श्रीविधिमानसहंसास्तोत्रम्
( शृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनव-
नृसिंहभारतीस्वामिभिः विरचितम्)
पापिषु प्रथमतो गणनीयं पुण्यवज्जनसुदूरगतं माम्।
नागराजमिव पङ्कजचक्षुर्वाणि पाहि विधिमानसहंसे॥१॥
मांसरक्तमलपूर्णशरीरे पूतिगन्धनिलयेऽस्थिवर्ये।
आत्मबुद्धिमचलां दधतं मां वाणि पाहि विधिमानसहंसे॥२॥
मोहलोभमुखरोगविशीर्णं जन्ममृत्युभयतप्तहृदब्जम्।
शान्तिदान्तिमुखमातृविहीनं वानि पाहि विधिमानसहंसे॥३॥
वेदशीर्षपरिशीलनशून्यं पादपद्मनमनेऽप्यलसं ते।
पाणिपङ्कजलसच्छुकबाले वाणि पाहि विधिमानसहंसे॥४॥
इति श्रीविधिमानसहंसास्तोत्रं सम्पूर्णम्
You must log in to post a comment.