आर्तिहरस्तोत्रम्
(श्री श्रीधरवेङ्कटाचार्यरचितम्)
श्रीशंभो! मयि करुणाशिशिरां दृष्टिं दिशन् सुधावृष्टिम्।
सन्तापमपाकुरु मे मन्ता परमेश! तव दयायास्स्याम्॥१॥
अवसीदामि यदार्तिभिरनुगुणमिदमोकसोंऽहसां खलु मे।
तव सन्नवसीदामि यदन्तकशासन! न तत्तवानुगुणम्॥२॥
देव! स्मरन्ति तव ये तेषां स्मरतोऽपि नार्तिरिति कीर्तिम्।
कलयसि शिव! पाहीति क्रन्दन् सीदाम्यहं किमुचितमिदम्॥३॥
आदिश्याघकृतौ मामन्तर्यामिन्नसावघात्मेति।
आर्तिषु मज्जयसे मां किं ब्रूयां कृपैकपात्रमहम्॥४॥
मन्दाग्रणीरहं तव मयि करुणां घटयितुं विभो! नालम्।
आक्रष्टुं तान्तु बलादलमिह मद्दैन्यमिति समाश्वसिमि॥५॥
त्वं सर्वज्ञोऽहं पुनरज्ञोऽनीशोऽहमीश्वरस्त्वमसि।
त्वं मयि दोषान् गणयसि किं कथये तुदति किं दया न त्वाम्॥६॥
आश्रितमार्ततरं मामुपेक्षसे किमिति शिव! न किं दयसे।
श्रितगोप्ता दीनार्तिहृदिति खलु शंसन्ति जगति सन्तस्त्वाम्॥७॥
प्रहराहरेति वादी भणितमदाख्य इति पालितो भवता।
शिव! पाहीति वदोऽहं श्रितो न किं त्वां कथं न पाल्यस्ते॥८॥
शरणं व्रज शिवमार्तीस्स तव हरेदिति सतां गिराऽहं त्वाम्।
शरणं गतोऽस्मि पालय खलमपि तेष्वीश पक्षपातान्माम्॥९॥
ARTIHARA STOTRAM (ON LORD SHIVA)
Respected Sir,
Can I have an english translation of this sloka ? Grateful to have it. Regards, RADHA