शङ्कराष्टकम्

हे वामदेव शिवशङ्कर दीनबन्धो काशीपते पशुपते पशुपाशनाशिन् ।
हे विश्वनाथ भवबीज जनार्तिहारिन् संसारदुःखगहनाज्जगदीश रक्ष ॥१॥

हे भक्तवत्सल सदाशिव हे महेश हे विश्वतात जगदाश्रय हे पुरारे ।
गौरीपते मम पते मम प्राणनाथ संसारदुःखगहनाज्जगदीश रक्ष ॥२॥

हे दुःखभञ्जक विभो गिरिजेश शूलिन् हे वेदशास्त्रविनिवेद्य जनैकबन्धो ।
हे व्योमकेश भुवनेश जगद्विशिष्ट संसारदुःखगहनाज्जगदीश रक्ष ॥३॥

हे धूर्जटे गिरिश हे गिरिजार्धदेह हे सर्वभूतजनक प्रमथेश देव ।
हे सर्वदेवपरिपूजितपादपद्म संसारदुःखगहनाज्जगदीश रक्ष ॥४॥

हे देवदेव वृषभध्वज नन्दिकेश कालीपते गणपते गजचर्मवासः ।
हे पार्वतीश परमेश्वर रक्ष शंभो संसारदुःखगहनाज्जगदीश रक्ष ॥५॥

हे वीरभद्र भववैद्य पिनाकपाणे हे नीलकण्ठ मदनान्त शिवाकलत्र ।
वाराणसीपुरपते भवभीतिहारिन् संसारदुःखगहनाज्जगदीश रक्ष ॥६॥

हे कालकाल मृड शर्व सदासहाय हे भूतनाथ भवबाधक हे त्रिनेत्र ।
हे यज्ञशासक यमान्तक योगिवन्द्य संसारदुःखगहनाज्जगदीश रक्ष ॥७॥

हे वेदवेद्य शशिशेखर हे दयाळो हे सर्वभूतप्रतिपालक शूलपाणे ।
हे चन्द्रसूर्य शिखिनेत्र चिदेकरूप संसारदुःखगहनाज्जगदीश रक्ष ॥८॥

श्रीशङ्कराष्टकमिदं योगानन्देन निर्मितम् ।
सायं प्रातः पठेन्नित्यं सर्वपापविनाशकम् ॥९॥

इति श्रीयोगानन्दतीर्थविरचितं शङ्कराष्टकं संपूर्णम् ॥

SHIVAMEEDE STAVARATNAM

                                 शिवमीडेस्तवरत्नम्
स्वप्रकाशशिवरूपसद्गुरुं निष्प्रकाशजडचैत्यभासकम्।
अप्रमेयसुगुणामृतालयं संस्मरामि हृदि नित्यमद्भुतम्॥१॥
यः क्रीडार्थं विश्वमशेषं निजशक्त्या
   सृष्ट्वा स्वस्मिन्
क्रीडति देवोऽप्यनवद्यः।
निस्त्रैगुण्यो मायिकभूमिव्यतिरिक्तः
   तं सर्वाघध्वंसकमाद्यं
शिवमीडे ॥२॥
एको देवो भाति तरङ्गेष्विव भानुः
  नानाभूतेष्वात्मसु
सर्वेष्वपि नित्यम्।
शुद्धो बुद्धो निर्मलरूपो निरवद्यः
  तं सर्वाघध्वंसकमाद्यं
शिवमीडे ॥३॥
देवाधीशं सर्ववरेण्यं हृदयाब्जे
नित्यं ध्यात्वा योगिवरा यं दृढभक्त्या।
शुद्धा भूत्वा यान्ति भवाब्धिं न पुनस्ते
तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥४॥
श्रौतैः स्मार्तैः कर्मशतैश्चापि य ईशो
  दुर्विज्ञेयः कल्पशतं
तैर्जडरूपैः।
संविद्रूपस्त्वैकविचारादधिगम्यः
   तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥५॥
कर्माध्यक्षः कामिजनानां फलदाता
   कर्तृत्वाहंकारविमुक्तो
निरपेक्षः।
देहातीतो दृश्यविविक्तो जगदीशः
    तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥६॥
नान्तर्बाह्यो नोभयतो वा प्रविभक्तं
   यं सर्वज्ञं नापि
समर्थो निगमादिः
तत्त्वातीतं तत्पदलक्ष्यं गुरुगम्यं
    तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥७॥
यद्भासार्को भाति हिमांशुर्दहनो वा
  दृश्यैर्भास्यैर्यो
न च भाति प्रियरूपः।
यस्माद् भाति व्यष्टिसमष्ट्यात्मकमेतत्
  तं सर्वाघध्वंसकमाद्यं
शिवमीडे ॥८॥
आशादेशाद्यव्यवधानो विभुरेकः
   सर्वाधारः सर्वनियन्ता
परमात्मा।
पूर्णानन्दः सत्त्ववतां यो हृदि देवः
    तं सर्वाघध्वंसकमाद्यं
शिवमीडे ॥९॥
कोऽहं देवः किं जगदेतत् प्रविचाराद्
   दृश्यं सर्वं नश्वररूपं
गुरुवाक्यात्।
सिद्धे चैवं यः खलु शेषः प्रतिपन्नः
   तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥१०॥
सत्यं ज्ञानं ब्रह्म सुखं यं प्रणवान्तं
   सर्वस्फूर्तिः
शाश्वतरूपस्त्विति वेदः।
जल्पन्त्येवं स्वच्छधियोऽपि प्रभुमेकं  
    तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥११॥
यस्माद्भीतो वाति च वायुस्त्रिपुरेषु
   ब्रह्मेन्द्राद्यास्ते  निजकर्मस्वनुबद्धाः।
चन्द्रादित्यौ लोकसमूहे प्रचरन्तौ
    तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥१२॥
मायाकार्यं जन्म च नाशः पुरजेतुः
  नास्ति द्वन्द्वं
नाम च रूपं श्रुतिवाक्यात्।
निर्णीतार्थो नित्यविमुक्तो निरपायः
     तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥१३॥
 नायं देहो नेन्द्रियवर्गो
न च वायुः
   नेदं दृश्यं जात्यभिमानो न च बुद्धिः।
 इत्थं श्रुत्या गुरुवाक्यात्
प्रतिलब्धः
      तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥१४॥
स्थूलं सूक्ष्मं क्षाममनेकं न च दीर्घं
  ह्रस्वं शुक्लं
कृष्णमखण्डोऽव्ययरूपः।
प्रत्यक्साक्षी यः परतेजाः प्रणवान्तः
   तं सर्वाघध्वंसकमाद्यं
शिवमीडे ॥१५॥
यत्सौख्याब्धेर्लेशकणांशोः सुरमर्त्या-
   स्तिर्यञ्चोऽपि
स्थावरभेदाः प्रभवन्ति।
तत्तत्कार्यप्राभववन्तः सुखिनस्ते
    तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥१६॥
यस्मिन् ज्ञाते ज्ञातमशेषं भुवनं स्याद्
  यस्मिन् दृष्टे
भेदसमूहो लयमेति।
यस्मिन्मृत्युर्नास्ति च शोको भवपाशाः
   तं सर्वाघध्वंसकमाद्यं
शिवमीडे ॥१७॥
द्यां मूर्धानं यस्य वदन्ति श्रुतयस्ताः
  चन्द्रादित्यौ नेत्रयुगं
ज्यां पदयुग्मम्।
आशां श्रोत्रं लोमसमूहं तरुवल्लीः
 तं सर्वाघध्वंसकमाद्यं
शिवमीडे ॥१८॥
प्राणायामैः पूतधियो यं प्रणवान्तं
  संधायात्मन्यव्यपदेश्यं
निजबोधम्।
जीवन्मुक्ताः सन्ति दिशासु प्रचरन्तः
   तं सर्वाघध्वंसकमाद्यं
शिवमीडे ॥१९॥
यच्छ्रोतव्यं श्रौतगिरा श्रीगुरुवाक्याद्
   यन्मन्तव्यं स्वात्मसुखार्थं
पुरुषाणाम्।
यद् ध्यातव्यं सत्यमखण्डं निरवद्यं
   तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥२०॥
यं जिज्ञासुः सद्गुरुमूर्तिं द्विजवर्यं
   नित्यानन्दं तं फलपाणिः समुपैति।
भक्तिश्रद्धादान्तिविशिष्टो धृतियुक्तः
    तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥२१॥
पृथ्व्यम्ब्वग्निस्पर्शनखानि प्रविलाप्य
   स्वस्मिन् मत्या
धारणया वा प्रणवेन।
यच्छिष्टं तद् ब्रह्म भवामीत्यनुभूतं
    तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥२२॥
लीने चित्ते भाति च एको निखिलेषु
   प्रत्यग्दृष्ट्या
स्थावरजन्तुष्वपि नित्यम्।
सत्यासत्ये सत्यमभूच्च व्यतिरेकात्
    तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥२३॥
चेतः साक्षी प्रत्यगभिन्नो विभुरेकः
   प्रज्ञानात्मा
विश्वभुगादिव्यतिरिक्तः।
सत्यज्ञानानन्दसुधाब्धिः परिपूर्णः
    तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥२४॥
सर्वे कामा यस्य विलीनाः हृदि संस्थाः
     तस्योदेति ब्रह्मरविर्यो
हृदि तत्र।
विद्याविद्या नास्ति परे च श्रुतिवाक्यात्
    तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥२५॥
स  त्यागेशः सर्वगुहान्तः
परिपूर्णो
  वक्ता श्रोता वेदपुराणप्रतिपाद्य:।
इत्थं बुद्धौ ज्ञानमखण्डं स्फुरदास्ते
   तं सर्वाघध्वंसकमाद्यं
शिवमीडे ॥२६||
नित्यं भक्त्या यः पठतीदं स्तवरत्नं
  तस्याविद्या जन्म
च नाशो लयमेतु।
किं चात्मानं पश्यतु सत्यं निजबोधं
   सर्वान् कामान्
स्वं लभतां स प्रियरूपम्॥२७॥
॥इत्यानन्दनाथपादपद्मोपजीविना काश्यपगोत्रोत्पन्नेनान्ध्रेण

   त्यागराजनाम्ना विरचितं शिवेमीडेस्तवरत्नं संपूर्णम्॥ 

SHONADRINATHA ASHTAKAM

          शोणाद्रिनाथाष्टकम्
शिवाय रुद्राय शिवाऽर्चिताय
   महानुभावाय महेश्वराय।
सोमाय सूक्ष्माय सुरेश्वराय।
  शोणाद्रिनाथाय नमः शिवाय॥१॥
दिक्पालनाथाय विभावनाय
   चन्द्रार्धचूडाय
सनातनाय।
संसारदुःखार्णवतारणाय
    शोणाद्रिनाथाय
नमः शिवाय॥२॥
जगन्निवासाय जगद्धिताय
   सेनानिनाथाय जयप्रदाय।
पूर्णाय पुण्याय पुरातनाय
     शोणाद्रिनाथाय
नमः शिवाय॥३॥
वागीशवन्द्याय वरप्रदाय
   उमार्धदेहाय गणेश्वराय।
चन्द्रार्कवैश्वानरलोचनाय
     शोणाद्रिनाथाय
नमः शिवाय॥४॥
रथाधिरूढाय रसाधराय
  वेदाश्वयुक्ताय
विधिस्तुताय।
चन्द्रार्कचक्राय शशिप्रभाय
  शोणाद्रिनाथाय नमः शिवाय ॥५॥
विरिञ्चिसारथ्यविराजिताय
   गिरीन्द्रचापाय
गिरीश्वराय।
फालाग्निनेत्राय फणीश्वराय
     शोणाद्रिनाथाय
नमः शिवाय ॥६॥
गोविन्दबाणाय गुणत्रयाय
  विश्वस्य नाथाय
वृषध्वजाय।
पुरस्य विध्वंसनदीक्षिताय
    शोणाद्रिनाथाय
नमः शिवाय॥७॥
जरादिवर्ज्याय जटाधराय
   अचिन्त्यरूपाय
हरिप्रियाय
भक्तस्य पापौघविनाशनाय
  शोणाद्रिनाथाय नमः शिवाय॥८॥
स्तुतिं शोणाचलेशस्य पठतां सर्वसिद्धिदम्।
सर्वसंपत्प्रदं पुंसां सेवन्तां सर्वतो जनाः ॥९॥
          ॥शुभमस्तु॥
 
 

GAURISHA GANAM

        गौरीशगानम्
हर हर शंभो गौरीश!
शिव शिव शंभो गौरीश!।
हर हर शंभो शिव शिव शंभो!
जय जय शंभो गौरीश!॥१॥
तुंगजटाधर गौरीश!
पुंगववाहन गौरीश!।
तुंगजटाधर पुंगववाहन!
गंगाधर हर गौरीश!
॥२॥
दक्षमदापह गौरीश!
शिक्षितमन्मथ गौरीश!
दक्षमदापह शिक्षितमन्मथ!
भिक्षाटनपर गौरीश!
॥३॥
ब्रह्मशिरोहर गौरीश!
कल्मषनाशन गौरीश!।
ब्रह्मशिरोहर कल्मषनाशन!
षण्मुखजनक गौरीश!
॥४॥
इन्द्रनिषेवित गौरीश!
चन्द्रकलाधर गौरीश!।
इन्द्रनिषेवित चन्द्रकलाधर!
चन्द्रमदापह गौरीश!
॥५॥
फालविलोचन गौरीश!
कालविनाशन गौरीश!
फालविलोचन कालविनाशन!
नीलगलामल गौरीश!
॥६॥
अद्भुतवैभव गौरीश!
चित्पुरुषेश्वर गौरीश
!।
अद्भुतवैभव चित्पुरुषेश्वर!
कल्पितभुवन गौरीश!॥७॥
अच्युतसहचर गौरीश!
विच्युतकलिमल गौरीश!
अच्युतसहचर विच्युतकलिमल!
निश्चलहृदय गौरीश!
॥८॥
  
निश्चल निष्कल गौरीश!
नित्य निरामय गौरीश!  ।
निश्चल निष्कल नित्य निरामय!
निर्मल निरुपम गौरीश!
॥९॥
निर्मलशील गौरीश!
घर्मविलोचन गौरीश!।
निर्मलशील घर्मविलोचन!
कर्मविनाशन गौरीश!
॥१०॥
पन्नगभूषण गौरीश!
सन्नगभूषण गौरीश!।
पन्नगभूषण सन्नगभूषण!
किन्नरसेवित गौरीश!
॥११॥
नृत्योत्सवरत गौरीश!
कृत्तपुराश्रय गौरीश!।
नृत्योत्सवरत कृत्तपुराश्रय!
मृत्युंजय हर गौरीश ॥१२॥
नारदसेवित गौरीश!
नारकमोचन गौरीश!
नारदसेवित नारकमोचन!
नीरदसमगल गौरीश!॥१३॥
गुरुवरुणालय गौरीश!
भूरिकृपालय गौरीश!।
गुरुवरुणालय भूरिकृपालय!
भगवन् पालय गौरीश!॥१४॥

THOUSAND NAMES OF SIVA – SIVA SAHASRANAMA

   

      श्री शिवसहस्रनामस्तोत्रम्
ध्यानम्
वन्दे शम्भुमुमापतिं
सुरगुरुं वन्दे जगत्कारणं
वन्दे पन्नगभूषणं
मृगधरं वन्दे पशूनांपतिम्
वन्दे सूर्यशशाङ्कवह्निनयनं
वन्दे मुकुन्दप्रियं
वन्दे भक्तजनाश्रयं
च वरदं वन्दे शिवं शंकरम्॥१॥
ओं स्थिरः स्थाणुः
प्रभुर्भीमः प्रवरो वरदो वरः।
सर्वात्मा सर्वविख्यातः
सर्वः सर्वकरो भवः॥१॥
जटी चर्मी शिखण्डी
च सर्वाङ्गः सर्वभावनः।
हरश्च हरिणाक्षश्च
सर्वभूतहरः प्रभुः॥२॥
प्रवृत्तिश्च निवृत्तिश्च
नियतः शाश्वतो ध्रुवः।
श्मशानवासी भगवान्खचरो
गोचरोऽर्दनः॥३॥
अभिवाद्यो महाकर्मा
तपस्वी भूतभावनः।
उन्मत्तवेषः प्रच्छन्नः
सर्वलोकप्रजापतिः॥४॥
महारूपो महाकामी
वृषरूपो महायशाः।
महात्मा सर्वभूतात्मा
विश्वरूपो महाहनुः॥५॥
लोकपालोऽन्तर्हितात्मा
प्रसादो हयगर्दभिः।
पवित्रं च महांश्चैव
नियमो नियमाश्रितः॥६॥
सर्वकर्मा स्वयंभूत
आदिरादिकरो निधिः।
सहस्राक्षो विशालाक्षस्सोमो
नक्षत्रसाधकः॥७॥
चन्द्रस्सूर्यश्शनिः
केतुर्ग्रहो ग्रहपतिर्वरः।
अत्रिरत्र्यानमस्कर्ता
मृगबाणार्पणोऽनघः॥८॥
महातपा घोरतपा
अदीनो दीनसाधकः।
संवत्सरकरो मन्त्रः
प्रमाणं परमं तपः॥९॥
योगो योज्यो महाभीमो
महारेता महाबलः।
सुवर्णरेतास्सर्वज्ञः
सुबीजो बीजवाहनः॥१०॥
दशबाहुस्त्वनिमिषो
नीलकण्ठ उमापतिः।
विश्वरूपस्स्वयंश्रेष्ठो
बलवीरोऽबलो गणः॥११॥
गणकर्ता गणपतिर्दिग्वासाः
काम एव च।
मन्त्रवित् परमो
मन्त्रः सर्वभावकरो हरः॥१२॥
कमण्डलुधरो धन्वी
बाणहस्तः कपालवान्।
अशनी शतघ्नी खड्गी
पट्टिशी चायुधी महान्॥१३॥
स्रुवहस्तः सुरूपश्च
तेजस्तेजस्करो निधिः।
उष्णीषी च सुवक्त्रश्च
उदग्रो विनतस्तथा॥१४॥
दीर्घश्च हरिकेशश्च
सुतीर्थः कृष्ण एव च।
शृगालरूपः सिद्धार्थो
मुंडस्सर्वशुभंकरः॥१५॥
अजश्च बहुरूपश्च
गजधारी कपर्द्यपि।
ऊर्ध्वरेता ऊर्ध्वलिंग
ऊर्ध्वशायी नभस्थलः॥१६॥
त्रिजटी चीरवासाश्च
रुद्रः सेनापतिर्विभुः।
अहश्चरो नक्तंचरस्तिग्ममन्युः
सुवर्चसः॥१७॥
गजहा दैत्यहा कालो
लोकधाता गुणाकरः।
सिंहशार्दूलरूपश्च
आर्द्रचर्माम्बरावृतः॥१८॥
कालयोगी महानादः
सर्वकामश्चतुष्पथः।
निशाचरः प्रेतचारी
भूतचारी महेश्वरः॥१९॥
बहुभूतो बहुधरः
स्वर्भानुरमितो गतिः।
नृत्यप्रियो नित्यनर्तो
नर्तकस्सर्वलालसः॥२०॥
घोरो महातपाः पाशो
नित्यो गिरिरुहो नभः।
सहस्रहस्तो विनयो
व्यवसायोह्यतन्द्रितः॥२१॥
अधर्षणो धर्षणात्मा
यज्ञहा कामनाशकः।
दक्षयागापहारी
च सुसहो मध्यमस्तथा॥२२॥
तेजोऽपहारी बलहा
मुदितोऽर्थोऽजितोऽवरः।
गंभीरघोषो गंभीरो
गंभीरबलवाहनः॥२३॥
न्यग्रोधरूपो न्यग्रोधो
वृक्षकर्णस्थितिर्विभुः।
सुतीक्ष्णदशनश्चैव
महाकामो महाननः॥२४॥
विष्वक्सेनो हरिर्यज्ञः
संयुगापीडवाहनः।
तीक्ष्णतापश्च
हर्यश्वः सहायः कर्मकालवित्॥२५॥
विष्णुप्रसादिको
यक्षः समुद्रो वडवामुखः।
हुताशनसहायश्च
प्रशान्तात्मा हुताशनः॥२६॥
उग्रतेजा महातेजा
जन्यो विजयकालवित्।
ज्योतिषामयनं सिद्धिस्सर्वग्रह
एव च॥२७॥
शिखी मुंडी जटी
ज्वाली मूर्तिजो मूर्धगो बली।
वेणवी पणवी ताळी
खली कालकटंकटः॥२८॥
नक्षत्रविग्रहमतिः
गुणबुद्धिर्लयोऽगमः।
प्रजापतिर्विश्वबाहुर्विभागस्सर्वगोऽमुखः॥२९॥
विमोचनस्सुसरणो  हिरण्यकवचोद्भवः।
मेढ्रजो बलचारी
च महीचारी स्रुतस्तथा॥३०॥
सर्वतूर्यनिनादी
च सर्वातोद्यपरिग्रहः।
व्यालरूपो गुहावासी
गुहो माली तरंगवित्॥३१॥
त्रिदशस्त्रिकालधृत्
कर्म सर्वबन्धविमोचनः।
बन्धनस्त्वसुरेन्द्राणां
युधिशत्रुविनाशनः॥३२॥
सांख्यप्रसादः
दुर्वासाः सर्वसाधुनिषेवितः।
प्रस्कन्दनो विभागज्ञोऽतुल्यो
यज्ञविभागवित्॥३३॥
सर्ववासः सर्वचारी
दुर्वासा वासवोऽमरः।
हैमो हेमकरोऽयज्ञः
सर्वधारी धरोत्तमः॥३४॥
लोहिताक्षो महाक्षश्च
विजयाक्षो विशारदः।
संग्रहो निग्रहः
कर्ता सर्पचीरनिवासनः॥३५॥
मुख्योऽमुख्यश्च
देहश्च काहलिः सर्वकामदः।
सर्वकालप्रसादश्च
सुबलो बलरूपधृत्॥३६॥
सर्वकामवरश्चैव
सर्वदः सर्वतोमुखः।
आकाशनिर्विरूपश्च
निपातीह्यवशः खगः॥३७॥
रौद्ररूपोंशुरादित्यो
बहुरश्मिः सुवर्चसी।
वसुवेगो महावेगो
मनोवेगो निशाचरः॥३८॥
सर्ववासी श्रियावासी
उपदेशकरोऽकरः  ।
मुनिरात्मनिरालोकः
सभग्नश्च सहस्रदः॥३९॥
पक्षी च पक्षरूपश्च
अतिदीप्तो विशांपतिः।
उन्मादो मदनः कामोह्यश्वत्थोऽर्धकरो
यशः॥४०॥
वामदेवश्च वामश्च
प्राग्दक्षिणश्च वामनः।
सिद्धयोगी महर्षिश्च
सिद्धार्थः सिद्धसाधकः ॥४१॥
भिक्षुश्च भिक्षुरूपश्च
विपणो मृदुरव्ययः।
महासेनो विशाखश्च
षष्टिभागो गवांपतिः॥४२॥
वज्रहस्तश्च विष्कंभी
चमूस्तम्भन एव च।
वृत्तावृत्तकरस्तालो
मधुर्मधुकलोचनः॥४३॥
वाचस्पत्यो वाजसेनो
नित्यमाश्रमपूजितः।
ब्रह्मचारी लोकचारी
सर्वचारी विचारवित्॥४४॥
ईशान ईश्वरः कालो
निशाचारी पिनाकवान्।
निमित्तस्थो निमित्तं
च नन्दिर्नन्दकरो हरिः॥४५॥
नन्दीश्वरश्च नन्दी
च नन्दनो नन्दिवर्धनः।
भगहारी निहन्ता
च कालो ब्रह्मा पितामहः॥४६॥
चतुर्मुखो महालिंगश्चारुलिंगस्तथैव
च।
लिंगाध्यक्षः सुराध्यक्षो
योगाध्यक्षो युगावहः॥४७॥
बीजाध्यक्षो बीजकर्ता
अध्यात्मानुगतो बलः।
इतिहासः सकल्पश्च
गौतमोऽथ निशाकरः॥४८॥
दंभोऽह्यदम्भो
व्यदम्भो वश्यो वशकरः कलिः।
लोककर्ता पशुपतिर्महाकर्ता
ह्यनौषधः॥४९॥
अक्षरं परमं ब्रह्म
बलवच्छक्र एव च।
नीतिर्ह्यनीतिः
शुद्धात्मा शुद्धो मान्यो गतागतः॥५०॥
बहुप्रसादः सुस्वप्नो
दर्पणोऽथत्वमित्रजित्।
वेदकारो मन्त्रकारो
विद्वान् समरमर्दनः॥५१॥
महामेघनिवासी च
महाघोरो वशीकरः।
अग्निज्वालो महाज्वालो
अतिधूम्रो हुतो हविः॥५२॥
वृषणः शंकरो नित्यं
वर्चस्वी धूमकेतनः।
नीलस्तथाऽङ्गलुब्धश्च
शोभनो निरवग्रहः॥५३॥
स्वस्तिदः स्वस्तिभावश्च
भागी भागकरो लघुः।
उत्संगश्च महांगश्च
महागर्भपरायणः॥५४॥
कृष्णवर्णः सुवर्णश्च
इन्द्रियं सर्वदेहिनां।
महापादो महाहस्तो
महाकायो महायशाः॥५५॥
महामूर्धा महामात्रो
महानेत्रो निशालयः।
महान्तको महाकर्णो
महोष्ठश्च महाहनुः॥५६॥
महानासो महाकम्बुर्महाग्रीवः
श्मशानभाक्।
महावक्षा महोरस्कोह्यन्तरात्मा
मृगालयः॥५७॥
लम्बनो लम्बितोष्ठश्च
महामायः पयोनिधिः।
महादन्तो महादंष्ट्रो
महाजिह्वो महामुखः॥५८॥
महानखो महारोमा
महाकेशो महाजटः।
प्रसन्नश्च प्रसादश्च
प्रत्ययो गिरिसाधनः॥५९॥
स्नेहनोऽस्नेहनश्चैव
अजितश्च महामुनिः।
वृक्षाकारो वृक्षकेतुरनलो
वायुवाहनः    ॥६०॥           
गण्डली मेरुधन्वा
च देवाधिपतिरेव च।
अथर्वशीर्षः सामास्य
ऋक्सहस्रामितेक्षणः॥६१॥
यजुः पादभुजो गुह्यः
प्रकाशो जंगमस्तथा।
अमोघार्थः प्रसादश्च
अभिगम्यः सुदर्शनः॥६२॥
उपकारः प्रियः
सर्वः कनकः कांचनच्छविः।      
नाभिर्नन्दिकरो
भावः पुष्करस्थपतिः स्थिरः॥६३॥
द्वादशास्त्रासनश्चाद्यो यज्ञो यज्ञसमाहितः।
नक्तं कलिश्च कालश्च
मकरः कालपूजितः॥६४॥
सगणो गणकारश्च
भूतवाहनसारथिः।
भस्माशयो भस्मगोप्ता
भस्मभूतस्तरुर्गणः॥६५॥
लोकपालस्तथाऽलोको
मदात्मा सर्वपूजितः।
शुक्लस्त्रिशुक्लः
सम्पन्नः शुचिर्भूतनिषेवितः॥६६॥
आश्रमस्थः क्रियावस्थो
विश्वकर्ममतिर्वरः।
विशालशाखस्ताम्रोष्ठो
ह्यम्बुजालः सुनिश्चलः॥६७॥
कपिलः कपिश शुक्ल
आयुश्चैव परोऽपरः।
गन्धर्वोह्यदितस्तार्क्ष्यः
सुविश्रेय सुशारदः॥६८॥
परश्वधायुधो देवो
अनुकारी सुबान्धवः।
तुम्बवीणो महाक्रोध
ऊर्ध्वरेता जलेशयः॥६९॥
उग्रो वंशकरो वंशो
वंशनादो ह्यनिन्दितः।
सर्वांगरूपो मायावी
सुहृदो ह्यनिलोऽनलः॥७०॥
बन्धनो बन्धकर्ता
च सुबन्धनविमोचनः।
सुयज्ञारिः सकामारिर्महादंष्ट्रो
महाऽयुधः॥७१॥
बहुधा निन्दितः
शर्वः शंकरः शंकरोऽधनः।
अमरेशो महादेवो
विश्वदेवः सुरारिहा॥७२॥
अहिर्बुध्न्योऽनिलाभश्च
चेकितानो हविस्तथा।
अजैकपाच्च कापाली
त्रिशंकुरजितः शिवः॥७३॥
धन्वन्तरिर्धूमकेतुः
स्कंदो वैश्रवणस्तथा।
धाता शक्रश्च विष्णुश्च
मित्रस्त्वष्टा ध्रुवो धरः॥७४॥
प्रभावः सर्वगो
वायुरर्यमा सविता रविः।
उषंगुश्च विधाता
च मान्धाता भूतभावनः॥७५॥
विभुर्वर्णविभावी
च सर्वकामगुणावहः।
पद्मनाभो महागर्भश्चन्द्रवक्त्रोऽनिलोऽनलः॥७६॥
बलवांश्चोपशान्तश्च
पुराणः पुण्यचञ्चुरी।
कुरुकर्ता कुरुवासी
कुरुभूतो गुणौषधः ॥७७॥
सर्वाशयो दर्भचारी
सर्वेषां प्राणिनां पतिः।
देवदेवः सुखासक्तः
सदसत्सर्वरत्नवित् ॥७८॥
कैलासगिरिवासी
च हिमवद्गिरिसंश्रयः।
कूलहारी कूलकर्ता
बहुविद्यो बहुप्रदः॥७९॥
वणिजो वर्धको वृक्षो
बकुलश्चन्दनच्छदः।
सारग्रीवो महाजत्रुरल्लोलश्च
महौषधः॥८०॥
सिद्धार्थकारी
सिद्धार्थः छन्दो व्याकरणोत्तरः।
सिंहनादः सिंहदंष्ट्रः
सिंहगः सिंहवाहनः॥८१॥
प्रभावात्मा जगत्कालस्थलो
लोकहितस्तरुः।
सारंगो नवचक्रांगः
केतुमाली सभावनः॥८२॥
भूतालयो भूतपतिरहोरात्रमनिन्दितः।
वाहिता सर्वभूतानां
निलयश्च विभुर्भवः॥८३॥
अमोघः संयतो ह्यश्वो
भोजनः प्राणधारणः।
धृतिमान् मतिमान्
दक्षः सत्कृतश्च युगाधिपः॥८४॥
गोपालिर्गोपतिर्ग्रामो
गोचर्मवसनो हरिः।
हिरण्यबाहुश्च
तथा गुहापालः प्रवेशिनां॥८५॥
प्रकृष्टारिर्महाहर्षो
जितकामो जितेन्द्रियः।
गान्धारश्च सुवासश्च
तपस्सक्तो रतिर्नरः॥८६॥
महागीतो महानृत्यो
ह्यप्सरोगणसेवितः।
महाकेतुर्महाधातुर्नैकसानुचरश्चलः॥८७॥
आवेदनीय आदेशः
सर्वगन्धसुखावहः।
तोरणस्तारणो वातः
परिधी पतिखेचरः॥८८॥
संयोगो वर्धनो
वृद्धो अतिवृद्धो गुणाधिकः।
नित्यात्मा च सहायश्च
देवासुरपतिः पतिः॥८९॥
युक्तश्च युक्तबाहुश्च
देवोदिविसुपर्वणः।
आषाढश्च सुषाढश्च
ध्रुवोऽथ हरिणो हरः॥९०॥
वपुरावर्तमानेभ्यो
वसुश्रेष्ठो महापथः।
तिरोहारी विमर्शश्च
सर्वलक्षणलक्षितः॥९१॥
अक्षश्च रथयोगी
च सर्वयोगी महाबलः।
समाम्नायोऽसमाम्नायस्तीर्थदेवो
महारथः ॥९२॥
निर्जीवो जीवनो
मन्त्रः शुभाक्षो बहुकर्कशः।
रत्नप्रभूतो रत्नांगो
महार्णवनिपानवित्  ॥९३॥
मूलं विशालो ह्यमृतो
व्यक्ताव्यक्तस्तपोनिधिः।
आरोहणोऽधिरोहश्च
शीलधारी महायशाः॥९४॥
सेवाकल्पो महाकल्पो
योगो युगकरो हरिः।
युगरूपो महारूपो
महानागहनो वधः॥९५॥
न्यायनिर्वपणः
पादः पण्डितो ह्यचलोपमः।
बहुमालो महामालः
शशीहरसुलोचनः॥९६॥
विस्तारो लवणः
कूपस्त्रियुगः सफलोदयः।
त्रिलोचनो विषण्णांगो
मणिविद्धो जटाधरः॥९७॥
बिन्दुर्विसर्गः
सुमुखः शरः सर्वायुधः सहः।
निवेदनः सुखाजातः
सुगन्धारो महाधनुः॥९८॥
गन्धपाली च भगवानुत्थानः
सर्वकर्मणां।
मन्थानो बहुलो
वायुः सकलः सर्वलोचनः॥९९॥
तलस्तालः करस्थली
ऊर्ध्वसंहननो महान्।
छत्रं सुच्छत्रश्च
विख्यातो लोकः सर्वाश्रयः क्रमः॥१००॥
मुंडो विरूपो विकृतो
दण्डी कुण्डी विकुर्वणः।
हर्यक्षः ककुभो
वज्री शतजिह्वः सहस्रपात्॥१०१॥
सहस्रमूर्धा देवेन्द्रः
सर्वदेवमयो गुरुः।
सहस्रबाहुः सर्वांगः
शरण्यः सर्वलोककृत्॥१०२॥
पवित्रं त्रिककुन्मन्त्रः
कनिष्ठः कृष्णपिंगलः।
ब्रह्मदण्डविनिर्माता
शतघ्नी पाशशक्तिमान्॥१०३॥
पद्मगर्भो महागर्भो
ब्रह्मगर्भो जलोद्भवः।
गभस्तिर्ब्रह्मकृत्ब्रह्मी
ब्रह्मविद् ब्रह्मणोगतिः॥१०४॥
अनन्तरूपो नैकात्मा
तिग्मतेजाः स्वयंभुवः।
ऊर्ध्वगात्मा    पशुपतिर्वातरंहा मनोजवः॥१०५॥
चन्दनी पद्मनालाग्रः
सुरभ्युत्तरणो नरः।
कर्णिकारमहास्रग्वी
नीलमौलिः पिनाकधृत्॥१०६॥
उमापतिरुमाकान्तो
जाह्नवीधृगुमाधवः।
वरो व्राहो वरदो
वरेण्यः सुमहास्वनः॥१०७॥
महाप्रसादो दमनः
शत्रुहा श्वेतपिंगलः।
वीतात्मा परमात्मा
च प्रयतात्मा प्रधानधृत्॥१०८॥
सर्वपार्श्वमुखस्त्र्यक्षो
सर्वसाधारणो वरः।
चराचरात्मा सूक्ष्मात्मा
अमृतो गोवृषेश्वरः॥१०९॥
साध्यर्षिर्वसुरादित्यो
विवस्वान् सविताऽमृतः।
व्यासः सर्गः सुसंक्षेपो
विस्तरः पर्ययो नरः॥११०॥
ऋतुः संवत्सरो
मासः पक्षः संख्यासमापनः।
कला काष्ठा लवा
मात्रा मुहूर्ताहः क्षपाः क्षणाः॥१११॥
विश्वक्षेत्रं
प्रजाबीजं लिंगमाद्यस्तुनिर्गमः।
सदसद्व्यक्तमव्यक्तं
पिता माता पितामहः॥११२॥
स्वर्गद्वारं प्रजाद्वारं
मोक्षद्वारं त्रिविष्टपं।
निर्वाणं ह्लादनश्चैव
ब्रह्मलोकः परागतिः॥११३॥
देवासुरविनिर्माता
देवासुरपरायणः।
देवासुरगुरुर्देवो
देवासुरनमस्कृतः॥११४॥
देवासुरमहामात्रो
देवासुरगणाश्रयः।
देवासुरगणाध्यक्षो
देवासुरगणाग्रणीः॥११५॥
देवादिदेवो देवर्षिर्देवासुरवरप्रदः।
देवासुरेश्वरो
विश्वो देवासुरमहेश्वरः॥११६॥
सर्वदेवमयोऽचिन्त्यो
देवतात्माऽऽत्मसम्भवः।
उद्भित् त्रिविक्रमो
वैद्यो विरजो नीरजोऽमरः॥११७॥
ईड्यो हस्तीश्वरो
व्याघ्रो देवसिंहो नरर्षभः।
विबुधोऽग्रवरः
सूक्ष्मः सर्वदेवस्तपोमयः॥११८॥
सुयुक्तः शोभनो
वज्री प्रासानां प्रभवोऽव्ययः।
गुहः शान्तो निजः
सर्गः पवित्रं सर्वपावनः॥११९॥
शृंगी शृंगप्रियो
बभ्रू राजराजो निरामयः।
अभिराम सुरगणो
विरामः सर्वसाधनः॥१२०॥
ललाटाक्षो विश्वदेवो
हरिणो ब्रह्मवर्चसः।
स्थावराणां पतिश्चैव
नियमेन्द्रियवर्धनः॥१२१॥
सिद्धार्थः सिद्धभूतार्थोऽचिन्त्यः
सत्यव्रतः शुचिः।
व्रताधिपः परंब्रह्म
भक्तानां परमागतिः॥१२२॥
विमुक्तो मुक्ततेजाश्च
श्रीमान् श्रीवर्धनो जगत् ॥१२३॥
 

ARTIHARA STOTRAM (ON LORD SHIVA)

                             आर्तिहरस्तोत्रम्
          (श्री श्रीधरवेङ्कटाचार्यरचितम्)
श्रीशंभो! मयि करुणाशिशिरां दृष्टिं दिशन् सुधावृष्टिम्।
सन्तापमपाकुरु मे मन्ता परमेश! तव दयायास्स्याम्॥१॥
अवसीदामि यदार्तिभिरनुगुणमिदमोकसोंऽहसां खलु मे।
तव सन्नवसीदामि यदन्तकशासन! न तत्तवानुगुणम्॥२॥
देव! स्मरन्ति तव ये तेषां स्मरतोऽपि नार्तिरिति कीर्तिम्।
कलयसि शिव! पाहीति क्रन्दन् सीदाम्यहं किमुचितमिदम्॥३॥
आदिश्याघकृतौ मामन्तर्यामिन्नसावघात्मेति।
आर्तिषु मज्जयसे मां किं ब्रूयां कृपैकपात्रमहम्॥४॥
मन्दाग्रणीरहं तव मयि करुणां घटयितुं विभो! नालम्।
आक्रष्टुं तान्तु बलादलमिह मद्दैन्यमिति समाश्वसिमि॥५॥
त्वं सर्वज्ञोऽहं पुनरज्ञोऽनीशोऽहमीश्वरस्त्वमसि।
त्वं मयि दोषान् गणयसि किं कथये तुदति किं दया न त्वाम्॥६॥
आश्रितमार्ततरं मामुपेक्षसे किमिति शिव! न किं दयसे।
श्रितगोप्ता दीनार्तिहृदिति खलु शंसन्ति जगति सन्तस्त्वाम्॥७॥
प्रहराहरेति वादी भणितमदाख्य इति पालितो भवता।
शिव! पाहीति वदोऽहं श्रितो न किं त्वां कथं न पाल्यस्ते॥८॥
शरणं व्रज शिवमार्तीस्स तव हरेदिति सतां गिराऽहं त्वाम्।
शरणं गतोऽस्मि पालय खलमपि तेष्वीश पक्षपातान्माम्॥९॥

SRI TYAGARAJASHTAKAM

 श्रीत्यागराजाष्टकम्
       (श्री मुत्तुस्वामिदीक्षितकृतम्)
कल्याणसौगन्धिकपुष्पहार-
    
संशोभिकण्ठाय कलाधराय।
कल्याणशैलेन्द्रधनुर्धराय
    
श्री
त्यागराजाय नमो नमस्ते॥१॥
मुक्तेन्द्रनीलादिसुरत्नराशि-
    
संशोभिसिंहासनसंस्थिताय।
 मुक्ताकुमाराख्यमहिस्तुताय
  
 श्री
त्यागराजाय नमो नमस्ते॥२॥
 कीशाननश्रीमुचुकुन्दभूप-
    संप्रार्थनाद्भूतलमागताय।
गोचन्द्रसंस्थाय
कुमारपित्रे
    श्री त्यागराजाय नमो
नमस्ते॥३॥
गोप्त्रे
पशूनां गुरुराजभूप-
   धर्त्रे सदा श्रीपुरसंस्थिताय।
गुप्तस्वगात्राय
हृदये भजाय
     श्री त्यागराजाय नमो नमस्ते॥४॥
कान्तातिसौन्दर्यरथस्थिताय
  कान्तासमाश्लेषितसुन्दराय ।    
कान्तार्धरूपाय
गजास्यपित्रे
  श्री त्यागराजाय नमो
नमस्ते॥५॥
  निरन्तराभ्यासविशेषवेद्य-
    बोधस्वरूपाय निरञ्जनाय।
निरङ्कुशानन्दपदप्रदाय
     श्री त्यागराजाय नमो
नमस्ते॥६॥
  
अनन्तहृद्वारिजहंसरूप-
   नृत्तंकरायादिगुरूत्तमाय।
अनन्तकल्याणगुणैकधाम्ने
  श्री त्यागराजाय नमो
नमस्ते॥७॥
श्रीमच्चिदानन्दगुरुस्वरूप-
   श्रीत्यागराजाङ्घ्रिसरोजयुग्मे
अनन्तबोधप्रदमष्टकाख्यं
   स्तोत्रं सुभक्त्याकृतमर्पितं मया  ॥८॥
 
   

KIRATAMURTI STOTRAM

किरातमूर्तिस्तोत्रम्
नमः शिवाय भर्गाय लीलाशबररूपिणे।
प्रपन्नार्तपरित्राणकरुणामसृणात्मने ॥१॥
पिञ्छोत्तंसं समानीलश्मश्रुविद्योतिताननम्।
उदग्रारक्तनयनं गौरकौशेयवाससम्॥२॥
कैलासशिखरोत्तुङ्गं छुरिकाचापधारिणम्।
किरातमूर्तिं ध्यायामि परमं कुलदैवतम्॥३॥
दुर्जनैर्बहुधाऽऽक्रान्तं भयसंभ्रान्तमानसम्।
त्वदेकशरणं दीनं परिपालय नाथ, माम्॥४॥
मह्यं द्रुह्यन्ति रिपवो बाह्याश्चाभ्यन्तराश्च ये।
विद्रावय दयासिन्धो चापज्यानिस्वनेन तान्॥५॥
कूटकर्मप्रसक्तानां शत्रूणां शातनाय भोः।
चालय छुरिकां घोरां शतकोटिसमुज्ज्वलाम्॥६॥
विपद्दावानलज्वालासन्तप्तं रोगपीडितम्।
कर्तव्यताविमूढं मां त्रायस्व गिरिशात्मज॥७॥
नमः किरातवपुषे नमः क्षेमङ्कराय च।
नमः पापविघाताय नमस्ते धर्मसेतवे ॥८॥
(Source: ‘Bhaktitarangini’
by Prof. P.C. Vasudevan Elayath, Published by Kerala Sanskrit Akademi)

SRI PURNAMANGALESHA SUPRABHATAM

                                     श्रीपूर्णमङ्गलेशसुप्रभातम्
 (On Lord Siva, presiding deity of
Purnamangalam in Kerala)
  नमः शिवाय पूर्णाय पूर्णमङ्गलवासिने ।
 जागृहि त्वं महादेव,
सुप्रभातमुपस्थितम्॥१॥
 उत्तिष्ठोत्तिष्ठ
भगवन् विश्वमङ्गलसिद्धये।
 आकेकराक्षिकलया दासाननुगृहाण
नः ॥२॥
 नमस्ते चन्द्रचूडाय
नमस्ते शूलपाणये।
 नमस्ते नीलकण्ठाय
नमस्ते विश्वमूर्तये ॥३॥
 शंभो सदाशिव, जगत्त्रयमङ्गलात्मन्
 गङ्गाधर, प्रणतभक्तजनार्तिहारिन्।
 योगीन्द्रवन्दितविशुद्धपदारविन्द,
 श्रीपूर्णमङ्गलपते
तव सुप्रभातम् ॥४॥
 पश्याभ्युपैति भगवन्,  विमला विभात-
 लक्ष्मीरियं विदधति
स्तुतिगीतकानि।
 पूजासुमानि विकचानि
सुसज्जयन्ती
 श्रीपूर्णमङ्गलपते,
तव सुप्रभातम् ॥५॥
 प्राचीप्रसादसुमुखी
भव, शुक्रदीप-
 हस्ता हि तिष्ठति
भवत्पदसेवनोत्का।
 मन्दं च वीजयति वायुरयं
भवन्तं
 श्रीपूर्णमङ्गलपते,
तव सुप्रभातम् ॥६॥
 शैलास्तुषारविमलाम्बुकृताभिषेका
 विद्योतमानतरुगुल्मजटाकलापाः।
 त्वद्ध्याननिश्चलतमाः
परितः स्फुरन्ति
 श्रीपूर्णमङ्गलपते,
तव सुप्रभातम् ॥७॥
 एनं जगत्प्रकृतिपूजितपादपद्मं
 त्वं देवदेव, शितिकण्ठमकुण्ठशक्तिम्।
 सेवामहे निखिलकामितसिद्धिहेतोः
 श्रीपूर्णमङ्गलपते,
तव सुप्रभातम् ॥८॥
 हे विश्वनाथ, धनदस्तवपादसाद-
 स्त्वं स्वीकरोषि
भगवन्निव भिक्षुचर्याम्।
 निस्स्वार्थजीवितमुदाहरसि
त्वमित्थं
 श्रीपूर्णमङ्गलपते,
तव सुप्रभातम् ॥९॥
  भिक्षुस्त्वमत्रपरमाद्भुतकारिभिक्षा-
  दात्रीं प्रहृष्टहृदयः
किलविप्रनारिम्।
  प्रादर्शयः स्वमतिसुन्दरदिव्यरूपं
  श्रीपूर्णमङ्गलपते,
तव सुप्रभातम् ॥१०॥
  तत्स्थानमद्य विदितं
किल तण्डुलाद्रि
  सान्निध्यमत्र भगवंस्तव
संविभाव्य।
  क्षेत्रं तवाथ निरमायि
च विप्रवर्यैः
  श्रीपूर्णमङ्गलपते,
तव सुप्रभातम् ॥११॥
  शास्ताऽम्बिकागणपतिश्च
महाविभूम्नि
  त्वद्धाम्नि यत्र
सततं कृतसन्निधानाः।
  अन्वर्थनामकमिदं
जयताद्विशुद्धं
  श्रीपूर्णमङ्गलपते,
तव सुप्रभातम् ॥१२॥
  शैलात्मजाललितलास्यकलानुविद्धं
  स्वं ताण्डवं प्रकटयन्
विबुधैर्नुतस्त्वम्।
  आनन्दरूप, नटराज,
विधेहि शं नः
  श्रीपूर्णमङ्गलपते,
तव सुप्रभातम् ॥१३॥
  गङ्गाकलापशशिशेखर,
तुल्यदृष्टे   
  सर्वज्ञ, सर्वनुत, दीनजनैकबन्धो।
  त्वामेकमद्भुतचरित्रमुपाश्रयामः
  श्रीपूर्णमङ्गलपते,
तव सुप्रभातम् ॥१४॥
 
  त्रय्यात्मक, त्रिनयन,
त्रिपुरान्तक; श्री-
  गौरीपते, त्रिभुवनैकशरण्य,
शंभो।
  त्रायस्व नस्त्रिविधतापदवाग्निपातात्
 
  श्रीपूर्णमङ्गलपते, तव सुप्रभातम् ॥१५॥
  यदीयताण्डवच्युतं
यदङ्गसङ्गपावितं
  विभूतिलेशमाप्य
हा!, महर्षयः प्रहर्षिताः।
  हृदन्तशान्तिमाधुरीमनन्तसौख्यदायिनीं
  ददातु नो नटेश्वरः
स पूर्णमङ्गलेश्वरः ॥१६॥
  दरिद्रभावदुःखितप्रमोददानदीक्षितो
  मदान्धदैत्यसञ्चयप्रणाशकारिवैभवः।
  स्मरारिरन्तकान्तको
विषाशनो दयानिधिः
  ददातु शं महेश्वरः
स पूर्णमङ्गलेश्वरः ॥१७॥
  गिरीन्द्रनन्दिनीप्रियं
गिरीन्द्रमिन्दुशेखरं
  गिरामगोचरं शिवं
निरीहनित्यपूजितम्।
  भवाब्धितारकं भवं
भजामहे भजामहे
  ददातु शं महेश्वरः
स पूर्णमङ्गलेश्वरः ॥१८॥
,  नमोऽस्तु मुक्तिदायिने,
मुनीन्द्रचित्तवासिने
   नमोऽस्तु शूलधारिणे,
विपद्विमोक्षकारिणे।
   नमोऽस्तु
पापहारिणे, महाकपर्दधारिणे
   नमोऽस्तु पूर्णमङ्गलप्रकाशिने,
नमो नमः॥१९॥
   सुप्रभातस्तोत्रमिदं
ये शृण्वन्ति पठन्ति वा
   तेभ्यो ददातु भगवान् भक्तिं सर्वार्थदायिनीम्॥२०॥
   शक्त्या संसेव्यमानस्य
पूर्णमङ्गलवासिनः।
   महेश्वरस्य कारुण्यात्
ग्रामोऽयं वृद्धिमाप्नुयात् ॥२१॥  
 
(Source: ‘Bhaktitarangini’
by Prof. P.C. Vasudevan Elayath, Published by Kerala Sanskrit Akademi)

MRITYUNJAYA PUSHPANJALI

                        मृत्युञ्जयपुष्पाञ्जलिः
             खण्डः १ (ध्यानम्)
शशिशकलाञ्चितकुञ्चितपिङ्गजटातडिदुज्ज्वलमूर्धतलं
  फालविलोचनमञ्जनमञ्जुलनीलगलं शितशूलधरम्।
फणिगणभूषणमाकलये तव भीममिदं शिवमङ्गमहं
   श्वेतवनालय, कालविमर्दन, भक्तजनार्दन, विश्वपते॥१॥
             खण्डः २
       ॥पञ्चाक्षरवर्णमालास्तोत्रम्॥
ओङ्कारशुक्तिपुटमुक्तामणिं  शिवमहंकारभञ्जनकरं
ह्रीङ्कारतत्त्वललिलतार्धं भजामि हृदि सङ्काशमानवपुषम्।
त्वाङ्कालखण्डन,
भुजगेन्द्रमण्डन,
वृषाङ्कात्मकं शिखिशिखा-
सङ्काशपिङ्गलजटाजूटसङ्गतशशाङ्काभिरामशिरसम्॥१॥
नक्तन्दिवं भयदचिन्तातुरं समनुरक्तं दुरन्तविषये
रिक्तं गुणैः सुजनकाम्यैर्मनो मम तु तिक्तं च पातकशतैः।
व्यक्तं भवत्युपहरामि,
प्रसीद कुरु भक्तं विषाशन,
विभो,
मुक्तं भयाद्भवतु सत्कर्मनिर्वहणशक्तं च जीवितमिदम्॥२॥
मर्त्यं भवच्चरणपाथोजसेविनममर्त्यं करोषि भगवन्,;
सत्यं ममास्तु रतिरेतद्भवद्भजनकृत्यं विधातुमुचितम्।
अत्यन्तपावननिजोपान्तवासपर,
मृत्युञ्जयाखिलपते,
श्रुत्यन्तगोचरमहातत्त्वरूप,
मयि नित्यं प्रसीदतु भवान्॥३॥
शिञ्जानपादकटकानन्दनृत्तरतकञ्जाभिरामचरणम्
त्वञ्जाह्नवीधवलमालासमुल्लसनसञ्जातशोभमुकुटम्।
भञ्जानमन्तकमनङ्गान्तकं सुकृतपुञ्जाभिगम्यममलम्
सञ्जल्पितस्तुतिविरिञ्चादिसेव्यमिहरञ्जद्रसं हृदि भजे ॥४॥
वाताशनाकलितभूषागणं भसितपूताङ्गरागमहितम्
शीतांशुभास्करहुताशाक्षमुल्लसितभूतावलीपरिगतम्।
हे ताण्डवप्रिय,
चिदानन्दरूप, परिभूतान्तकं तववपु-
र्भीताभयप्रदमुपासे,
प्रसीद मयि जातानुकम्पमनिशम् ॥५॥
यत्र प्रभो, परमभक्तो मृकण्डमुनिपुत्रस्तवाङ्घ्रिभजना-
दत्रस्तभावमिह लेभे यमादपि परित्रासिताखिलजनात्।
तत्र स्वधामनि परक्रोडनामनि चरित्रप्रशस्तिमहिते
क्षेत्रे  विभासि जगतां भाग्यराशिरतिमात्रं, प्रसीद भगवन्॥६॥
 
             खण्डः ३
महादेव, स्वामिन्, मधुरकरुणादिव्यजलधे,
   परक्रोडावास, प्रकटितनिजैश्वर्यमहिमन्,
स्तवैरेभिर्बिल्वैस्तव चरणयोरर्चनमहं
   करोमि त्वं भक्त्या कलितमिदमङ्गीकुरु विभो!॥१॥
इहानेकैर्मन्त्रैर्बहुभिरपि तन्त्रैर्नियमितं
   भवत्पूजाहोमादिकमहमशक्तो रचयितुम्।
जुहोमि ब्रह्माग्नौ त्वयि हविरिदं मानसमयं
   गृहाण त्वं मृत्युञ्जय, वरद, पूर्णाहुतिमिमाम्॥२॥
भवारण्ये घोरे विषयरसनव्योलपचयैः
   समाच्छन्ने कूपे निरतिशयदुःखे निपतितम्।
पशुं क्रन्दन्तं मां करुणकरुणं,
पाहि  कृपया
    स्वधर्मानुष्ठानं खलु समुचितं ते पशुपते ॥३॥
इह श्वेतारण्ये भुवनविदिते सर्वमहिते
    महासिद्धिक्षेत्रे
सकरुण, भवन्तं भयहरम्
समभ्यर्च्य प्रेष्ठां गतिमसुलभां प्राप सुकृती।
    मुनिर्मार्कण्डेयस्तव हि महिमाऽयं विजयते ॥४॥
  
परं ब्रह्म स्वेच्छाकलितशिवलिङात्मकवपुः
    प्रतिष्ठां क्षेत्रेऽस्मिन् स्वयमुपगतं भासि भगवन्।
इहाभेदं विष्णोस्तव च ददृशुः कालनिधने
    महे भक्तोत्तंसा मुदितमनसो विस्मयवशाः ॥५॥

धृतद्वैतं रूपं पुनरपरमेतत्तव निला-
   सरित्तीरेऽदूरे परिलसति नावाख्यनिलये।
यदम्भोदानीलं करकलितशङ्खारिविलसद्-
    गदापद्मं पद्मासुकृतनिलयं मञ्जुहसितम्॥६॥
लसद्द्वैताद्वैतं परमशिव, शम्भो, तव वपुः
    परानन्दाकारं मनसि मम निर्भातु सततम्।
यतोऽहं भूयासं विगलितभवक्लेशनिवहः
    स्वधर्मानुष्ठानैस्तव विरचयन् सेवनविधिम्॥७॥
पराशक्तिः सूक्ष्मा भवति परमं तत्त्वमिह वै
    वदन्त्योतप्रोतं गजदिति च वैज्ञानिकवराः।
प्रभो, त्वत्सान्निध्यादियमपि
स्पन्दनकुशला
    ह्यधिष्ठानं मुख्यं त्वमसि जगतस्ते नतिरियम् ॥८॥
भवन्निष्ठं चित्तं भवतु भगवन्,
वागपि भवत्-
     स्तुतौ सक्ता नित्यं, वपुरपि
भवत्सेवनरतम्।
विकासोऽयं भक्तेर्मधुरमधुनिष्यन्दसुभगः
      परप्रेमाकार, प्रसरतु
ममात्मन्यनुदिनम्॥९॥
प्रवृद्धायां भक्तौ भवति हृदयं निर्मलतरं
      समस्तं कर्म त्वच्चरणवरिवस्याऽपि च भवेत्
ततो जानीयां त्वां निरतिशयचैतन्यवपुषं
       परब्रह्माभिख्यं
शिवमखिललोकैकपितरम् ॥१०॥
अखण्डे ब्रह्माण्डे निरुपमचिदानन्दवपुषं
   स्वया शक्त्या
साकं कृतनटनलीलाविलसितम्।
तथा सूक्ष्मात्मानं स्थितमणुषु सूक्ष्मेषु भगवन्
   भतन्तं संवीक्ष्य
प्रतिकलमुपेयां हृदि मुदम् ॥११॥
नटेश, त्वत्तालप्रसरसुभगं  जीवितमिदम्
  प्रभो, जीवन्मुक्तिः
खलु निगदिता शास्त्रसरणौ।
पदेऽस्मिन्नुत्तुङ्गे गिरिश, गिरिशृङ्गे पशुरयं
  विहर्तुं शक्तः
स्याद्यदि भवति भक्तः पशुपते ॥१२॥
परक्रोडावासिन्, परमशिव, मृत्युञ्जय, मनो-
   भवाराते, भक्तप्रिय,
गिरिसुताऽऽलिङिततनो,
विपन्निस्तारं मे प्रदिश भगवन्, मां कुरु भवत्-
   पादाम्भोजे भक्तं,
न खलु न खलु प्रार्थ्यमपरम्॥१३॥
     ‘   
(Source:
‘Bhaktitarangini’ by Prof. P.C. Vasudevan Elayath, Published by          
                     Kerala Sanskrit Akademi)