७०॥
विषये वर्तमानानां यं तं वैशेषिकैर्गुणैः।
प्राहुर्विषयगोप्तारं तस्मै गोप्त्रात्मने नमः ॥७१॥
अन्नपानेन्धमयो रसप्राणविवर्धनः।
यो धारयति भूतानि तस्मै प्राणात्मने नमः ॥७२॥
प्राणानां धारणार्थाय योऽन्नं भुङ्क्ते चतुर्विधम्।
आन्तर्भूतः पचत्यग्निस्तस्मै पाकात्मने नमः ॥७३॥
पिङ्गेक्षणसटं यस्य रूपं दंष्ट्रानखायुधम्।
दानवेन्द्रान्तकरणं तस्मै दृप्त्यात्मने नमः ॥७४॥
यं न देवा न गन्धर्वा न दैत्या न च दानवाः।
तत्त्वतो हि विजानन्ति तस्मै सूक्ष्मात्मने नमः॥७५॥
रसातलगतः श्रीमाननन्तो भगवान् विभुः।
जगद्धारयते कृत्स्नं तस्मै वीर्यात्मने नमः॥७६॥
यो मोहयति भूतानि स्नेहपाशानुबन्धनैः।
सर्गस्य रक्षणार्थाय तस्मै मोहात्मने नमः ॥७७॥
आत्मज्ञानमिदं ज्ञानं ज्ञात्वा पञ्चस्ववस्थितम्।
यं ज्ञानेनाभिगच्छन्ति तस्मै ज्ञानात्मने नमः ॥७८॥
अप्रमेयशरीराय सर्वतोबुद्धिचक्षुषे।
अनन्तपरिमेयाय तस्मै दिव्यात्मने नमः ॥७९॥
जटिने दण्डिने नित्यं लम्बोदरशरीरिणे।
कमण्डलुनिषङ्गाय तस्मै ब्रह्मात्मने नमः ॥८०॥
शूलिने त्रिदशेशाय त्र्यम्बकाय महात्मने
भस्मदिग्धोर्ध्वलिङ्गाय तस्मै रुद्रात्मने नमः ॥८१॥
चन्द्रार्धकृतशीर्षाय व्यालयज्ञोपवीतिने।
पिनाकशूलहस्ताय तस्मै उग्रात्मने नमः ॥८२॥
सर्वभूतात्मभूताय भूतादिनिधनाय च।
अक्रोधद्रोहमोहाय तस्मै शान्तात्मने नमः ॥८३॥
यस्मिन् सर्वं यतः सर्वं यः सर्वं सर्वतश्च यः।
यश्च सर्वमयो नित्यं तस्मै सर्वात्मने नमः ॥८४॥
विश्वकर्मन्नमस्तेऽस्तु विश्वत्मन् विश्वसंभव।
अपवर्गस्थ  भूतानां पञ्चानां परतः स्थित
॥८५॥
नमस्ते त्रिषु लोकेषु नमस्ते परतस्त्रिषु।
नमस्ते दिक्षु सर्वासु त्वं हि सर्वमयो निधिः॥८६॥
नमस्ते भगवन् विष्णॊ लोकानां प्रभवाप्यय।
त्वं हि कर्ता हृषीकेश संहर्ता चापराजितः ॥८७॥
नहि पश्यामि ते भावं दिव्यं हि त्रिषु वर्त्मसु।
त्वां तु पश्यामि तत्त्वेन यत्ते रूपं सनातनम् ॥८८॥
दिवं ते शिरसा व्याप्तं पद्भ्यां देवी वसुन्धरा।
विक्रमेण त्रयो लोका:
पुरुषोऽसि सनातनः ॥८९॥
दिशो भुजा रविश्चक्षुर्वीर्यं शुक्रः प्रतिष्ठितः।
सप्त मार्गा निरुद्धास्ते वायोरमिततेजसः॥९०॥
अतसीपुष्पसङ्काशं पीतवाससमच्युतम्।
ये नमस्यन्ति गोविन्दं न तेषां विद्यते भयम्॥९१॥
एकोऽपि कृष्णस्य कृतः प्रणामो
दशाश्वमेधावभृथेन तुल्यः।
दशाश्वमेधी पुनरेति जन्म
कृष्णप्रणामी न पुनर्भवाय ॥९२॥
कृष्णव्रताः कृष्णमनुस्मरन्तो
रात्रौ च कृष्णं पुनरुत्थिता ये।
ते कृष्णदेहाः प्रविशन्ति कृष्णं
आज्यं यथा मन्त्रहुतं हुताशे ॥९३॥
नमो नरकसन्त्रासरक्षामण्डलकारिणे।
संसारनिम्नगावर्ततरिकाष्ठाय विष्णवे ॥९४॥
नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च।
जगद्धिताय कृष्णाय गोविन्दाय नमो नमः॥९५॥
प्राणकान्तारपाथेयं संसारोच्छेदभेषजम्।
दुःखशोकपरित्राणं हरिरित्यक्षरद्वयम् ॥९६॥
यथा विष्णुमयं सत्यं यथा विष्णुमयं जगत्।
यथा विष्णुमयं सर्वं पाप्मा मे नश्यतां तथा ॥९७॥
त्वां प्रपन्नाय भक्ताय गतिमिष्टां जिगीषवे।
यच्छ्रेयः पुण्डरीकाक्ष तद्ध्यायस्व सुरोत्तम ॥९८॥
इति विद्यातपोयोनिरयोनिर्विष्णुरीडितः।
वाग्यज्ञेनार्चितो देवः प्रीयतां मे जनार्दनः ॥९९॥
नारायणः परंब्रह्म नारायण परं तपः।
नारायणपरो देवः सर्वं नारायणः सदा॥१००॥
वैशम्पायन उवाच
एतावदुक्त्वा वचनं भीष्मस्तद्गतमानसः।
नम इत्येव कृष्णाय प्रणाममकरोत्तदा ॥१०१॥
अभिगम्य तु योगेन भक्तिं भीष्मस्य माधवः
त्रैलोक्यदर्शनं ज्ञानं दिव्यं दत्त्वा ययौ हरिः ॥१०२॥
तस्मिन्नुपरते शब्दे ततस्ते ब्रह्मवादिनः।
भीष्मं वाग्भिर्बाष्पकण्ठास्तमानर्चुमहामतिम् ॥१०३॥
ते स्तुवन्तश्च विप्राग्र्याः केशवं पुरुषोत्तमम्।
भीष्मं च शनकैः सर्वे प्रशशंसुः पुनः पुनः ॥१०४॥
विदित्वा भक्तियोगं तु भीष्मस्य पुरुषोत्तमः।
सहसोत्थाय संहृष्टो यानमेवान्वपद्यत ॥१०५॥
केशवः सात्यकिश्चापि रथेनैकेन जग्मतुः।
अपरेण महात्मानौ युधिष्ठिरधनञ्जयौ ॥१०६॥
भीमसेनो यमौ चोभौ रथमेकं समाश्रिताः।
कृपो युयुत्सुः सूतश्च सञ्जयश्च परन्तपः॥१०७॥
ते रथैर्नगराकारैः प्रयाताः पुरुषर्षभाः।
नेमिघोषेण महता कम्पयन्तो वसुन्धराम् ॥१०८॥
ततो गिरः पुरुषवरस्तवान्विता
द्विजेरिताः पथि सुमनाः स शुश्रुवे।
कृताञ्जलिं प्रणतमथापरं जनं
स केशिहा मुदितमनाभ्यनन्दत ॥१०९॥
इति श्रीमहाभारते शान्तिपर्वणि राजधर्मानुशासनपर्वणि
भीष्मस्तवराजे सप्तचत्त्वारिंशत्तमोऽध्यायः

Author Socials Follow me