६. शास्तापञ्चरत्नम्
लोकवीरं महापूज्यं सर्वरक्षाकरं विभुम् ।
पार्वती हृदयानन्दं शास्तारं प्रणमाम्यहम् ॥ १ ॥
विप्रपूज्यं विश्ववन्द्यं विष्णुशम्भोः प्रियं सुतम् ।
क्षिप्रप्रसादनिरतं शास्तारं प्रणमाम्यहम् ॥ २ ॥
मत्तमातङ्गगमनं कारुण्यामृतपूरितम् ।
सर्वविघ्नहरं देवं शास्तारं प्रणमाम्यहम् ॥ ३ ॥
अस्मत्कुलेश्वरं देवं अस्मच्छत्रुविनाशनम् ।
अस्मदिष्टप्रदातारं शास्तारं प्रणमाम्यहम् ॥ ४ ॥
पाण्ड्येशवंशतिलकं केरले केलिविग्रहम्।
आर्तत्राणपरं देवं शास्तारं प्रणमाम्यहम् ॥ ५ ॥
पञ्चरत्नाख्यमेतद्यो नित्यं शुद्धः पठेन्नरः ।
तस्य प्रसन्नो भगवान् शास्ता वसति मानसे ॥ ६ ॥
***