Sree HanumAn’s Hymn to Sriram (From SkandapurANam)
नमो रामाय हरये विष्णवे
प्रभविष्णवे
प्रभविष्णवे
आदिदेवाय देवाय पुराणाय गदाभृते
|
|
विष्टरे पुष्पके नित्यं निविष्टाय महात्मने
प्रहष्ट वानरानीकजुष्टपादाम्बुजाय
ते ॥१॥
ते ॥१॥
निष्पिष्ट राक्षसेन्द्राय
जगदिष्टविधायिने
जगदिष्टविधायिने
नमः सहस्त्रशिरसे
सहस्त्रचरणाय च |
सहस्त्रचरणाय च |
सहस्त्राक्षाय शुद्धाय राघवाय
च विष्णवे
च विष्णवे
भक्तार्तिहारिणे तुभ्यं
सीतायाः पतये नमः ॥२॥
सीतायाः पतये नमः ॥२॥
हरये नारसिंहाय दैत्यराजविदारिणे
नमस्तुभ्यं वराहाय दन्ष्ट्रोद्धृतवसुन्धर ।
त्रिविक्रमयाय भवते
बलियज्ञविभेदिने
बलियज्ञविभेदिने
नमो वामन रूपाय नमो
मन्दरधारिणे ॥३॥
मन्दरधारिणे ॥३॥
नमस्ते मत्स्यरूपाय
त्रयीपालनकारिणे
त्रयीपालनकारिणे
नमः परशुरामाय
क्षत्रियान्तकराय ते ।
क्षत्रियान्तकराय ते ।
नमस्ते राक्षसघ्नाय नमो
राघवरूपिणे
राघवरूपिणे
महादेवमहाभीममहाकोदण्डभेदिने ॥४॥
क्षत्रियान्तकरक्रूरभार्गवत्रासकारिणे
नमोस्त्वहल्यासंतापहारिणे चापधारिणे ।
नागायुतबलोपेतताटकादेहहारिणे
शिलाकठिनविस्तारवालिवक्षोविभेदिने ॥५॥
नमो मायामृगोन्माथकारिणेsज्ञानहारिणे
दशस्यन्दनदु:खाब्धिशोषणागत्स्यरूपिणे ।
अनेकोर्मिसमाधूतसमुद्रमदहारिणे
मैथिलीमानसाम्भोजभानवे
लोकसाक्षिणे ॥६॥
लोकसाक्षिणे ॥६॥
राजेन्द्राय नमस्तुभ्यं
जानकीपतये हरे
जानकीपतये हरे
तारकब्रह्मणे तुभ्यं नमो
राजीवलोचन ।
राजीवलोचन ।
रामाय रामचन्द्राय वरेण्याय
सुखात्मने
सुखात्मने
विश्वामित्रप्रियायेदं नमः
खरविदारिणे ॥ ७॥
खरविदारिणे ॥ ७॥
प्रसीद देवदेवेश
भक्तानामभयप्रद
भक्तानामभयप्रद
रक्ष मां करुणासिन्धो
रामचन्द्र नमोsस्तु ते ।
रामचन्द्र नमोsस्तु ते ।
रक्ष मां वेदवचसामप्यगोचर
राघव
राघव
पाहि मां कृपया राम शरणं
त्वामुपैम्यहम्॥८॥
त्वामुपैम्यहम्॥८॥
रघुवीर महामोहमपाकुरु ममाधुना
स्नाने चाचमने भुक्तौ
जाग्रत्स्वप्नसुषुप्तिषु
जाग्रत्स्वप्नसुषुप्तिषु
सर्वावस्थासु सर्वत्र पाहि
मां रघुनन्दन ॥९॥
मां रघुनन्दन ॥९॥
महिमानं तव स्तोतुं कः समर्थो
जगत्त्रये ।
जगत्त्रये ।
त्वमेव त्वन्महत्वं वै जानासि
रघुनन्दन ॥१०॥
रघुनन्दन ॥१०॥
(स्कन्द पुराण ४६/३१-४९)
(contributed by sri DKM Kartha)
(contributed by sri DKM Kartha)
You must log in to post a comment.