शिवाष्टकम्
(ब्रह्मवैवर्तपुराणान्तर्गतम्)
प्रभुं प्राणनाथं विभुं विश्वनाथं
जगन्नाथनाथं सदाऽऽनन्दभाजां ।
भवत्भव्यभूतेश्वरं भूतनाथं
शिवं शंकरं शंभुमीशानमीडे ॥ १ ॥
गले रुण्डमालं तनौ सर्पजालं
महाकालकालं गणेशादिपालम् ।
जटाजूटगङ्गोत्तरङ्गोत्तमाङ्गं
शिवं शंकरं शंभुमीशानमीडे ॥ २ ॥
मुदामाकरं मण्डनं मण्डनानां
महोमण्डलं भस्मभूषाधरं तम् ।
अनादिं ह्यपारं महामोहमारं
शिवं शंकरं शंभुमीशानमीडे ॥ ३ ॥
वटाधोनिवासं महाट्टाट्टहासं
महापापनाशं सदा सुप्रकाशम् ।
गिरीशं गणेशं सुरेशं महेशं
शिवं शंकरं शंभुमीशानमीडे ॥ ४ ॥
गिरीन्द्रात्मजासंगृहीतार्धदेहं
गिरौ संस्थितं सर्वदाऽऽसन्नगेहम् ।
परं ब्रह्म देवादिभिर्वन्द्यमानं
शिवं शंकरं शंभुमीशानमीडे ॥ ५ ॥
कपालं त्रिशूलं कराभ्यां दधानं
पदांभोजनम्राय कामं ददानम् ।
वलीवर्दयानं सुराणां प्रधानं
शिवं शंकरं शंभुमीशानमीडे ॥ ६ ॥
शरच्चन्द्रगात्रं गणानन्दपात्रं
त्रिनॆत्रं पवित्रं धनेशस्य मित्रम् ।
अपर्णाकलत्रं सदा सच्चरित्रं
शिवं शंकरं शंभुमीशानमीडे ॥ ७ ॥
हरं सर्पहारान्वितं गोविहारं
भवं वेदसारं सदा निर्विकारम् ।
श्मशाने वसन्तं मनोजं दहन्तं
शिवं शंकरं शंभुमीशानमीडे ॥ ८ ॥
स्तवं यः प्रभाते नरः शूलपाणेः
पठेत् सर्वदा भर्गभावानुरक्तः ।
स पुत्रं धनं धान्यमित्रं कलत्रं
विचित्रं समासाद्य मोक्षं प्रयाति ॥ ९ ॥
Click here for an audio of this stotram
Click here to get to the Master Index from where you can access more than 600 posts
You must log in to post a comment.