२३. श्रीनरसिंहाष्टकम्
श्रीमदकलङ्कपरिपूर्णशशिकोटि-
श्रीधर मनोहरसटापटलकान्त ।
पालय कृपालय भवाम्बुधिनिमग्नं
दैत्यवरकाल नरसिंह नरसिंह ॥ १ ॥
दैत्यवरकाल नरसिंह नरसिंह ॥ १ ॥
पादकमलावनतपातकिजनानां
पातकदवानलपतत्रि वरकेतो ।
पातकदवानलपतत्रि वरकेतो ।
भावनपरायण भवार्तिहरया मां
पाहि कृपयैव नरसिंह नरसिंह ॥ २ ॥
पाहि कृपयैव नरसिंह नरसिंह ॥ २ ॥
तुङ्गनखपङ्क्तिदलितासुरवरासृ-
क्पङ्कनवकुङ्कुमविपङ्किलमहोरः ।
पण्डितनिधान कमलालय नमस्ते
पङ्कजनिषण्ण नरसिंह नरसिंह ॥ ३ ॥
पङ्कजनिषण्ण नरसिंह नरसिंह ॥ ३ ॥
मौलिषु विभूषणमिवामरवराणां
योगिहृदयेषु च शिरस्सु निगमानाम् ।
योगिहृदयेषु च शिरस्सु निगमानाम् ।
राजदरविन्दरुचिरं पदयुगं ते
धेहि मम मूर्ध्नि नरसिंह नरसिंह ॥ ४ ॥
धेहि मम मूर्ध्नि नरसिंह नरसिंह ॥ ४ ॥
वारिजविलोचन मदन्तिमदशायां
क्लेशविवशीकृतसमस्तकरणायाम् ।
क्लेशविवशीकृतसमस्तकरणायाम् ।
एहि रमया सह शरण्य विहगानां
नाथमधिरुह्य नरसिंह नरसिंह ॥ ५ ॥
नाथमधिरुह्य नरसिंह नरसिंह ॥ ५ ॥
हाटककिरीटवरहारवनमाला-
ताररशनामकरकुण्डलमणीन्द्रैः ।
भूषितमशेषनिलयं तव वपुर्मे
चेतसि चकास्तु नरसिंह नरसिंह ॥ ६ ॥
चेतसि चकास्तु नरसिंह नरसिंह ॥ ६ ॥
इन्दुरविपावकविलोचन रमाया
मन्दिर महाभुजलसद्वररथाङ्ग ।
सुन्दर चिराय रमतां त्वयि मनो मे
नन्दितसुरेश नरसिंह नरसिंह ॥ ७ ॥
नन्दितसुरेश नरसिंह नरसिंह ॥ ७ ॥
माधव मुकुन्द मधुसूदन मुरारे
वामन नृसिंह शरणं भव नतानाम् ।
वामन नृसिंह शरणं भव नतानाम् ।
कामद घृणिन् निखिलकारण नयेयं
कालममरेश नरसिंह नरसिंह ॥ ८ ॥
कालममरेश नरसिंह नरसिंह ॥ ८ ॥
अष्टकमिदं सकलपातकभयघ्नं
कामदमशेषदुरितामयरिपुघ्नम् ।
कामदमशेषदुरितामयरिपुघ्नम् ।
यः पठति सन्ततमशेषनिलयं ते
गच्छति पदं स नरसिंह नरसिंह ॥ ९ ॥
गच्छति पदं स नरसिंह नरसिंह ॥ ९ ॥
Thanks a lot