NAVARATROTSAVE SRISHARADA STOTRAM (SLOKAs 1-55)

                      श्रीशृङ्गाद्रौ श्रीशारदानवरात्रोत्सवसमये
           श्रीशारदास्तोत्रम् (श्लोकाः १ – ५५)
   ( शृङ्गेरि
श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनव-
         नृसिंहभारतीस्वामिभिः
विरचितः)
रत्नावलीनिर्मितशैलशृङ्गविभ्राजदापूर्णसुधाकराभम्।
आकण्ठरक्तांबरसंवृताङ्ग्या
मुखाम्बुजं भाति जगज्जनन्याः॥१||
आकण्ठमानम्रजनानुरागो
ममेति लोकस्य विबोधनाय
आकण्ठ
रक्तांबरसंवृताङ्गी पद्मोत्थजाया प्रतिभाति नूनम् ॥२॥
एवं
सर्वजगन्त्यप्युत्सङ्गे संनिधाय रक्षामि।
इति
बोधनाय जगतामङ्के बालं दधासि मातस्त्वम्॥३॥
शिशुमिव
पदनतलोकं परिरक्षामीति बोधनायैव।
अङ्के
निधाय बालं भातीयं पङ्कजातभवदयिता॥४॥
स्थालीपुलाकाख्यनयेन
मातर्जगन्ति सर्वाण्यपि पालयामि।
इत्येतदर्थस्य
विबोधनाय बालं निजाङ्के विदधासि किं त्वं ॥५॥
एकमेवाम्बरं
वाणि विरूपं च वदन्ति हि।
नवाम्बराणि
धत्से त्वं सुरूपाणि कथं वद ॥६॥
आकाशवत्सर्वगतश्च
नित्य इत्यादि वेदेऽम्ब किलाम्बरस्य।
प्रत्नत्वमेकत्वमपि
प्रसिद्धं कथं नवत्वं समभूदमुष्मिन् ॥७॥
पुराणवस्त्राणि
न धारयामि नवाम्बराण्येव तु धारयामि।
इति
प्रबोधाय जनस्य नूनं नवाम्बराण्येव दधाति वाणी ॥८॥
भवन्तु
विजरामराः पदसरोजनम्रा इति
  प्रकृष्टदयया
विधेः सखि सरोजतुल्यानने
करस्थकलशामृतं
नतजनाय दातुं स्वयं
   महार्हमणिनिर्मितं
चषकमम्ब धत्से किमु ॥९॥
त्यक्ष्यामि
नैव रागं कालत्रितयेऽपि नम्रवर्गेषु।
इति
बोधनाय वाणी रक्तसुमानां त्रयं धत्ते ॥१०॥
हंसैरेव
परैः सेव्या नाहमन्यैर्जनैरिति।
प्रबोधनकृते
मातर्हंसं वाहं करोषि किम् ॥११॥
हंसे
हि शब्दे किमु मुख्यवृत्त्या स्थिताहमेवेति विबोधनाय।
विभासि
हंसे जगदम्बिके त्वमित्यस्मदीये हृदये विभाति ॥१२॥
हंसोऽप्यहंस
इति बोधमवाप्य मुक्तिं
   प्राप्तः
परस्तव पदाम्बुजसंश्रयाद्यत्।
तस्मात्तवाम्ब
पदयुग्ममयं मुमुक्षु-
   र्हंसः समाश्रयति
वाहनतामवाप्य ॥१३॥
विरिञ्चिहृदयांबुजप्रमददानसूर्यप्रभे
    विचित्रगतिचातुरीप्रथितपादपङ्केरुहे।
करोति
किमयं सदा गमनचातुरीप्राप्तये
  मरालकुलनायकस्तव
पदाब्जसेवां मुदा ॥१४॥
हंसो
बाह्यान्धकारप्रदलनचतुरो ह्यह्नि मोदप्रदायी
    पद्मानामेव मेऽन्तःस्थिततिमिरततेर्वारयित्र्याश्च रात्रौ।
अप्यामोदप्रदात्र्या
नतहृदयसरोजातपङ्क्तेरधस्ता-
    द्भूतो हीत्येव
बोधं रचयितुमिव किं हंसमारोहसीशे ॥१५॥

कर्तुमात्मनि सार्थां किं वृषेन्द्रः पुर एतु नः।

इत्यादिकां
श्रुतिं वाणि पुरस्तात्कुरुषे वृषम् ॥१६॥
वृषभो
वृषभो नो चेत्कथं तव पदाम्बुजम्।
वाणि
सेवितुमर्हः स्यात्तस्माद्वृषभ एव हि ॥१७॥
वृषं
पुरस्तात्कुरुषे किमद्य वृषप्रदानाय नमज्जनेभ्यः।
द्रुतं
पयोजन्मभवप्रमोदपयोधिराकाशशिबिम्बपङ्क्ते॥१८॥
पशुपः
शिवोऽयमिति तं विहाय किं वाक्ततिप्रदामाशु।
पशुतानिवृत्तयेऽयं
वृषभस्त्वां सेवते मातः ॥१९॥

शार्दूलचर्म परिवीक्ष्य भवाङ्गसंस्थं
भीतः
पलाय्य तव सन्निधिमागतः किम्।
उक्षाधिपः
सरसिजासनधर्मपत्नि
ब्रूह्यद्य संशयनिमग्नमतेर्ममाशु॥२०॥
पुनरुपनयनं
पुंसो वृषाधिरोहे न कामिन्याः
दर्शयति
तत्स्त्रियोऽपि हि वृषभारूढा त्रिनेत्रेयम् ॥२१॥
नीलकण्ठस्य
सार्वज्ञ्यमूलं त्वत्पादसेवनम्
इति
संबोधयन्नीलकण्ठस्त्वां सेवते किमु ॥२२॥
शिखी
मुण्डी जटीत्याद्याः सर्वे त्वत्सेवका इति
द्योतनाय
शिखी किं वा मातस्त्वामेव सेवते॥२३॥

निशम्य संप्रेषितवान्मयूरमुद्धर्ष इत्येव पितुष्वसुः किम्।

षडाननो
ब्रूहि गिरां सवित्रि नम्रस्य संदेहयुजो ममाशु ॥२४॥
किं
वर्णयामि तव सुन्दरतां मनुष्यो
    यत्सुन्दरत्वमभिवीक्ष्य
मयूरपक्षी।
हित्वा
विरूप इति षण्मुखमाशु मात-
     र्वासं
करोति तव पादसरोजमूले ॥२५॥
दृष्ट्वा
त्वदीयकचसंततिनीलमेघं
   सर्वर्तुषूदयनमेत्य
मयूर एषः।
नित्यप्रहर्षदतया
विरहासहिष्णु-
    र्नूनं त्वदङ्घ्रिनिकटे
स्थितिमातनोति॥२६॥
के
का न पूजयेयुस्त्वां भुवनेऽस्मिन्महोत्सवे वाणि।
इति
नाम्नैव हि वक्तुं भाति त्वत्संनिधौ केकी ॥२७॥
शिखिसूर्यचन्द्रमुख्यानहमेवास्थाय
पालयामीदम्।
जगदिति
निबोधनार्थं वागीश्वरि भासि शिखिनमास्थाय ॥२८॥
शंभौ
सन्ति शशाङ्कसूर्यशिखिनो नेत्रापदेशात्सदा
  सागर्भ्यं
त इमे निरीक्ष्य गिरिजानाथस्य मातस्त्वयि।
वक्त्रारक्तपटीसुवाहमिषतः
सेवां सदा कुर्वते
   मोदादेव हि
ते न चात्र विशयः कश्चिद्गिरां देवते ॥२९॥
केकातोऽपि
मनोहरेण वचसा त्वन्निर्जितः केक्ययं
   पादाम्भोजयुगं
प्रपन्न इति मच्चित्ते विभात्यम्बिके।
जेतुः
पादयुगप्रपत्तिरथवा देशान्तरावस्थिति-
   र्युक्तं
चान्यतरज्जितस्य विबुधाः प्राहुर्यतो भारति॥३०॥
शिखिवच्छुद्ध
एवेति नाम्नैवाह यतः शिखी।
तस्मात्त्वद्वाहता
चास्य युक्तैव विधिवल्लभे ॥३१॥
मुक्ताहारमिमं
जगज्जननि ते शुभ्राहिबुद्ध्या किमु।
  ग्रीवास्थं
ह्यहमग्रहीद्भुजगभुग्भोक्तुं ततो लब्धधीः।
नायं
सर्प इति स्वमोहमधुनापह्नोतुमेवात्यज-
   न्नैवालंकृतिलक्ष्यतः
परमहो धत्ते बुधः पूर्ववत्॥३२॥
आद्या
मत्स्यमयी तनुर्मधुरिपोः कौर्मं द्वितीयं वपु-
  स्तद्युग्मं
त्वमिहाम्ब नेत्रपदयोर्व्याजेन धत्से यतः।
तस्माच्चक्रयुगं
तवोरसि कुचव्याजेन भात्यम्बिके
  तस्मादेव
खगेश्वरश्च सततं त्वां सेवते मोदतः ॥३३॥
विष्णौ
वीक्ष्य जडाधिवासमथ च स्वाऽमित्रशायित्वम-
   प्यण्डोद्भूतपतिर्विहाय
तमिमं विज्ञानरूपामयम्।
त्वामेवाद्य
निषेवते खलु मुदा  वाग्देवि
युक्तं च त-
   त्को वा शत्रुसहासिकां
हि सहते लोकेषु  विद्वज्जनः
॥३४॥
भूताकाशचरेट्त्वमेव
भुवने सिद्धं हि का तेन मे
  वृद्धिश्चाभवदित्यवेत्य
खगराण्णूनं गिरां देवते।
हार्दाकाशचराधिपत्यमपि
मे भूयादितीच्छावशा-
त्तत्प्राप्त्यै
तव पादपङ्कजयुगीसेवां करोत्यादरात् ॥३५॥
विनतातनूद्भवत्वं
प्रकटं प्रभवेद्विनत्यैव।
इति
बुद्ध्या खगराट् किं विनतस्त्वत्पादपद्मयोर्वाणि॥३६॥
मानसविहरण्शीलां
देवीं त्यक्त्वान्यदेवतासेवा।
नैवोचितेति
खगराट्वहति त्वां तादृशीं नूनम् ॥३७॥
सुवर्णनीकाश
भवत्प्रतीकककान्तेः परिष्वङ्गत एव सार्था।
सुवर्णतेत्यात्मन
आकलय्य खगेट् करोत्यम्ब तवाङ्घ्रिसेव्घ्रिसेवाम् ॥३८॥
   
आगत्य
कालाहिधिया हि वेणीं ग्रहीतुकामः खगराण्णिरीक्ष्य।
निह्नोतुमिच्छत्ययमम्ब
नैजां भ्रान्तिं त्वदङ्घ्रेः परिसेवनात्किम् ॥३९॥
लोके
ह्येकः पक्षः शुक्लश्चान्यश्च कृष्ण एवेह।
द्वावपि
शुक्लौ पक्षौ धत्ते गरुडः किमम्ब तव वाहः ॥४०॥
हस्तान्तरस्थपरशुं
शंभोर्भूषार्थमागतान्नागान्।
दृष्ट्वा
भीतो हरिणश्चरणं शरणं जगाम तव वाणि ॥४१॥
धत्ते
कुरङ्गं विधुरेष पूर्णो मदास्य चन्द्रस्तमधःकरोति।
इत्येतयोर्भेदविबोधनाय
कुरङ्गमम्ब त्वमधः करोषि ॥४२॥
समाश्रयेयं
यदि पुष्करस्थमब्जं तदा स्यात्पतनं हि दर्शे।
ममेति
मत्वा मृगशाबकोऽयं पदाब्जमेवाश्रयते तवाम्ब ॥४३॥
शुक्लादौ
शशिनं स्वकीयशरणं पूर्णं विचिन्वन्मृगो
     वाण्यास्यं
तव वीक्ष्य हृष्टहृदयः पूर्णो मया चन्द्रमाः।
प्राप्तश्चेति
तवाङ्घ्रिसंनिधिमसावागत्य वेगात्ततो
     नास्मिन्नस्ति
ममावकाश इति किं तिष्ठत्ययं भारति॥४४॥
पुरा
तव पदाम्बुजं हरिण एष संपूज्य यो
   जगत्प्रभुशिरःस्थिते
शशिनि संस्थितिं प्राप्तवान् ।
किमद्य
हृदिसंस्मरंस्तव पदाब्जसेवाफलं
   महोत्सवदिदृक्षया
चरण्संनिधिं प्राप्तवान् ॥४५॥
पिबेयुरपि
मां सुरा यदि वसामि चन्द्रे तदे-
  त्यऽपायरहितं
पदं जिगमिषुश्चिरं संचरन्।
अपायवचनोज्झितं
तव पदाब्जयोरन्तरं
  विलोक्य मृगशाबको
वसति तत्र वाग्देवि किम् ॥४६॥
भक्ताज्ञानमहेभा
मद्वाहनसंनिरीक्षणादेव।
निर्यान्त्विति
सहसा किं सिंहं वाहं करोषि मातस्त्वम्॥४७॥
लालयति
वाणि  किं त्वां
पञ्चास्यः स्कन्धमारोप्य।
युक्तमिदं
भ्रातॄणां सोदर्या लालनं लोके ॥४८॥
विष्ण्वर्धत्वात्पालकत्वं
ममास्ते संहर्तृत्वं नैजमेवास्ति किं तु।
स्रष्टुर्भावो
वाणि नास्तीति मत्वा तत्प्राप्त्यै त्वां  सेवते पञ्चवक्त्रः ॥४९॥
तवाम्बराभावशशीयशृङ्गनीकाशमध्यत्वमयं
निशम्य।
वलग्नकार्श्याध्ययनाय
किं वा पदाब्जसेवां विदधाति सिंहः ॥५०॥
नताय
पादाम्बुजयोर्जनाय राजाधिराजत्वविधित्सया किम्।
सिंहासनं
त्वं वद दातुमम्ब सिंहं सदा संनिधिगं करोषि ॥५१॥
वने
जातः सिंहः पुनरपि दरीवासनिरतः
    स्वसाम्यं
यत्र स्यात्सततवसतिं तत्परिसरे।
चिकीर्षन्भ्रान्त्वा
किं तव पदवनेजेनतमनो
    गुहावासे
दृष्ट्वा वसतिमकरोत्तत्परिसरे ॥५२॥
   
नाथस्यापि
ममानिवेद्य हरिणः सेवां कथं प्रातनो-
  वाग्देव्याश्चरणाब्जयोरिति
रुषा सारङ्गबालं भृशम्।
कृत्वा
शीघ्रपलायनोत्स्ववपरं सेवां  करोत्यादरा-
   दृश्येशः
स्वयमित्यवैमि करुणावारांनिधे शारदे ॥५३॥
कृत्वा
शीघ्रपलायनोत्सवपरं सेवां करोत्यादरा-
   दृश्येशः
स्वयमित्यवैमि करुणावारांनिधे शारदे।
कुरङ्गवेगस्तव
दृष्टपूर्वस्तुरङ्गवेगं परिपश्य वाणि
   इतीव गर्वादधिगम्य
मातस्तुरंगमस्त्वां परिसेवते किम्॥५४॥
तुरंगवच्चञ्चलमम्ब
चित्तं बद्ध्वा दृढं भक्तिगुणेन शीघ्रम्।
स्थिरं
करोमीति गुणैस्तुरङ्गं नियम्य किं बोधयसे जनांस्त्वम् ॥५५॥

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

This site uses Akismet to reduce spam. Learn how your comment data is processed.