SRI RAGHAVENDRA VIJAYA – CHAPTER 9

                                                     श्रीराघवेन्द्रविजयः
                  
नवमःसर्गः
     (विद्वत्कुलावतंसैः महाकविभिः श्रीमन्नारायणार्यैर्विरचिता)
मागधा
मधुभिदंघ्रिपङ्कजे जागरूकमपि संयमीश्वरम्।
बोधयन्ति
वचनैर्बुधोत्तमं काव्यवर्णनविधौ कृतादरैः ॥१॥
मङ्गलानि
कुरु पद्मसोदरैः संयमीन्द्र जगदादृगञ्चलैः।
पश्य
दृश्यविभवं दिनागमं दिक्षु दिक्षु मुखरीकृतागमम्॥२॥
पाकशासनपुरे
गुरूदितैर्हन्त वेदवचनैरपाकृते।
अन्धकारदुरपह्नवगेहे
शक्रदिङ्मुखमिदं प्रसीदति॥३॥
शातमन्यवदिशा
निजेश्वरे भानुमालिनि समागमोन्मुखे।
पूर्वमेव
वितनोति पाण्डिमक्षौमनिर्मलवितानमम्बरे ॥४॥
अन्धकारवरवारणव्रजे
कल्यकेसरिविदीर्णमस्तके।
शोणितौघ
इव शक्रदिङ्मुखे शोणिमा लसति तारमौक्तिकैः ॥५॥
व्योमरामपरिभाविशार्वरव्याजपन्नगमयास्त्रसन्ततेः।
भञ्जनाय
पुरतोरुणानुजः प्रादुरस्त्युदयरागकैतवात्॥६॥
व्योमदम्भमधुगोलसञ्चरद्ध्वान्तसङ्घसरघानिराकृतिम्।
आतनोति
समयः पुरादिशाशोणिमाग्निशिखया विदीप्तया॥७॥
व्योमनामभृति
कुम्भसम्भवे वारिधिं पिबति शार्वराभिधम्।
औषसारुणिमदम्भतः
शनैः पद्मरागनिकरो व्यजृम्भत॥८॥

अम्बरस्य तिमिरालिनीलिकानीलितस्य हरिदिङ्मुखाञ्चले।

कल्यरक्तिमनिभेन
काञ्चनी रेखिकाऽतिरुचिरा विराजते॥९॥
कल्यमल्लवर
एष शार्वरद्वेषिमल्लमभिहन्तुमुद्यतः।
क्षिप्तरक्तिमरजा
विदर्शयत्यर्कबिम्बनिभमुष्टिमुग्रतः ॥१०॥
उद्विवक्षुहृदयो
निशात्ययः प्राग्दिशं तदुपकण्ठमादधे।
कल्यरागमयमादिभूषणं
भानुबिम्बमणिरञ्जितान्तरम्॥११॥
हन्त
शक्रहरिता दिनागमे यावकारुणपदाभिताडनात्।
छायया
सह समागमासहात्पाटलोऽजनि पयोजनीशिता॥१२॥
प्रातरम्बुनि
निमज्ज्य नीरधेरुत्थितो हरिदिशानिजालिके।
अर्कमण्डलमिषेण
वासरः शोणिमाक्षतललामकं दधे ॥१३॥
अन्धकारयवनीमपाकृतामारचय्य
दिवसेन्दिरानटी।
व्योमरङ्गमभजत्प्रभाञ्चितं
कुर्वती खगरवेण शिञ्जितम्॥१४॥
अन्धकाररिपुभूमिभृद्गणं
जेतुमुत्कमनसो विभावसोः।
बन्दिनो
नु बिरुदालिवाचकाः प्राग्विशन्ति मुखरा विहङ्गमाः ॥१५॥
विप्रयुक्तसखिहृन्मलिम्लुचे
विद्रुते सति विधौ निशात्यये।
पद्मिनी
विगतसाध्वसा शनैः फुल्लमावहति पद्मलोचनम्॥१६॥
चक्रवाकमिथुनार्धरूपिणीं
पूरयेति विहिता समस्यकाम्।
मीलिताब्जनयना
शुचिस्मिता पूरयत्यहह तां पयोजिनी ॥१७॥
निद्रिते
त्वयि पुरा द्विजाधिपे स्वैरमेव चरति स्म चन्द्रमाः।
याति
बोधमधुना द्विजाधिभूनाममात्रभृदपैति साध्वसात् ॥१८॥
चक्रवाकविरहाग्निधूम्यया
शार्वरेण जगती निपीडिता।
तन्निवृत्तिसुखिताऽधुना
ततो मन्दमुच्छ्वसिति मारुतच्छलात्॥१९॥
एवमादिमगधोक्तिमाधुरीवारिकूपकृतसेचनादिव।
बोधमेत्य
यतिराट् समुत्थितो द्वीपिचर्ममयतल्पतल्लजात्॥२०॥
द्वादशस्तुतिपुराणसन्तती
श्रोतुमाननसमूहमेकदा।
स्वं
दशाधिकनवाननोऽददाद्विश्वमूर्तिरिव चक्षुरागतः ॥२१॥

आनतोऽभवदनन्तमग्रतः
संयमीन्दुरवलोक्य सज्जनान्।
आदरेण
सुजनैः समर्पिताःश्रेयसे सततमाशिषोऽग्रहीत् ॥२२॥
स प्रणम्य
तुलसीवनस्थितामिन्दिरां तदनु तत्पदाश्रितम्।
वायुनन्दनमवन्दतादरादिन्दिरेशकरुणैकमन्दिरम्
॥२३॥
सोऽधिरुह्य
शिविकां गजेन्द्रमुक्त्युक्तिसंस्तुतिकृतादरःशनैः।
स्नातुमभ्युपगतस्तरङ्गिणीं
दक्षिणापथनिलिम्पनिम्नगाम्॥२४॥
तीरभूरुहसुमानि
तज्जले संनिपत्य सुमनस्त्वमाप्नुवन्।
जातिमात्र
इति तद्गताऽभवद्याक्रिया तदितरेष्वपि स्फुटम्॥२५॥
या प्रवाललहरीं
मनोहरामुद्वहत्यधिवसन्तमम्बुधौ।
तीरचम्पकसुमोत्करा
लसन्त्युत्सवाय कृतदीपिका इव ॥२६॥
शोषकेण
मरुता कथं नु या वर्धिता च कथमित्यविस्मयः।
सा यदुल्लसदनन्तरूपिणी
याति रङ्गपतिशेषतां सदा॥२७॥
सह्यभूधरसरस्सरोजिनीसारसंश्रितमरन्दसन्ततिम्।
या बिभर्ति
परथा रमेत किं तत्र रङ्गपतिभृङ्गतल्लजः ॥२८॥
तत्तटोपवनसीम्नि
वाहनात्सोऽवरुह्य  यमिधुर्यचन्द्रमाः।
क्षालयन्
करपदं समृज्जलैर्दन्तपंक्तिपरिशोधनं व्यधात् ॥२९॥
कल्पिताचमनमत्र
सादरं स्नानकर्म कुरुते स्म शास्त्रतः।
अष्टषड्द्विकषडक्षरैर्हरेर्मानितैर्मनुवरैस्त्रिधा
क्रमात् ॥३०॥
जप्यसूक्तजपशुद्धवारिणा
प्रोक्षयन्यतिवरः शिरो निजम्।
स्नातवान्विहितमृद्विलेपनोऽनुच्छ्वसंस्त्रिरघमर्षणं
जपन्॥३१॥
उच्चरन्प्रणवमुत्थितोऽसिचत्  स्वात्मगं पुरुषसूक्ततो हरिम्।
विष्णुपादसलिलं
पिबन् सुरांस्तर्पितानकृत मन्त्रवारिभिः॥३२॥
सालमल्लकमवस्त
लोहिते वाससी तदनु संयमीश्वरः।
ऊर्ध्वपुण्ड्रमतनिष्ट
गोपिकाचन्दनेन सहपञ्चमुद्रिकम्॥३३॥
अर्घ्यदानविधिदर्घ्यवैभवः
संविधाय हृदि वेदमातरम्।
सादरं
तदनु तारकं ततो मन्त्ररत्नमपि मौनतोऽजपत्॥३४॥
तत्तटोपवनमेत्य
पावनीः सोऽशृणोद्द्विजमुखात्कथा हरेः।
आदिदेशिकसमर्चितोपलव्यासमूर्तिपरिपूजनोत्सुकः॥३५॥
अभ्यषिञ्चदथ
पङ्कजेक्षणं वारिमध्यकृतदुग्धधारया।
संन्यवेदयदयं
मनोहरं मौद्गमन्नमुरुधाऽधिकं नवम्॥३६॥
सम्प्रणम्य
विजयीन्द्रयोगिनं तापसोपमबुधव्रजावृतः।
सोऽधिरुह्य
मणिरम्यपादुके देशिको मठमथ प्रतस्थिवान्॥३७॥
शङ्खदुन्दुभिमृदङ्गकाहलीमड्डुडिण्डिमसुशृङ्गजर्झरैः।
चक्रवाद्यनिनदैश्च
तज्जनाः पूरयन्ति पुरतोऽस्य दिङ्मुखम्॥३८॥
पावयन्नथ
महीं महीं पदे पदे पार्वतीशमभिवन्द्य पद्धतौ।
प्राविशत्स
सुरविष्टपागमो मूर्तिमानिव मठं तथागमः ॥३९॥
शान्तिवाचनपुरस्सरं
वरं भाष्यमेव स विशिष्य संसदि।
व्याकरोति
विदुषां निराकरोत्यन्यदर्शनकुयुक्तिसंहतिम्॥४०॥
ब्रह्म
सद्गुण्मदोषमीक्षितं गम्यमाहुरिह लक्षणैः क्रमात्।
सूत्रभाष्य
इति तेन भाषिते तत्र कश्चन सुधीरचोदयत् ॥४१॥
नित्यवागविषयस्य सर्वथाऽऽरम्भणं
न विषयस्य युज्यते।
नामधेयमिह
यज्जडं मृषा जातमर्थरहितं स्वचिन्तनम्॥४२॥
नात्मतत्वमपि
तत्र नापरश्चेष्टितादिबहुलिङ्गसिद्धितः।
जीवभिन्नपरमोप्यमानको
न स्वयञ्च यदहंधिया मितः ॥४३॥
किञ्च
किं फलममुष्य वेदने कर्मणैव भवति स्वरादिकम्।
नापि
मुक्तिरधुनैव तद्विदां दृश्यते न यदसावपि क्वचित्॥४४॥
अत्र
कश्चिदमुमभ्यचोदयच्छुद्धमस्य विषयः स्वमानसम्।
शुद्धवेदनफलं
वदेन्न चेद् बन्धभङ्ग इति किं ततो वद ॥४५॥
इत्युदीरितगिराऽतिरोषितत्स्तद्वचः
प्रतिवचोऽन्य आददे।
यत्तु
शुद्धमुदितं न मानसं  तन्न युक्तमिति हन्त चिन्त्यते॥४६॥
यन्न
भाति जडजीवभेदनं कर्तृतादिविरहोऽद्वितीयता।
एकतापि
तदसारमात्मनोऽभिन्नमेतदितिचेदसंशयः ॥४७॥
अन्यदेतदिति
नापि युक्तिमत्सन्मृषेति हि विकल्पनाक्षमम्।
तत्स्वरूपमिति
चेन्न भासते तत्र नैव तव युज्यते भ्रमः ॥४८॥
अत्र
तद्भ्रमनिरासनोत्सुकः सस्मितं सदयमब्रवीद्गुरुः।
अस्ति
किञ्चिदहमर्थतः परं विष्णुनाम गुणपूर्णमद्भुतम्॥४९॥
यद्विचारविषये
निगद्यते ब्रह्मनाम परजीवभेदकम्।
मुक्तिरेव
फलमस्य वेदनात् प्रक्रमोऽस्य विषयादिमांस्ततः ॥५०॥
एवमादिपरमात्मचिन्तनैरास्त
संयमिवरोऽतिहर्षितः।
तत्र
सोऽनुभवलिप्सया दिवो मध्यसीमनि रविर्व्यलम्बत॥५१॥
अस्ते
ध्वान्ते समस्ते प्रतिभटसरणीं चत्वरे प्रादुरासी-
    च्छायारूपं तदेतच्छरणमुपगतं पादमूलं
जनानाम् ।
हन्तामन्दप्रतापैरपि
मम किरणैः शक्यते तन्न भेत्तुं
    धिङ्मामित्याकुलोऽर्कः प्रतपति
कलयन्व्योममध्ये विलम्बम्॥५२॥    
   
वक्त्राम्भोजं
विधत्ते ममसुहृदमिति प्राप्तरोषो विवस्वान्
    म्लानं मीनेक्षणानां नयनयुगमयं
कल्पयन्नुल्बणश्रीः।
तच्छायाधारिणोऽस्मानपि
तपति मुहुस्तं समाधेहि पाही-
    त्यारादम्भोजिनीनां शकुनकुलमयादाकुलं पादमूलम् ॥५३॥
माध्यन्दिनस्नानकृते
महान्तं मुनीन्द्रमित्थं किल कालशंसी।
आगत्य
मध्यन्दिनकालमस्मै न्यवेदयत्प्राप्तमदृप्तचेताः॥५४॥
व्याख्याय
शिष्यनिवहाय चिराय सोय-
   माम्नायमौलिवचनानि मनोहराणि।
माध्याह्निकानि  विविधानि विधातुकामः 
   कर्माणि मन्दमुदतिष्ठदुदग्रकीर्तिः ॥५५॥
निष्कुटविलसत्पुष्करवत्यां
पुष्कलकीर्तिर्मस्करिधुर्यः।
साधु
निमज्ज्य सुधीजनमान्यो माधवमङ्गलगेहमयासीत्॥५६॥
ढम्भासोढा
काममम्भोरुहाद्यैरम्भःपूर्णं कुम्भमादौ समर्च्य।
आवाह्यान्तर्मातृकादीनशेषान्
देवान् देवैः पीठगैः पार्श्वगैश्च॥५७॥
शालिग्रामानम्बुजाक्षस्य
मूर्तिं मन्त्राम्भोभिः संयमीन्द्रोऽभिषिच्य।
नव्यैः
पुष्पैरातनिष्टातिरम्यै रत्नैरर्घ्यै रामचन्द्रस्य पूजाम् ॥५८॥
वाजमेधयजिना
विकल्पितं शङ्खवारि शिरसा स धारयन्।
राजसूययजिनापि
सम्मतं विष्णुपादसलिलं पिबत्यसौ ॥५९॥
स्वतः
कवेरजापयोऽनघं हि किं पुनर्हरेः।
पदं
समाश्रितं चतुःपुमर्थदं भवेदिति॥६०॥
पश्चात्कृत्वा
हरिपदनतिं संयमीन्द्रोऽथ भुक्त्वा
  पुण्यं भैक्ष्यं तदनु रचयन् तर्कशब्दादिशास्त्रैः।
विद्वद्रूपैर्विविधनगरात्प्राप्तवद्भिर्विनोदं
  ध्यायन्विष्णुं समयमनयत्सोऽयमासायमेवम्  ॥६१॥     
  
श्रीमत्कश्यपवंशवार्धिशशिनः षड्दर्शनीवल्लभ-
श्रीलक्ष्मीनरसिंहवित्तविदुषः श्रीवेङ्कटाम्बामणौ।
जातेनाऽर्यदयासुधामयगिरा नारायणेनोदिते
काव्ये चारुणि राघवेन्द्रविजये सर्गोऽभवन्नावमः॥६२॥

॥इति कविकुलतिलकेन श्रीनारयणाचार्येण विरचिते श्रीराघवेन्द्रविजये
नवमस्सर्गः समाप्तः॥

Author Socials Follow me