HYMNS TO SHIVA – DASASLOKI STUTI

दशश्लोकीस्तुतिः
       (श्री शंकराचार्यकृतम्)
 
साम्बो नः कुलदैवतं पशुपते साम्ब त्वदीया वयं
साम्बं स्तौमि सुरासुरोरगगणाः साम्बेन संतारिताः ।
साम्बायास्तु नमो मया
विरचितं साम्बात्परं नो भजे
साम्बस्यानुचरोऽस्म्यहं मम रतिः साम्बे परब्रह्मणि ॥ १ ॥
विष्ण्वाद्याश्च पुरत्रयं सुरगणाः जेतुं न शक्ताः स्वयं
यं शंभुं भगवन्वयं तु पशवोऽस्माकं त्वमेवेश्वरः ।
स्वस्वस्थाननियोजितास्सुमनसः स्वस्था बभूवुस्ततः
तस्मिन् मे हृदयं सुखेन रमतां साम्बे परब्रह्मणि ॥ २ ॥
क्षोणी यस्य रथो रथाङ्गयुगलं चन्द्रार्कबिम्बद्वयं
कोदण्डः कनकाचलॊ हरिरभूद्बाणो विधिः सारथिः ।
तूणीरो जलधिर्हयाः श्रुतिचयो मौर्वी भुजङ्गाधिपः
तस्मिन् मे हृदयं सुखेन रमतां साम्बे परब्रह्मणि ॥ ३ ॥
येनापादितमङ्गजाङ्गभसितं दिव्याङ्गरागैः समं
येन स्वीकृतमब्जसंभवशिरः सौवर्णपात्रैः समम् ।
येनाङ्गीकृतमच्युतस्य नयनं पूजारविन्दैः समं
तस्मिन् मे हृदयं सुखेन रमतां साम्बे परब्रह्मणि ॥ ४ ॥
गोविन्दादधिकं न दैवतमिति प्रोच्चार्य हस्तावुभा-
वुद्धृत्याथ शिवस्य सन्निधिगतो व्यासो मुनीनां वरः ।
यस्य स्थंभितपाणिरानतिकृता नन्दीश्वरेणाभवत्
तस्मिन् मे हृदयं सुखेन रमतां साम्बे परब्रह्मणि ॥ ५ ॥
आकाशश्चिकुरायते दशदिशाभोगो दुकूलायते
शीतांशुः प्रसवायते स्थिरतरानन्द स्वरूपायते ।
वेदान्तो निलयायते सुविनयो यस्य स्वभावायते
तस्मिन् मे हृदयं सुखेन रमतां साम्बे परब्रह्मणि ॥ ६ ॥
विष्णुर्यस्य सहस्रनामनियमादम्भोरुहाण्यर्चय-
न्नेकोनोपचितेषु नेत्रकमलं नैजं पदाब्जद्वये ।
संपूज्यासुरसंहतिं विदलयंस्त्रैलोक्यपालोऽभवत्
तस्मिन् मे हृदयं सुखेन रमतां साम्बे परब्रह्मणि ॥ ७ ॥
शौरिं सत्यगिरं वराहवपुषं पादाम्बुजादर्शने
चक्रे यो दयया समस्तजगतां नाथं शिरोदर्शने ।
मिथ्यावाचमपूज्यमेव सततं हंसस्वरूपं विधिं
तस्मिन् मे हृदयं सुखेन रमतां साम्बे परब्रह्मणि ॥ ८ ॥
यस्यासन्धरणीजलाग्निपवनव्योमार्कचन्द्रादयो
विख्यातास्तनवोऽष्टधा परिणता नान्यत्ततो वर्तते ।
ॐकारार्थविवेचनी श्रुतिरियं चाचष्ट तुर्यं शिवं
तस्मिन् मे हृदयं सुखेन रमतां साम्बे परब्रह्मणि ॥ ९ ॥
विष्णुब्रह्मसुराधिपप्रभृतयः सर्वेऽपि देवा यदा
संभूताज्जलधेर्विषात्परिभवं प्राप्तास्तदा सत्वरम् ।
तानार्तान् शरणागतानिति सुरान्योऽरक्षदर्धक्षणात्
तस्मिन् मे हृदयं सुखेन रमतां साम्बे परब्रह्मणि ॥ १० ॥

                 ***

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

2 Comments on HYMNS TO SHIVA – DASASLOKI STUTI

  1. Your blog is great你的部落格真好!!
    If you like, come back and visit mine.

    Thank you!!Wang Han Pin(王翰彬)
    From Taichung,Taiwan(台灣)

This site uses Akismet to reduce spam. Learn how your comment data is processed.