BHUSTUTI OF VEDANTA DESIKA

                   श्री भूस्तुतिः
   ( श्री
निगमान्तमहादेशिकविरचितम्)
श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी।
वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि॥
सङ्कल्पकल्पलतिकामवधिं क्षमायाः।
स्वेच्छावराहमहिषीं सुलभानुकम्पाम्।
विश्वस्य मातरमकिञ्चनकामधेनुं
विश्वंभरामशरणः शरणं प्रपद्ये॥१॥
त्वं व्याहृतिः प्रथमतः प्रणवः प्रियस्ते
संवेदयत्यखिलमन्त्रगणस्तमेव।
इत्थं प्रतीतविभवामितरेष्विदानीं
स्तोतुं यथावदवने क इवार्हति त्वाम् ॥२॥
नित्यं हिताहित विपर्यय बद्धभावे
त्वद्वीक्षणैकविनिवर्त्य बहुव्यपाये।
मुग्धाक्षरैरखिलधारिणि मोदमाना
मातः स्तनन्धय धियं मयि वर्तयेथाः ॥३॥
सङ्कल्पकिङ्करचराचरचक्रवालं
सर्वातिशायिनमनन्तशयस्य पुंसः।
भूमानमात्मविभवैः पुनरुक्तयन्ती
वाचामभूमिरपि भूमिरसि त्वमेका ॥४॥
वेधस्तृणावधि विहारपरिच्छदं ते
विश्वं चराचरतया व्यतिभिद्यमानम्।
अम्ब त्वदाश्रिततया परिपोषयन्ती
विश्वंभरस्य दयिताऽसि तदेकनामा ॥५॥
सर्वंसहेत्यवनिरित्यचलेति मातः
चिश्वंभरेति विपुलेति वसुन्धरेति।
अन्यानि चान्यविमुखान्यभिधानवृत्त्या
नामान्यमूनि कथयन्ति तवानुभावम् ॥६॥
तापान् क्षिपन् प्रसविता सुमनोगणानां
प्रच्छायशीतलतलः प्रदिशन् फलानि।
त्वत्सङ्गमात्भवति माधवि लब्धपोषः
शाखाशतैरधिगतो हरिचन्दनोऽसौ ॥७॥
स्मेरेणवर्धितरसस्य मुखेन्दुना ते
निस्पन्दतां विजहतो निजया प्रकृत्याः।
विश्रान्तिभूमिरसि तत्त्वतरङ्गपङ्क्तेः
वेलेव विष्णुजलधेरपृथक्भवन्ती ॥८॥
स्वाभाविके वसुमति श्रुतिभिर्विभाव्ये
पत्युर्महिम्नि भवतीं प्रतिपन्न वासाम्।
शङ्के विमानवहनप्रतिमा समानाः
स्तम्बेरमप्रभृतयोऽपि वहन्ति सत्त्वाः ॥९॥
संभावयन्मधुरिपुः प्रणयानुरोधात्
वक्षःस्थलेन वरुणालयराजकन्याम् ।
विशंभरे बहुमुखप्रतिपन्नभोगः
शेषात्मना तु भवतीं शिरसा दधाति ॥१०॥
क्रीडावराहदयिते कृतिनः क्षितीन्द्राः
सङ्क्रन्दनस्तदितरेऽपि दिशामधीशाः।
आमोदयन्ति भुवनान्यलिकाश्रितानां
अम्ब त्वदङ्घ्रिरजसां परिणामभेदैः ॥११॥
भूतेषु यत् त्वदभिमानविशेषपात्रं
पोषं तदेव भजतीति विभावयन्तः।
भूतं प्रभूतगुणपञ्चकमाद्यमेतत्
प्रायो निदर्शनतया प्रतिपादयन्ति॥१२॥
कान्तस्तवैष करुणाजलधिः प्रजानां
आज्ञातिलङ्घनवशादुपजातरोषः।
अह्नाय विश्वजननि क्षमया भवत्या
सर्वावगाहनसहामुपयात्यवस्थाम् ॥१३॥
आश्वासनाय जगतां पुरुषे परस्मिन्
आपन्नरक्षणदशामभिनेतुकामे।
अन्तर्हितेतर गुणादबला स्वभावात्
औदन्वते पयसि मज्जनम्भ्यनैषीः ॥१४॥
पूर्वं वराहवपुषा पुरुषोत्तमेन
प्रीतेन भोगिसदने समुदीक्षितायाः।
पादाहताः प्रलयवारिधयस्तवासन्
उद्वाहमङ्गलविधेरुचिता मृदङ्गाः ॥१५॥
व्योमातिलङ्घिनि विभोः प्रलयाम्बुराशौ
वेशन्त लेश इव मातुमशक्यमूर्तेः।
सद्यः समुद्रवसने सरसैरकार्षीः
आनन्दसागरमपारमपाङ्गपातैः ॥१६॥
दंष्ट्राविदारितमहासुरशोणिताङ्कैः
अङ्गैः प्रियस्तव दधे परिरम्भ लीलाम्।
सा ते पयोधिजलकेलिसमुत्थितायाः
सैरन्ध्रिकेव विदधे नवमङ्गरागम् ॥१७॥
अन्योन्यसंवलनजृंभिततूर्यघोषैः
संवर्तसिन्धुसलिलैर्विहिताभिषेका।
एकातपत्रयसि विश्वमिदं गुणैः स्वैः
अध्यास्य भर्तुरधिकोत्तममंसपीठम् ॥१८॥
भर्तुस्तमालरुचिरे भुजमध्यभागे
पर्यायमौक्तिकवती पृषतैः पयोधेः।
तापानुबन्धशमनी जगतां त्रयाणां
तारापथे स्फुरसि तारकिता निशेव ॥१९॥
आसक्त वासवशरासन पल्लवैस्त्वां
संवृद्धये शुभतटिद्गुणजालरम्यैः।
देवेशदिव्यमहिषीं धृतसिन्धुतोयैः
जीमूतरत्नकलशैरभिषिञ्चति द्यौः॥२०॥
आविर्मदैरमरदन्तिभिरुह्यमानां
रत्नाकरेण रुचिरां रशनागुणेन।
मातस्त्रिलोकजननीं वनमालिनीं त्वां
मायावराहमहिषीमवयन्ति सन्तः ॥२१॥
निष्कण्टकप्रशमयोगनिषेवणीयां
छायाविशेषपरिभूतसमस्ततापाम्।
स्वर्गापवर्गसरणिं भवतीमुशन्ति
स्वच्छन्दसूकरवधूमवधूतपङ्काम् ॥२२॥
गण्डोज्ज्वलां गहनकुन्तलदर्शनीयां
शैलस्तनीं तरलनिर्झरलम्बहाराम्।
श्यामां स्वतस्त्रियुगसूकरगेहिनि त्वं
व्यक्तिं समुद्रवसनामुभयीं बिभर्षि ॥२३॥
निस्संशयैर्निगमसीमनि विष्णुपत्नि
प्रख्यापितं भृगुमुखैर्मुनिभिः प्रतीतैः।
पश्यन्त्यनन्यपरधी रस संस्कृतेन
सन्तस्समाधिनयनेन तवानुभावम् ॥२४॥
सञ्चोदिता करुणया चतुरः पुमर्थान्
व्यातन्वती विविधमन्त्रगणोपगीता।
सञ्चिन्त्यसे वसुमति स्थिरभक्तिबन्धैः
अन्तर्बहिश्च बहुधा प्रणिधानदक्षैः ॥२५॥
क्रीडागृहीत कमलादि विशेषचिह्नां
विश्राणिताभयकरां वसुधे सभूतिम्।
दौर्गत्यदुर्विषविनाशसुधानदीं त्वां
सञ्चितयन् हि लभते धनदाधिकारम्॥२६॥

उद्वेलकल्मषपरम्परितादमर्षात्

उत्तंसितेन हरिमञ्जलिनाऽप्यधृष्यम्।
आकस्मिकोऽयमधिगम्ययति प्रजानां
अम्ब त्वदीय करुणा परिणाम एव ॥२७॥
प्रत्येकमब्दनियुतैरपि दुर्व्यपोहात्
प्राप्ते विपाकसमये जनितानुतापात्।
नित्यापराधनिवहाच्चकितस्य जन्तोः
गन्तुं मुकुन्दचरणौ शरणं क्षमे त्वम् ॥२८॥
त्राणाभिसन्धिसुभगेऽपि सदा मुकुन्दे
संसारतन्त्रवहनेन विलम्बमाने।
रक्षाविधौ तनुभृतामनघानुकम्पा
मातः स्वयं वितनुषे महतीमपेक्षाम्॥२९॥
धर्मद्रुहं सकलदुष्कृतिसार्वभौमं
आत्मानभिज्ञमनुतापलवोज्झितं माम्।
वैतानसूकरपतेश्चरणारविन्दे
सर्वंसहे ननु समर्पयितुं क्षमा त्वम्॥३०॥

तापत्रयीं निरवधिं भवती दयार्द्राः
संसारघर्मजनितां
सपदि क्षिपन्तः।
मातर्भजन्तु मधुरामृतवर्षमैत्रीं
मायावराहदयिते मयि ते कटाक्षाः॥३१॥
पत्युर्दक्षिणपाणिपङ्कजपुटे विन्यस्तपादाम्बुजा
वामं पान्नगसार्वभौमसदृशं पर्यंकयन्ती भुजम्।
पोत्रस्पर्शलसत्कपोलफलका फुल्लारविन्देक्षणा
सा मे पुष्यतु मङ्गलान्यनुदिनं सर्वाणि सर्वंसहा ॥३२॥
अस्येशाना जगत इति या श्रूयते विष्णुपत्नी
तस्याः स्तोत्रं विरचितमिदं वेङ्कटेशेन भक्त्या।
श्रद्धाभक्तिप्रचयगुरुणा चेतसा संस्तुवानः
यद्यद्  काम्यं सपदि लभते तत्र तत्र
प्रतिष्ठाम् ॥३३॥  

Click  here to get to  the Master Index from where you can  access  more than 700 posts

Author Socials Follow me