VISHNU SAHASRANAMA – THOUSAND NAMES OF VISHNU

      श्री विष्णुसहस्रनामस्तॊत्रम्
ध्यानम्
शान्ताकारं भुजगशयनं पद्मनाभं सुरॆशं
विश्वाकारं गगनसदृशं  मॆघवर्णं शुभाङ्गम्
लक्ष्मीकान्तं कमलनयनं यॊगिहृद्ध्यानगम्यं
वन्दॆ विष्णुं भवभयहरं सर्वलॊकैकनाथम्
मॆघश्यामं पीतकौशॆयवासं
श्रीवत्साङ्कं कौस्तुभॊद्भासिताङ्गम्
पुण्यॊपॆतं पुण्डरीकायताक्षं
विष्णुं वन्दॆ सर्वलॊकैकनाथम्
सशङ्खचक्रं सकिरीटकुण्डलं
सपीतवस्त्रं सरसीरुहॆक्षणम्
सहारवक्षस्थलशॊभिकौस्तुभं
नमामिविष्णुं शिरसा चतुर्भुजम्
छायायां पारिजातस्य हॆमसिंहासनॊपरि
आसीनमंबुदश्याममायताक्षमलङ्कृतं
चन्द्राननं चतुर्बाहुं श्रीवत्साङ्कितवक्षसं
रुक्मिणीसत्यभामाभ्यां सहितं कृष्णमाश्रयॆ
ऒं विश्वं विष्णुर्वषट्कारॊ भूतभव्यभवत्प्रभुः
भूतकृत् भूतभृत्भावॊ भूतात्मा भूतभावनः
पूतात्मा परमात्मा च मुक्तानांपरमागतिः
अव्ययः पुरुषः साक्षी क्षॆत्रज्ञॊऽक्षर एव च
यॊगॊ यॊगविदांनॆता प्रधानपुरुषॆश्वरः
नारसिंहवपुः श्रीमान् कॆशवः पुरुषॊत्तमः
सर्वः शर्वः शिवः स्थाणुर्भूतादिर्निधिरव्ययः
संभवॊ भावनॊ भर्ता प्रभवः प्रभुरीश्वरः
स्वयंभूः शंभुरादित्यः पुष्कराक्षॊ महास्वनः
अनादिनिधनॊ धाता  विधाता धातुरुत्तमः
अप्रमॆयॊ हृषीकॆशः पद्मनाभॊऽमरप्रभुः  
विश्वकर्मा मनुस्त्वष्टा स्थविष्ठः स्थविरॊ ध्रुवः
अग्राह्यः शाश्वतः कृष्णॊ लॊहिताक्षः प्रतर्दनः
प्रभूतस्त्रिककुब्धाम पवित्रं मङ्गलं परं
ईशानः प्राणदः प्राणॊ ज्यॆष्ठः श्रॆष्ठः प्रजापतिः
हिरण्यगर्भॊ भूगर्भॊ माधवॊ मधुसूदनः
ईश्वरॊ विक्रमी धन्वी मॆधावी विक्रमः क्रमः
अनुत्तमॊ दुराधर्षः कृतज्ञः कृतिरात्मवान्
सुरॆशः शरणं शर्म विश्वरॆताः प्रजाभवः
अहः संवत्सरॊ व्यालः प्रत्ययः सर्वदर्शनः  
अजः सर्वॆश्वरः सिद्धः सिद्धिः सर्वादिरच्युतः
वृषाकपिरमॆयात्मा सर्वयॊगविनिःसृतः
वसुर्वसुमनाः सत्यः समात्माऽसम्मितः समः
अमॊघः पुण्डरीकाक्षॊ वृषकर्मा वृषाकृतिः
रुद्रॊ बहुशिराः बभ्रुर्विश्वयॊनिः शुचिश्रवाः
अमृतः शाश्वतः स्थाणुर्वरारॊहॊ महातपाः
सर्वगः सर्वविद्भानुर्विष्वक्सॆनॊ जनार्दनः
वॆदॊ वेदविदव्यङ्गॊ वॆदाङ्गॊ वॆदवित्कविः
लॊकाध्यक्षः सुराध्यक्षॊ धर्माध्यक्षः कृताकृतः
चतुरात्मा चतुर्व्यूहश्चतुर्दंष्ट्रश्चतुर्भुजः
भ्राजिष्णुर्भॊजनं भॊक्ता सहिष्णुर्जगदादिजः
अनघॊ विजयॊ जॆता विश्वयॊनिः पुनर्वसुः
उपॆन्द्रॊ वामनः प्रांशुरमॊघः शुचिरूर्जितः
अतीन्द्रः संग्रहः सर्गॊ धृतात्मा नियमॊ यमः
वॆद्यॊ वैद्यः सदायॊगी वीरहा माधवॊ मधुः
अतीन्द्रियॊ महामायॊ महॊत्साहॊ महाबलः
महाबुद्धिर्महावीर्यॊ महाशक्तिर्महाद्युतिः
अनिर्दॆश्यवपुः श्रीमानमॆयात्मा महाद्रिधृक्
महॆष्वासॊ महीभर्ता श्रीनिवासः सतांगतिः
अनिरुद्धः सुरानन्दॊ गॊविन्दॊ गॊविदांपतिः
मरीचिर्दमनॊ हंसः सुपर्णॊ भुजगॊत्तमः
हिरण्यनाभः सुतपाः पद्मनाभः प्रजापतिः
अमृत्युः सर्वदृक्सिंहः संधाता सन्धिमांस्थिरः
अजॊ दुर्मर्षणः शास्ता विश्रुतात्मा सुरारिहा
गुरुर्गुरुतमॊ धाम सत्यः सत्यपराक्रमः
निमिषॊऽनिमिषः स्रग्वी वाचस्पतिरुदारधीः
अग्रणीर्ग्रामणीः श्रीमान्न्यायॊनॆता समीरणः
सहस्रमूर्धा विश्वात्मा सहस्राक्षः सहस्रपात्
आवर्तनॊ निवृत्तात्मा संवृतः संप्रमर्दनः
अहः संवर्तकॊ वह्निरनिलॊ धरणीधरः
सुप्रसादः प्रसन्नात्मा विश्वधृग्विश्वभुग्विभुः
सत्कर्ता सत्कृतः साधुर्जन्हुर्नारायणॊ नरः
असंख्यॆयॊऽप्रमॆयात्मा विशिष्टः शिष्टकृच्छुचिः
सिद्धार्थः सिद्धसङ्कल्पः सिद्धिदः सिद्धिसाधनः
वृषाही वृषभॊ विष्णुर्वृषपर्वा वृषॊदरः
वर्धनॊ वर्धमानश्च विविक्तः श्रुतिसागरः
सुभुजॊ दुर्धरॊ वाग्मी महॆन्द्रॊ वसुदॊ वसुः
नैकरूपॊ बृहद्रूपः शिपिविष्टः प्रकाशनः
ऒजस्तॆजॊद्युतिधरः प्रकाशात्मा प्रतापनः
ऋद्धः स्पष्टाक्षरॊ मन्त्रश्चन्द्रांशुर्भास्करद्युतिः
अमृतांशूद्भवॊ भानुः शशबिन्दुः सुरॆश्वरः
औषधं जगतःसॆतुः सत्यधर्मपराक्रमः
भूतभव्यभवन्नाथः पवनः पावनॊऽनलः
कामहा कामकृत्कान्तः कामः कामप्रदः प्रभुः
युगादिकृद्युगावर्तॊ नैकमायॊ महाशनः
अदृश्यॊ व्यक्तरूपश्च सहस्रजिदनन्तजित्
इष्टॊऽविशिष्टः शिष्टॆष्टः शिखण्डी नहुषॊ वृषः
क्रॊधहा क्रॊधकृत्कर्ता विश्वबाहुर्महीधरः
अच्युतः प्रथितः प्राणः प्राणदॊ वासवानुजः
अपांनिधिरधिष्ठानमप्रमत्तः प्रतिष्ठितः
स्कन्दः स्कन्दधरॊ धुर्यॊ वरदॊ वायुवाहनः
वासुदॆवॊ बृहद्भानुरादिदॆवः पुरन्दरः
अशॊकस्तारणस्तारः शूरः शौरिर्जनॆश्वरः
अनुकूलः शतावर्तः पद्मी पद्मनिभॆक्षणः
पद्मनाभॊऽरविन्दाक्षः पद्मगर्भः शरीरभृत्
महर्द्धिः ऋद्धॊ वृद्धात्मा महाक्षॊ गरुडध्वजः
अतुलः शरभॊ भीमः समयज्ञॊ हविर्हरिः
सर्वलक्षणलक्षण्यॊ लक्ष्मीवान् समितिञ्जयः
विक्षरॊ रॊहितॊ मार्गॊ हॆतुर्दामॊदरः सहः
महीधरॊ महाभागॊ वॆगवानमिताशनः
उद्भवः  क्षॊभणॊ दॆवः श्रीगर्भः परमॆश्वरः
करणं कारणं कर्ता विकर्ता गहनॊ गुहः
व्यवसयॊ व्यवस्थानः संस्थानः स्थानदॊ ध्रुवः
परर्द्धिः परमस्पष्टस्तुष्टः पुष्टः शुभॆक्षणः
रामॊ विरामॊ विरजॊ मार्गॊ नॆयॊ नयॊऽनयः
वीरः शक्तिमतांश्रॆष्ठॊ धर्मॊ धर्मविदुत्तमः
वैकुण्ठः पुरुषः प्राणः प्राणदः प्रणवः पृथुः
हिरण्यगर्भः शत्रुघ्नॊ व्याप्तॊ वायुरधॊक्षजः
ऋतुः सुदर्शनः कालः परमॆष्ठी परिग्रहः
उग्रः संवत्सरॊ दक्षॊ विश्रामॊ विश्वदक्षिणः
विस्तारः स्थावरः स्थाणुः प्रमाणं बीजमव्ययं
अर्थॊऽनर्थॊ महाकॊशॊ महाभॊगॊ महाधनः
अनिर्विण्णः स्थविष्ठॊऽभूर्धर्मयूपॊ महामखः
नक्षत्रनॆमिर्नक्षत्री क्षमः क्षामः समीहनः
यज्ञ इज्यॊ महॆज्यश्च क्रतुः सत्रं सतांगतिः
सर्वदर्शी विमुक्तात्मा सर्वज्ञॊ ज्ञानमुत्तमम्
सुव्रतः सुमुखः सूक्ष्मः सुघॊषः सुखदः सुहृत्
मनॊहरो जितक्रॊधॊ वीरबाहुर्विदारणः
स्वापनः स्ववशॊ व्यापी नैकात्मा नैककर्मकृत्
वत्सरॊ वत्सलॊ वल्त्सी रत्नगर्भॊ धनॆश्वरः
धर्मगुब्धर्मकृद्धर्मी सदसत्क्षरमक्षरं
अविज्ञाता सहस्रांशुर्विधाता कृतलक्षणः
गभस्तिनॆमिः सत्त्वस्थः सिंहॊ भूतमहॆश्वरः
आदिदॆवॊ महादॆवॊ दॆवॆशॊ दॆवभृद्गुरुः
उत्तरॊ गॊपतिर्गॊप्ता ज्ञानगम्यः पुरातनः
शरीरभूतभृद्भॊक्ता कपीन्द्रॊ भूरिदक्षिणः
सॊमपॊऽमृतपः सॊमः पुरुजित्पुरुसत्तमः
विनयॊ जयः सत्यसन्धॊ दाशार्हः सात्त्वतांपतिः
जीवॊ विनयिता साक्षी मुकुन्दॊऽमितविक्रमः
अम्भॊनिधिरनन्तात्मा महॊदधिशयॊऽन्तकः
अजॊ महार्हः स्वाभाव्यॊ जितामित्रः प्रमॊदनः
आनन्दॊ नन्दनॊ नन्दः सत्यधर्मा त्रिविक्रमः
महर्षिः कपिलाचार्यः कृतज्ञॊ मॆदिनीपतिः
त्रिपदस्त्रिदशाध्यक्षॊ महाशृङ्गः कृतान्तकृत्
महावराहॊ गॊविन्दः सुषॆणः कनकाङ्गदी
गुह्यॊ गभीरॊ गहनॊ गुप्तश्चक्रगदाधरः
वॆधाः स्वाङ्गॊऽजितः कृष्णॊ दृढः सङ्कर्षणॊऽच्युतः
वरुणॊ वारुणॊ वृक्षः पुष्कराक्षॊ महामनाः
भगवान्भगहाऽऽनन्दी वनमाली हलायुधः
आदित्यॊ ज्यॊतिरादित्यः सहिष्णुर्गतिसत्तमः
सुधन्वा खण्डपरशुर्दारुणॊ द्रविणप्रदः
दिविस्पृक्सर्वदृग्व्यासॊ वाचस्पतिरयॊनिजः
त्रिसामा सामगः साम निर्वाणं भॆषजं भिषक्
सन्यासकृच्छमः शान्तॊ निष्ठा शान्तिः परायणम्
शुभाङ्गः शान्तिदः स्रष्टा कुमुदः कुवलॆशयः
गॊहितॊ गॊपतिर्गॊप्ता वृषभाक्षॊ वृषप्रियः
अनिवर्ती निवृत्तात्मा संक्षॆप्ता क्षॆमकृच्छिवः
श्रीवत्सवक्षाः श्रीवासः श्रीपतिः श्रीमतांवरः
श्रीदः श्रीशः श्रीनिवासः श्रीनिधिः श्रीविभावनः
श्रीधरः श्रीकरः श्रॆयः श्रीमान् लॊकत्रयाश्रयः
स्वक्षः स्वङ्गः शतानन्दॊ नन्दिर्ज्यॊतिर्गणॆश्वरः
विजितात्माऽविधॆयात्मा सत्कीर्तिश्छिन्नसंशयः
उदीर्णः सर्वतश्चक्षुरनीशः शाश्वतः स्थिरः
भूशयॊ भूषणॊ भूतिर्विशॊकः शॊकनाशनः
अर्चिष्मानर्चितः कुम्भॊ विशुद्धात्मा विशॊधनः
अनिरुद्धॊऽप्रतिरथः प्रद्युम्नॊऽमितविक्रमः
कालनॆमिनिहा वीरः शौरिः शूरजनॆशरः
त्रिलॊकात्मा त्रिलॊकॆशः कॆशवः कॆशिहा हरिः
कामदॆवः कामपालः कामी कान्तः कृतागमः
अनिर्दॆश्यवपुर्विष्णुर्वीरॊऽनन्तॊ धनंजयः
ब्रह्मण्यॊ ब्रह्मकृद्ब्रह्मा ब्रह्म ब्रह्मविवर्धनः
ब्रह्मविद्ब्राह्मणॊ ब्रह्मी ब्रह्मज्ञॊ ब्राह्मणप्रियः
महाक्रमॊ महाकर्मा महातॆजा महॊरगः
महाक्रतुर्महायज्वा महायज्ञॊ महाहविः
स्तव्यः स्तवप्रियः स्तॊत्रं स्तुतिः स्तॊता रणप्रियः
पूर्णः पूरयिता पुण्यः पुण्यकीर्तिरनामयः
मनॊजवस्तीर्थकरॊ वसुरॆता वसुप्रदः
वसुप्रदॊ वासुदॆवॊ वसुर्वसुमना हविः
सद्गतिः सत्कृतिः सत्ता सद्भूतिः सत्परायणः
शूरसॆनॊ यदुश्रॆष्ठः सन्निवासः सुयामुनः
भूतावासॊ वासुदॆवः सर्वासुनिलयॊऽनलः
दर्पहा दर्पदॊ दृप्तॊ दुर्धरॊऽथापराजितः
विश्वमूर्तिर्महामूर्तिर्दीप्तमूर्तिरमूर्तिमान्
अनॆकमूर्तिरव्यक्तः शतमूर्तिः शताननः
एको नैकः सवः कः किं यत्तत् पदमनुत्तमं
लॊकबन्धुर्लॊकनाथॊ  माधवॊ भक्तवत्सलः
सुवर्णवर्णॊ हॆमाङ्गॊ वराङ्गश्चन्दनाङ्गदी
वीरहा विषमः शून्यॊ घृताशीरचलश्चलः
अमानी मानदॊ मान्यॊ लॊकस्वामी त्रिलॊकधृक्
सुमॆधाः मॆधजॊ धन्यः सत्यमॆधा धराधरः  
तॆजोवृषॊ द्युतिधरः सर्वशस्त्रभृतां वरः
प्रग्रहो निग्रहॊ व्यग्रॊ नैकशृङ्गॊ गदाग्रजः
चतुर्मूर्तिर्चतुर्बाहुश्चतुर्व्यूहश्चतुर्गतिः
चतुरात्मा चतुर्भावश्चतुर्वॆदविदॆकपात्
समावर्तॊऽनिवृत्तात्मा दुर्जयॊ दुरतिक्रमः
दुर्लभॊ दुर्गमॊ दुर्गॊ दुरावासॊ दुरारिहा
शुभाङ्गॊ लॊकसारङ्गः सुतन्तुस्तन्तुवर्धनः
इन्द्रकर्मा महाकर्मा कृतकर्मा कृतागमः
उद्भवः सुन्दरः सुन्दॊ रत्ननाभः सुलॊचनः
अर्कॊ वाजसनः शृङ्गी जयन्तः सर्वविज्जयी
सुवर्णाबिन्दुरक्षॊभ्यः सर्ववागीश्वरॆश्वरः
महाह्रदॊ महागर्तॊ महाभूतॊ महानिधिः
कुमुदः कुन्दरः कुन्दः पर्जन्यः पावनॊऽनिलः
अमृताशॊऽमृतवपुः सर्वज्ञः सर्वतॊमुखः
सुलभः सुव्रतः सिद्धः शत्रुजिच्छत्रुतापनः
न्यग्रॊधॊदुंबरॊऽश्वत्थश्चाणूरान्ध्रनिषूदनः
सहस्रार्चिः सप्तजिह्वः सप्तैधाः सप्तवाहनः
अमूर्तिरनघॊऽचिन्त्यॊ भयकृद्भयनाशनः
अणुर्बृहत्कृशः स्थूलॊ गुणभृन्निर्गुणो महान्
अधृतः स्वधृतः स्वास्यः प्राग्वंशॊ वंशवर्धनः
भारभृत्कथितॊ यॊगी यॊगीशः सर्वकामदः
आश्रमः श्रमणः क्षामः सुपर्णॊ वायुवाहनः
धनुर्धरो धनूर्वॆदॊ दण्डो दमयिता दमः
अपराजितः सर्वसहॊ नियन्ताऽनियमॊऽयमः
सत्ववान् सात्विकः सत्यः सत्यधर्मपरायणः
अभिप्रायः प्रियार्हॊऽर्हः प्रियकृत्प्रीतिवर्धनः
विहायसगतिर्ज्यॊतिः सुरुचिर्हुतभुग्विभुः
रविर्विलॊचनः सूर्यः सविता रविलॊचनः
अनन्तॊ हुतभुग्भॊक्ता सुखदॊ नैकदॊऽग्रजः
अनिर्विण्णः सदामर्षी लॊकाधिष्ठानमद्भुतः
सनात्सनातनतमः कपिलः कपिरप्ययः
स्वस्तिदः स्वस्तिकृत्स्वस्ति स्वस्तिभुक्स्वस्तिदक्षिणः
अरौद्रः कुण्डली चक्री विक्रम्यूर्जितशासनः
शब्दातिगः शब्दसहः शिशिरः शर्वरीकरः
अक्रूरः पॆशलॊ दक्षॊ दक्षिणः क्षमिणां वरः
विद्वत्तमॊ वीतभयः पुण्यश्रवणकीर्तनः
उत्तारणॊ दुष्कृतिहा पुण्यॊ दुःस्वप्ननाशनः
वीरहा रक्षणः सन्तॊ जीवनः पर्यवस्थितः
अनन्तरूपॊऽनन्तश्रीर्जितमन्युर्भयापहः
चतुरस्रो गभीरात्मा विदिशॊ व्यादिशॊ दिशः
  
अनादिर्भूर्भुवॊ लक्ष्मीः सुवीरॊ रुचिराङ्गदः
जननॊ जनजन्मादिर्भीमॊ भीमपराक्रमः
आधारनिलयॊऽधाता पुष्पहासः प्रजागरः
ऊर्ध्वगः सप्तथाचारः प्राणदः प्रणवः पणः
प्रमाणं प्राणनिलयः प्राणभृत्प्राणजीवनः
तत्त्वं तत्त्वविदॆकात्मा जन्ममृत्युजरातिगः
भूर्भुवःस्वस्तरुस्तारः सविता प्रपितामहः
यज्ञॊ यज्ञपतिर्यज्वा यज्ञाङ्गो यज्ञवाहनः
यज्ञभृद्यज्ञकृद्यज्ञी यज्ञभुग्यज्ञसाधनः
यज्ञान्तकृद्यज्ञगुह्यमन्नमन्नाद एव च
आत्मयॊनिः स्वयंजातॊ वैखानः सामगायनः
दॆवकीनन्दनः स्रष्टा क्षितीशः पापनाशनः
शङ्खभृन्नन्दकी चक्री शाङ्‌र्गधन्वा गदाधरः
रथाङ्गपाणिरक्षॊभ्यः सर्वप्रहरणायुधः
         सर्वप्रहरणायुध ॐ नम इति
वनमाली गदी शाङ्‌र्गी शङ्खी चक्री च नन्दकी
श्रीमान्नारायणॊ विष्णुर्वासुदॆवॊऽभिरक्षतु
      श्री वासुदॆवॊऽभिरक्षतु ऒं नम इति

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

1 Comment on VISHNU SAHASRANAMA – THOUSAND NAMES OF VISHNU

  1. The language sanskrit should be learned by one and all and sanskrit verses should be chanted accordingly, then only the exact pronunciation will be there and it will extended to our future community.

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.