श्रीभवसोदर्यष्टकम्
( शृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनव-
नृसिंहभारतीस्वामिभिः विरचितम्)
भजतां कल्पलतिका भवभीतिविभञ्जनी।
भ्रमराभकचा भूयाद्भव्याय भवसोदरी ॥१॥
करनिर्जितपाथोजा शरदभ्रनिभाम्बरा।
वरदानरता भूयाद्भव्याय भवसोदरी ॥२॥
काम्या पयोजजनुषा नम्या सुरवरैर्मुहुः।
रम्याब्जवसतिर्भूयाद्भव्याय भवसोदरी ॥३॥
कृष्णादिसुरसंसेव्या कृतान्तभयनाशिनी।
कृपार्द्रहृदया भूयाद्भव्याय भवसोदरी ॥४॥
मेनकादिसमाराध्या शौनकादिमुनिस्तुता।
कनकाभतनुर्भूयाद्भव्याय भवसोदरी ॥५॥
वरदा पदनम्रेभ्यः पारदा भववारिधेः।
नीरदाभकचा भूयाद्भव्याय भवसोदरी ॥६॥
विनताघहरा शीघ्रं विनतातनयार्चिता।
पीनतायुक्कुचा भूयाद्भव्याय भवसोदरी ॥७॥
वीणालसत्पाणिपद्मा काणादमुखशास्त्रदा ।
एणाङ्कशिशुभृद्भूयाद्भव्याय भवसोदरी ॥८॥
अष्टकं भवसोदर्या कष्टनाशकरं द्रुतम्।
इष्टदं संपठञ्छीघ्रमष्टसिद्धिरवाप्नुयात् ॥९॥
इति श्रीभवसोदर्यष्टकं सम्पूर्णम्