HYMNS TO SRIMATA – GNANAPRASOONAMBIKA STOTRAM

ज्ञानप्रसूनाम्बिकास्तोत्रम्
माणिक्यान्ञ्चितभूषणां मणिरवां माहेन्द्रनीलोज्ज्वलां
मन्दारद्रुममाल्यभूषितकचां मत्तेभकुम्भस्तनीम् ।
मौलिस्तोमनुतां मरालगमनां माध्वीरसानन्दिनीं
ध्याये चेतसि कालहस्तिनिलयां ज्ञानप्रसूनाम्बिकाम् ॥ १ ॥
श्यामां राजनिभाननां रतिहितां राजीवपत्रेक्षणां
राजत्काञ्चनरत्नभूषणयुतां राज्यप्रदानेश्वरीम् ।
रक्षोगर्वनिवारणां त्रिजगतां रक्षैकचिन्तामणिं
ध्याये चेतसि कालहस्तिनिलयां ज्ञानप्रसूनाम्बिकाम् ॥ २ ॥
कल्याणीं करिकुम्भभासुरकुचां कामेश्वरीं कामिनीं
कल्याणाचलवासिनीं कलरवां कन्दर्पविद्याकलाम् ।
कञ्जाक्षीं कलबिन्दुकल्पलतिकां कामारिचित्तप्रियां
ध्याये चेतसि कालहस्तिनिलयां ज्ञानप्रसूनाम्बिकाम् ॥ ३ ॥
भावातीत मनःप्रभावभरितां ब्रह्माण्डभाण्डोदरीं
बालां बालकुरङ्गनेत्रयुगलां भानुप्रभाभासिताम् ।
भास्वत्क्षेत्ररुचाभिरामनिलयां भव्यां भवानीं शिवां
ध्याये चेतसि कालहस्तिनिलयां ज्ञानप्रसूनाम्बिकाम् ॥ ४ ॥
वीणागानविनोदिनीं विजयिनीं वेतण्डकुम्भस्तनीं
विद्वद्वन्दितपादपद्मयुगलां विद्याप्रदां शंकरीम् ।
विद्वेषिण्यरिभञ्जिनीं स्तुतिभवां वेदान्तवेद्यां शिवां
ध्याये चेतसि कालहस्तिनिलयां ज्ञानप्रसूनाम्बिकाम् ॥ ५ ॥
नानाभूषितभूषणादिविमलां लावण्यपाथोनिधिं
काञ्चीचंचलघाटिका कलरवां कञ्जातपत्रेक्षणाम् ।
कर्पूरागरुकुङ्कुमाङ्कितकुचां कैलासनाथप्रियां
ध्याये चेतसि कालहस्तिनिलयां ज्ञानप्रसूनाम्बिकाम् ॥ ६ ॥
मन्जीराञ्चितपादपद्मयुगलां माणिक्यभूषान्वितां
मन्दारद्रुममञ्जरीमधुझरी माधुर्यखेलत्गिराम् ।
मातङ्गीं मदिरालसां करशुकां नीलालकालंकृतां
ध्याये चेतसि कालहस्तिनिलयां ज्ञानप्रसूनाम्बिकाम् ॥ ७ ॥
कर्णालम्बितहेमकुण्डलयुगां कादम्बवेणीमुमां
अम्भॊजासनवासवादिविनुतां अर्द्धेन्दुभूषोज्ज्वलाम् ।
कस्तूरीतिलकाभिरामनिटिलां गानप्रियां श्यामलां
ध्याये चेतसि कालहस्तिनिलयां ज्ञानप्रसूनाम्बिकाम् ॥ ८ ॥
कौमारीं नवपल्लवाङ्घ्रियुगलां कर्पूरभासोज्ज्वलां
गंगावर्तसमाननाभिकुहरां गांगेयभूषान्विताम् ।
चन्द्रार्कानलकोटिकोटिसदृशां चन्द्रार्कबिम्बाननां
ध्याये चेतसि कालहस्तिनिलयां ज्ञानप्रसूनाम्बिकाम् ॥ ९ ॥
बालादित्यनिभाननां त्रिनयनां बालेन्दुना भूषितां
नीलाकारसुकेशिनीं विलसितां नित्यान्नदानप्रदाम् ।
शङ्खं चक्रवराभयं च दधतीं सारस्वतार्थप्रदां
ध्याये चेतसि कालहस्तिनिलयां ज्ञानप्रसूनाम्बिकाम् ॥ १० ॥

         

                  ***

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.