RAGHAVENDRA VIJAYAM – CHAPTER 3

                                             श्रीराघवेन्द्रविजयः
                तृतीयः सर्गः
        (विद्वत्कुलावतंसैः महाकविभिः श्रीमन्नारायणार्यैर्विरचिता)
अवनं
सवनादिसत्क्रियाणामवनीदानववैरिणां निदानम्।
भवति
स्म मुनीशिता गुणानामवलम्बो भुवि गौतमाभिधानः ॥१॥
प्रकृतिः
परदेवताप्रपत्तिप्रभृतीनां करणेन सद्गुणानाम्।
प्रथितव्रततापसव्रजानां
विकृतीनां सगुणेव निर्गुणेष्ट्याः ॥२॥
अकृतासुरसार्थमोहनार्थं
नयशास्त्रं स तु पञ्चलक्षणात्म।
मुहुरागमभेदकृन्मुनीन्दोरवतारस्य
निमित्ततामयासीत्॥३॥
अधरीकृतलेखपाललोके
बहुमुक्ताफलभाजि साधुवृत्ते।
अभवन्नविभाविताग्रभागे
मुनिवंशे वसुधासुधाशनेशाः ॥४॥
जनकोपमकन्यकेऽन्वयेऽस्मिन्निजताताधिकनन्दनो
गुणौघैः ।
अनुजातसमानपूर्वजातेऽभवदेको
भुवि कृष्णनामधाम ॥५॥
स दधार
धरोदरे प्रसिद्धा निरवद्या विविधा द्विजातिविद्याः ।
स बभूव
च वैणिको यथार्थां निजविद्याधरतां विधातुकामः॥६।।
उपदिश्य
स कृष्णभूबलारेर्निजगान्धर्वकलां कलामगृह्णात्|
घनमौक्तिकगुच्छहारपूर्वां
बिरुदालिं गुरुदक्षिणाऽपदेशात् ॥७॥
गुरुवारिधिराविरास
विद्याचणकृष्णार्यमहीसुराधिनेतुः।
कनकाचलनामपुण्यनामा
कनकोर्वीभृदिवापरोऽतिधीरः ॥८॥
उदभूदधिभूतलं
द्विजेन्द्रादधिभूरागममौलितन्त्रभाजाम्।
अवदन्
किल तिम्मणार्यमार्यास्सुहृदो वेङ्कटशैलनाथनाथम्॥९॥
अधिकृत्य
स बाल्य एव शास्त्राण्यधिकं वैणिकवर्ण्यगानविद्याः।
नगरं
विजयाख्यमध्यतिष्ठज्जननीतातसुहृज्जनाधिवासम् ॥१०॥
स्मृतिवन्निगमस्य
पद्मिनीवद्दिननाथस्य मुनेररुन्धतीवत्।
रजनीसुहृदः
कुमुद्वतीवन्महिला तस्य ललास गोपिकाम्बा ॥११॥
अभजन्नृपतेर्दिनप्रदीपं
स तु विष्वक्प्रबलप्रतापरश्मिम्।
दिनमण्यनुवर्तितस्य
शान्त्यै स्वसमानेतरवाक्तमिस्रराशेः॥१२॥
ध्रुवमेष
दिनप्रदीपमागादहिताकीर्तितमोगुणप्रमायै।
गुणिनः
सकलस्य बाह्यतेजोयुतचक्षुर्विषयत्वमादधानः ॥१३॥
यजनादिमनैजकर्म
कुर्वन् द्विजवर्यो नगरे चिरं न्यवात्सीत्।
रमणीमणिगोपिकाम्बयाऽसौ
सहितश्चन्द्रिकया सहेव चन्द्रः ॥१४॥
नगरान्निरगान्नरेन्द्रयोग्यात्
सहजायः ससुहृज्जनोऽसुखी सः।
अखिलार्थितदानदक्षशेषाचलभूषामणिदेवतां
दिदृक्षुः ॥१५॥
तनुजानतुलानवाप्तुकामौ
तपसा तोषयतः स्म दम्पती तौ।
निजवंशजवन्दनीयदेवं
परयाऽपत्यसुखं कथं जनानाम् ॥१६॥
अथ
तुण्डिरमण्डलेऽग्रहारे लसिते पट्टणनाम्नि वासयोग्ये।
कमलारमणं
प्रसाद्य कान्तामिलितः कानपि वत्सराननैषीत्॥१७॥
सुषुवे
सुगुणां सुतां सुवेषां  गुणसिन्धुं तनयञ्च गोपिकाम्बा।
अचिरेण
जनिष्यमाणसूनोरतुलां कीर्तिमिव क्रमात्प्रतापम् ॥१८॥
कुलदैवतदैशिकप्रसादात्प्रभवापत्यपुरस्सरोऽतुलश्रीः।

चकार च वेङ्कटाम्बिकाख्यां स्वसुताया गुरुराजनाम सूनोः॥१९॥
मिलितौ
खलु दर्शपूर्णमासौ फलदौ तद्वदसौ सुतोऽसहायः।

सुखाय भवेदितीव सोऽयं प्रभुमन्यं सुतमर्थयाम्बभूवे ॥२०॥
महिदासमिवेतरा
महान्तं  हरिदिन्दुं च यथैव पौरुहूती।
उरुशेवधिमुर्वरेव
तस्मादुदरेऽधत्त कुमारमुत्पलाक्षी ॥२१॥
शशनाथकला
किमब्धिवेला निजभर्तुः फलिता नु पुण्यरेखा।
किमु
साकृतिरागतास्य कीर्तिर्धृतमूर्तिः किमु कौमुदी किमेषा ॥२२॥
उदरस्थसुतेन्दुचन्द्रिकायां
विततायामखिलाङ्गपाण्डुतायाम्।
सहितौ
सुतनोरुरोजचक्राविति चित्रं न तपोनिधिर्यदन्तः ॥२३॥
तनुशायिशिशोर्विरागता
किं वितताऽङ्गेषु विशाललोचनायाः।
परथा
सततं हिते तरुण्या रुचिते वस्तुनि किंतरां विरागः ॥२४॥

परं सदृशं प्रसन्नताद्यैर्धवलिम्नाऽपि तदाननं सुधांशोः।
अकलङ्कतयाऽवनौ
प्रसिद्धं सकलङ्केन कथं समत्वमेति ॥२५॥
कृशताऽजनि
याऽवलग्नदेशे ववृधेऽङ्गे कतिचिद्दिनान्यशेषे।
वशतां
न हि याति मध्यसंस्थाप्युपचारेण विना घनाश्रिताऽल्पा॥२६॥
कमितुः
किमु मोहनाय कामं
  कृतकामौ कठिनौ कुचौ तदीयौ।
निजचूचुकनीलिमाऽपदेशाद-
  चिरोपात्ततमोगुणावभूताम् ॥२७॥
सभयो
विधुरेष सैंहिकेयात्स्वमपह्नुत्य निगूहितुं प्रवृत्तः।
निजलक्ष्म
निरस्य रोमराजिं निभृतो गर्भमुपेयिवानमुष्याः ॥२८॥

ततनाभिनिभालवालमध्यादुदयद्रोमलताऽऽख्यकल्पशाखी।
फलितोऽजनि किं पयोधराभ्यामुदयच्चूचुकनैल्यभृङ्गभाग्भ्याम् ॥२९॥

कुचयोर्युगलं
कुलाद्रिसारं कथमेषा तु बभार गर्भकाले।
इति
विस्मयिता कुतः कवीनां फलिनीं चिन्तयतां सुरद्रुशाखाम्॥३०॥
तनयाभ्युदयादृणत्रयस्याप्यपनोदं
कमितुर्विधातुमस्याः।
पुरतोऽकृत
तस्य लक्ष्मरेखास्त्रिवलीरब्जभवो निरस्तरूपाः ॥३१॥
विमतं
निखिलं च दृश्याभावाद्भविता सत्यमितीदृशानुमाने।
अधिमध्यमपास्य
हेत्वसिद्धिं प्रथिमा कोऽपि शनैश्शनैर्जजृम्भे ॥३२॥
उदरे
सुतनोरचाक्षुषत्वं शुभरूपे महति प्रवेशहीनम्।
विहितं
त्रिवलाविवैतदङ्गे पशुयूपे यदरत्निसाप्तदश्यम् ॥३३॥
उदरस्थशिशोरुदेष्यतः
स्याद्वसने लोहितमृत्तिकाऽनुरागः।
इति
तद्घटनाय किं नु शोणां मृदमासेवत सादरं मृगाक्षी॥३४॥
द्युनदीं
यमुना विजेतुकामा कुरलालिच्छलतो नु कोमलाङ्ग्याः।
कुचमेरुयुगान्निपत्य
रोमावलिदम्भादगमच्च मध्यदेशम् ॥३५॥
वसुधासुरवासवस्य
गर्भे कृतवासस्य नतभ्रुवोऽर्भकस्य।
अजनिष्ट
मनोरथोऽनुरूपः क्रमशः प्राप्तवति द्वितीयमासे ॥३६॥
भवने
भुवनं कृशानुतप्तं परिकॢप्तं नवशातकुम्भकुम्भैः।
अपहाय
नदीपयो हिमानीधवलं केवलमैच्छदच्छबुद्धिः ॥३७॥
रसनानयनान्तरङ्गरम्यं
भवने भोजनसाधनं विसृज्य।
परकीयगृहादुपाहृतं
तद्रुचिरं वाऽप्यरुचि वाप्यभुंक्त सैषा ॥३८॥
विदुषी
विविधाः कथा वितेने विहगाधीश्वरवाहनाह्वयाङ्काः।
वदति
स्म वदावदाऽबलानां वसति स्मासन एव सन्ततं सा ॥३९॥
पदमेकमलक्तकैर्नहीनं
पदमेषा विदधाति नाङ्गणेषु।
विविधानि
विसृज्य पूर्वसन्ध्यासमरागाणि सदाऽम्बराणि वष्टि॥४०॥

कदाचन शोभनेऽह्नि सूनो-
 र्विदधे पुंसवनच्छलेन भुक्तिम्।
पटपक्वफलेन
गर्भभाजोऽ–
   जनि शिष्टोऽस्य भवेदितीव धर्मः ॥४१॥
असविष्ट
सुतं द्विजेन्द्रपत्नी शुभलग्ने परिपूर्णदृष्टिभाजि।
अखिलद्विजराजवन्दनीयं
द्विजराजं दिगिवामराधिपस्य ॥४२॥
सहितात्मजजन्मवाक्सुधाब्धेस्सरितोऽसौ
सलिले ममज्ज विप्रः।
द्विजवन्द्यमहोदये
पितॄणामृणपङ्काम्बुनिधेस्तदोन्ममज्ज ॥४३
भुवनेऽस्य
समोऽर्भकस्य दृष्टो न मयेतीव वदन् स्वहेतिहस्तात्   
परितो
वलतस्तुरीयधर्मे हविरादाज्जनकार्पितं हुताशः ॥४४॥
प्रददौ
बहु कर्मधा रयेण
  स्वबहुव्रीहिमुपाददेऽक्षताख्यान्।

तु तत्पुरुषैः पुनर्वितीर्णान्
 रचितद्वन्द्वफलान् धृताव्ययत्वान्
॥४५॥
अचिरात्कृतमज्जनोऽतिशुभ्रः
सहसापास्तरजस्तमोगुणोऽयम्।
कथमिन्दुसमोऽन्यथेति
कान्तानिकरो वर्णयति स्म सूतिकान्तः ॥४६॥
सहजो
हि गुणो मदीयमञ्जुद्विजसंसेवनमस्य मे पदस्य।
इति
दर्शयता पदं निजास्ये मणीडोलामधिशायिना कृतं किं ॥४७॥
उदयास्तपटीरहेमपृथ्वीधरपर्यन्तधराचरैर्जनोघैः।
अभिवन्द्य
इतीव बालकस्य व्यतनोद्वेङ्कटनाथनाम तातः ॥४८॥
घटते
तनयेऽभिधा तदंशे गुणवृध्यर्थमनूक्तिसिद्धये च।
अतिदेशकृते
हरेर्गुणानां विवदन्ते खलु जैमिनीय शौण्डाः ॥४९॥
अधिसद्मतलं
सुतस्य मूर्त्या स्फुटमङ्गीकृतजानुचंक्रमस्य।
चतुरांघ्रिवृषाकृतेः
कदाचित्सुरभेराकृतिरेकदाऽन्वकारि ॥५०॥
तनयस्य
नवप्रवालवल्लीलसदंगुष्ठविराजिताननाब्जम्।
हृदयाम्बुजमन्तरात्मगर्भं
प्रकटं दर्शयतीव सज्जनानाम् ॥५१॥
विदधन्नवनौ
निसर्गरक्तं प्रतिलीलं मुहुरुत्पतन्पतन्सः।
लसति
स्म करिष्यमाणलक्ष्मीपापतिपादानतिशीलनाय वैषः॥५२॥
बहिरङ्गणसीम्नि
केलिभाजस्तनुलग्ना रजसां रराज राजिः।
जगदात्मविकारसूक्ष्मरूपा
प्रकृतिर्विष्णुगतेव दृष्टियोग्या ॥५३॥
महनीयगुणः
स मासि षष्ष्ठे सुतमन्नाशननामधर्मवन्तम्।
अतनिष्ट
ततस्तृतीयवर्षे चतुरस्यास्य चकार चौलकर्म ॥५४॥
विलिख्य
भूमौ प्रथमं कुमारं रेखामिमामोमिति सम्पठेति।
पित्रा
नियुक्तः पुनरब्रवीत्तमल्पे कथं सा गुणपूर्णसंज्ञा ॥५५॥
इति
वदन्तमवेक्ष्य सुहृज्जनाः श्रुतिशिरोदृढवासनमानसम्।
कथमयं
शिशुरीदृशवाक्पिता सुकृतवानिति विस्मयिनोऽभवन् ॥५६॥
तनूजामष्टाब्दां
ससहजयुगां काव्यकुशलां
     सुभद्रां भद्राङ्गीमिव मुसलिकंसारिसहिताम्।

दद्यां कस्मैचिद्विदितकुलसञ्जातविदुषे
     चकारेत्थं बुद्धिं तनयवदनालोकमुदितः
॥५७॥
श्रीमत्कश्यपवंशवार्धिशशिनः षड्दर्शनीवल्लभ-
श्रीलक्ष्मीनरसिंहवित्तविदुषः श्रीवेङ्कटाम्बामणौ।
जातेनाऽर्यदयासुधामयगिरा नारायणेनोदिते
काव्ये चारुणि राघवेन्द्रविजये सर्गस्तृतीयोऽभवत् ॥२१॥

Author Socials Follow me