HYMNS TO SRIMATA – SRI BHAVANI ASHTAKAM

२. श्रीभवान्यष्टकम्
न तातो न माता न बन्धुर्न दाता
न पुत्रो न पुत्री न भृत्यो न भर्ता ।
न जाया न विद्या न वृत्तिर्ममैव
गतिस्त्वं गतिस्त्वं त्वमेका भवानि ॥ १ ॥
भवाब्धावपारे महादुःखभीरुः
पपात प्रकामी प्रलोभी प्रमत्तः ।
कुसंसारपाशप्रबद्धः सदाहम्
गतिस्त्वं गतिस्त्वं त्वमेका भवानि ॥ २ ॥
न जानामि दानं न च ध्यानयोगं
न जानामि तन्त्रं न च स्तोत्रमन्त्रम् ।
न जानामि पूजां न च न्यासयोगं
गतिस्त्वं गतिस्त्वं त्वमेका भवानि ॥ ३ ॥
न जानामि पुण्यं न जानामि तीर्थं
न जानामि मुक्तिं लयं वा कदाचित् ।
न जानामि भक्तिं व्रतं वापि मातः
गतिस्त्वं गतिस्त्वं त्वमेका भवानि ॥ ४ ॥
कुकर्मी कुसङ्गी कुबुद्धिः कुदासः
कुलाचारहीनः कदाचारलीनः ।
कुदृष्टिः कुवाक्यप्रबन्धः सदाहं
गतिस्त्वं गतिस्त्वं त्वमेका भवानि ॥ ५ ॥
प्रजेशं रमेशं महेशं सुरेशं
दिनेशं निशीथेश्वरं वा कदाचित् ।
न जानामि चान्यत् सदाहं शरण्ये
गतिस्त्वं गतिस्त्वं त्वमेका भवानि ॥ ६ ॥
विवादे विषादे प्रमादे प्रवासे
जले चानले पर्वते शत्रुमध्ये ।
अरण्ये शरण्ये सदा मां प्रपाहि
गतिस्त्वं गतिस्त्वं त्वमेका भवानि ॥ ७ ॥
अनाथो दरिद्रो जरारोगयुक्तो
महाक्षीणदीनः सदा जाड्यवक्त्रः ।
विपत्तौ प्रविष्टः प्रणष्टः सदाहं
गतिस्त्वं गतिस्त्वं त्वमेका भवानि ॥ ८ ॥

***
Click here for an audio rendering of this stotra


HYMNS TO SRIMATA – SRI LALITA PANCHARATNA STOTRAM

१. श्रीललितापञ्चरत्नम्
  ( श्री शंकराचार्यकृतम्)
प्रातः स्मरामि ललितावदनारविन्दं
बिम्बाधरं पृथुलमौक्तिकशोभिनासम् ।
आकर्णदीर्घनयनं मणिकुण्डलाढ्यं
मन्दस्मितं मृगमदोज्ज्वलभालदेशम् ॥ १ ॥
प्रातर्भजामि ललिताभुजकल्पवल्लीं
रत्नाङ्गुलीयलसदङ्गुळिपल्लवाढ्याम् ।
माणिक्यहेमवलयाङ्गदशोभमानां
पुण्ड्रेक्षुचापकुसुमेषुसृणीदधानाम् ॥ २ ॥
प्रातर्नमामि ललिताचरणारविन्दं
भक्तेष्टदाननिरतं भवसिन्धुपोतम् ।
पद्मासनादि सुरनायकपूजनीयं
पद्माङ्कुशध्वजसुदर्शनलाञ्छनाढ्यम् ॥ ३ ॥
प्रातः स्तुवे परशिवां ललितां भवानीं
त्रय्यन्तवेद्यविभवां करुणानवद्याम् ।
विश्वस्य सृष्टिविलयस्थितिहेतुभूतां
विश्वेश्वरीं निगमवाङ्मनसातिदूराम् ॥ ४ ॥
प्रातर्वदामि ललिते तव पुण्यनाम
कामेश्वरीति कमलेति महेश्वरीति ।
श्रीशांभवीति जगतां जननी परेति
वाग्देवतेति वचसा त्रिपुरेश्वरीति ॥ ५ ॥
यः श्लोकपञ्चकमिदं ललिताम्बिकायाः
सौभाग्यदं सुललितं पठति प्रभाते ।
तस्मै ददाति ललिता झटिति प्रसन्ना
विद्यां श्रियं विमलसौख्यमनन्तकीर्तिम् ॥ ६ ॥

              ***

HYMNS TO SRIMATA – BHAVANI BHUJANGAM

भवानीभुजङ्गम्
 
षडाधारपङ्केरुहान्तर्विराजत्
सुषुम्नान्तरालेऽतितेजोल्लसन्तीम् ।
सुधामण्डलं द्रावयन्तीं पिबन्तीं
सुधामूर्तिमीडे चिदानन्दरूपाम् ॥ १ ॥
ज्वलत्कोटिबालार्कभासारुणांगीं
सलावण्यशृंगारशोभाभिरामाम् ।
महापद्मकिञ्जल्कमध्येविराजत्
त्रिकोणे निषण्णां भजे श्रीभवानीम् ॥ २ ॥
क्वणत्किङ्किणीनूपुरोद्भासिरत्न-
प्रभालीढलाक्षार्द्रपादाब्जयुग्मम् ।
अजेशाच्युताद्यैः सुरैः सेव्यमानं
महादेवि मन्मूर्ध्नि ते भावयामि ॥ ३ ॥
सुशोणाम्बराबद्धनीवीविराज-
न्महारत्नकाञ्चीकलापं नितम्बम् ।
स्फुरद्दक्षिणावर्तनाभिं च तिस्रो
वलीरम्ब ते रोमराजीं भजेऽहम् ॥ ४ ॥
लसद्वृत्तमुत्तुङ्गमाणिक्यकुंभो-
पमश्री स्तनद्वन्द्वमम्बाम्बुजाक्षि ।
भजे दुग्धपूर्णाभिरामं तवेदं
महाहारदीप्तं सदा प्रस्नुतास्यम् ॥ ५ ॥
शिरीषप्रसूनोल्लसद्बाहुदण्डै-
र्ज्वलद्बाणकोदण्डपाशाङ्कुशैश्च ।
चलत्कङ्कणोदारकेयूरभूषो-
ज्ज्वलद्भिर्लसन्तीं भजे श्रीभवानीम् ॥ ६ ॥
शरत्पूर्णचन्द्रप्रभापूर्णबिम्बा-
धरस्मेरवक्त्रारविन्दां सुशान्ताम् ।
सुरत्नावलीहारताटङ्कशोभां
महासुप्रसन्नां भजे श्रीभवानीम् ॥ ७ ॥
सुनासापुटं सुन्दरभ्रूललाटं
तवौष्ठश्रियं दानदक्षं कटाक्षम् ।
ललाटे लसद्गन्धकस्तूरिभूषं
स्फुरच्छ्रीमुखाम्भोजमीड्येऽहमम्ब ॥ ८ ॥
चलत्कुन्तलान्तर्भ्रमद्भृङ्गवृन्दं
घनस्निग्द्धधम्मिल्लभूषोज्ज्वलं ते ।
स्फुरन्मौलिमाणिक्यबद्धेन्दुरेखा-
विलासोल्लसद्दिव्यमूर्धानमीडे ॥ ९ ॥
इति श्रीभवानी स्वरूपं तवेदं
प्रपञ्चात्परं चातिसूक्ष्मं प्रसन्नम् ।
स्फुरत्वम्ब डिंभस्य मे हृत्सरोजे
सदा वाङ्मयं सर्वतेजोमयं च ॥ १० ॥
गणेशाभिमुख्याखिलैः शक्तिवृन्दैर्-
वृतां वै स्फुरच्चक्रराजोल्लसन्तीम् ।
परां राजराजेश्वरि त्रैपुरि त्वां
शिवाङ्कोपरिस्थां शिवां भावयामि ॥ ११ ॥
त्वमर्कस्त्वमिन्दुस्त्वमग्निस्त्वमाप-
स्त्वमाकाशभूवायवस्त्वं महत्त्वम् ।
त्वदन्यो न कश्चित्प्रपञ्चेऽस्ति सर्वं
त्वामानन्दसंवित्स्वरूपां भजेऽहम् ॥ १२ ॥
श्रुतीनामगम्ये सुवेदागमज्ञा
महिम्नो न जानन्ति पारं तवाम्ब ।
स्तुतिं कर्तुमिच्छामि ते त्वं भवानि
क्षमस्वेदमत्र प्रमुग्द्धः किलाहम् ॥ १३ ॥
गुरुस्त्वं शिवस्त्वं च शक्तिस्त्वमेव
त्वमेवासि माता पिता च त्वमेव ।
त्वमेवासि विद्या त्वमेवासि बन्धुर्-
गतिर्मे मतिर्देवि सर्वं त्वमेव ॥ १४ ॥
इतीमां महच्छ्रीभवानीभुजंग-
स्तुतिं यः पठेद्भक्तियुक्तश्च तस्मै ।
स्वकीयं पदं शाश्वतं वेदसारं
श्रियं चाष्टसिद्धिं भवानी ददाति ॥ १५ ॥
भवानी भवानी भवानी त्रिवार-
मुदारं मुदा सर्वदा ये जपन्ति ।
न शोकं न मोहं न पापं न भीतिः
कदाचित् कथंचित् कुतश्चिज्जनानाम् ॥ १६ ॥

                   ***

 Click here for sri Ramachander’s English translation

Click here for an audio rendering of this stotram

HYMNS TO SRIMATA – SRI AMBASHTAKAM

     ८. श्री अम्बाष्टकम्
       ( श्री शंकराचार्यकृतम्)
 चाञ्चल्यारुणलोचनाञ्चितकृपां चन्द्रार्धचूडामणिं
चारुस्मेरमुखां चराचरजगत्संरक्षणे तत्पराम् ।
चञ्चच्चम्पकनासिकाग्रविलसन्मुक्तामणीरञ्जितां
श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥ १ ॥
कस्तूरीतिलकाञ्चितेन्दुविलसत्प्रोद्भासिफालस्थलीं
कर्पूरद्रवमिश्रचूर्णखदिरामोदोल्लसद्वीटिकाम् ।
लोलापाङ्गतरङ्गितैरधिकृपासारैर्नतानन्दिनीं
श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥ २ ॥
राजन्मत्तमरालमन्दगमनां राजीवपत्रेक्षणां
राजीवप्रभवादिदेवमकुटाराजत्पदांभोरुहाम् ।
राजीवायतपत्रमण्डितकुचां राजाधिराजेश्वरीं
श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥ ३ ॥
षट्कोणाङ्गणदीपिकां शिवसतीं षड्वैरिवर्गापाहां
षट्चक्रान्तरसंस्थितां वरसुतां षड्योगिनीवेष्टिताम् ।
षट्चक्राञ्चितपादुकाञ्चितपदां षड्भावगां षोडशीं
श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥ ४ ॥
श्रीनाथाकृतिपालितत्रिभुवनां श्रीचक्रसञ्चारिणीं
ज्ञानासक्तमनोजयौवनलसत् गन्धर्वकन्यावृताम् ।
दीनानामतिवेलभाग्यकलनीं दिव्याम्बरालङ्कृतां
श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥ ५ ॥
लावण्याधिकभूषिताङ्गलतिकां लाक्षारसद्राविणीं
सेवायातसमस्तदेववनितां सीमन्तभूषान्विताम् ।
भावोल्लासवशीकृतप्रियतमां भण्डासुरच्छेदिनीम्
श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥ ६ ॥
धन्यां सोमविभावनीयचरितां धाराधरश्यामलां
मान्याराधनमेदिनीं सुमनसां मुक्तिप्रदानव्रताम् ।
कन्यापूजनसुप्रसन्नहृदयां काञ्चीलसन्मध्यमां
श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥ ७ ॥
कर्पूरागरुकुङ्कुमाङ्कितकुचां कर्पूरवर्णस्थितां
कृष्टोत्कृष्टसुकृष्टकर्मदहनां कामेश्वरीं कामिनीम् ।
कामाक्षीं करुणारसार्द्रहृदयां कल्पान्तरस्थायिनीं
श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥ ८ ॥
गायत्रीं गरुडध्वजां गगनगां गान्धर्वगानप्रियां
गंभीरां गजगामिनीं गिरिसुतां गन्धाक्षतालंकृताम् ।
गंगागौतमगर्गसन्नुतपदां गां गौतमीं गोमतीं
श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥ ९ ॥

                      ***

HYMNS TO SRIMATA -KALYANAVRISHTI STAVAM

कल्याणवृष्टिस्तवः
     (श्री शंकराचार्यकृतं) 
 
कल्याणवृष्टिभिरिवामृतपूरिताभिः
लक्ष्मीस्वयंवरण मंगलदीपिकाभिः ।
सेवाभिरम्ब तव पादसरोजमूले
नाकारि किं मनसि भाग्यवतां जनानाम् ॥ १ ॥
एतावदेव जननि स्पृहणीयमास्ते
त्वद्वन्दनेषु सलिलस्थगिते च नेत्रे ।
सान्निध्यमुद्यदरुणायुतसोदरस्य
त्वद्विग्रहस्य परया सुधयाऽऽप्लुतस्य ॥ २ ॥
ईशत्वनामकलुषाः कति वा न सन्ति
ब्रह्मादयः प्रतिभवं प्रलयाभिभूताः ।
एकः स एव जननि स्थिरसिद्धिरास्ते
यः पादयोस्तव सकृत्प्रणतिं करोति ॥ ३ ॥
लब्ध्वा सकृत् त्रिपुरसुन्दरि तावकीनं
कारुण्यकन्दलितकान्तिभरं कटाक्षम् ।
कन्दर्पकोटिसुभगास्त्वयि भक्तिभाजः
सम्मोहयन्ति तरुणीर्भुवनत्रयेऽपि ॥ ४ ॥
ह्रींकारमेव तव नाम गृणन्ति वेदाः
मातस्त्रिकोणनिलये त्रिपुरे त्रिनेत्रे ।
त्वत्संस्मृतौ यमभटाभिभवं विहाय
दीव्यन्ति नन्दनवने सह लोकपालैः ॥ ५ ॥
हन्तुः पुरमधिगलं परिपीयमानः
क्रूरः कथं न भविता गरलस्य वेगः ।
नाश्वासनाय यदि मातरिदं तवार्धं
देहस्य शश्वदमृताप्लुतशीतलस्य ॥ ६ ॥
सर्वज्ञतां सदसि वाक्पटुतां प्रसूते
देवि त्वदङ्घ्रिसरसीरुहयोः प्रणामः ।
किं च स्फुरन्मकुटमुज्ज्वलमातपत्रं
द्वे चामरे च महतीं वसुधां ददाति ॥ ७ ॥
कल्पद्रुमैरभिमतप्रतिपादनेषु
कारुण्यवारिधिभिरम्ब भवत्कटाक्षैः ।
आलोकय त्रिपुरसुन्दरि ममनाथम्
त्वय्येव भक्तिभरितं त्वयि बद्धतृष्णम् ॥ ८ ॥
हन्तेतरेष्वपि मनांसि निधाय चान्ये
भक्तिं वहन्ति किल पामरदैवतेषु ।
त्वामेव देवि मनसा समनुस्मरामि
त्वामॆव नौमि शरणं जननि त्वमेव ॥ ९ ॥
लक्ष्येषु सत्स्वपि कटाक्षनिरीक्षणानां
आलोकय त्रिपुरसुन्दरि मां कदाचित् ।
नूनं मया तु सदृशः करुणैकपात्रं
जातो जनिष्यति जनो न च जायते  वा ॥ १० ॥
ह्रीं ह्रीमिति प्रतिदिनं जपतां तवाख्यां
किं नाम दुर्लभमिह त्रिपुराधिवासे ।
मालाकिरीटमदवारणमाननीया
तान् सेवते वसुमती स्वयमेव लक्ष्मीः ॥ ११ ॥
संपत्कराणि सकलेन्द्रियनन्दनानि
साम्राज्यदाननिरतानि सरोरुहाक्षि ।
त्वद्वन्दनानि दुरिताहरणोद्यतानि
मामेव मातरनिशं कलयन्तु नान्यम् ॥ १२ ॥
कल्पोपसंहृतिषु कल्पितताण्डवस्य
देवस्य खन्डपरशोः परभैरवस्य ।
पाशाङ्कुशैक्षवशरासनपुष्पबाणा
सा साक्षिणी विजयते तव मूर्तिरेका ॥ १३ ॥
लग्नं सदा भवतु मातरिदं तवार्धं
तेजः परं बहुलकुङ्कुमपङ्कशोणम् ।
भास्वत्किरीटममृतांशुकलावतंसं
मधे त्रिकोणनिलयं परमामृतार्द्रम् ॥ १४ ॥
ह्रींकारमेव तव नाम तदेव रूपं
त्वन्नाम दुर्लभमिह  त्रिपुरे गृणन्ति ।
त्वत्तेजसा परिणतं वियदादिभूतं
सौख्यं तनोति सरसीरुहसंभवादेः ॥ १५ ॥
ह्रींकारत्रयसंपुटेन महता मन्त्रेण संदीपितं
स्तोत्रं यः प्रतिवासरं तव पुरो मातर्जपेन्मन्त्रवित् ।
तस्य क्षोणिभुजॊ भवन्ति वशगा लक्ष्मीश्चिरस्थायिनी

वाणी निर्मलसूक्तिभारभरिता जागर्ति दीर्घं वयः ॥ १६ ॥                ***

HYMNS TO SRIMATA – TRIPURASUNDARI ASHTAKAM

६.  त्रिपुरसुन्दर्यष्टकम्
        (श्री शंकराचार्यकृतं)
कदम्बवनचारिणीं मुनिकदम्बकादम्बिनीं 
नितम्बजितभूधरां सुरनितम्बिनीसेविताम् ।
नवाम्बुरुहलोचनामभिनवाम्बुदश्यामलां
त्रिलोचनकुटुम्बिनीं त्रिपुरसुन्दरीमाश्रये ॥ १ ॥
कदम्बवनवासिनीं कनकवल्ल्कीधारिणीं
महार्हमणिहारिणीं मुखसमुल्लसद्वारुणीम् ।
दयाविभवकारिणीं विशदरोचनाचारिणीं
त्रिलोचनकुटुम्बिनीं त्रिपुरसुन्दरीमाश्रये ॥ २ ॥
कदम्बवनशालया कुचभरोल्लसन्मालया
कुचोपमितशैलया गुरुकृपालसद्वेलया ।
मदारुणकपोलया मधुरगीतवाचालया
कयापि घननीलया कवचिता वयं लीलया ॥ ३ ॥
कदम्बवनमध्यगां कनकमण्डलोपस्थितां
षडम्बुरुहवासिनीं सततसिद्धसौदामिनीम् ।
विडम्बितजपारुचिं विकचचन्द्रचूडामणिं
त्रिलोचनकुटुम्बिनीं त्रिपुरसुन्दरीमाश्रये ॥ ४ ॥
कुचाञ्चितविपञ्चिकां कुटिलकुन्तलालंकृतां
कुशेशयनिवासिनीं  कुटिलचित्तविद्वेषिणीम् ।
मदारुणविलोचनां मनसिजारिसम्मोहिनीं
मतङ्गमुनिकन्यकां मधुरभाषिणीमाश्रये ॥ ५ ॥
स्मरेत्प्रथमपुष्पिणीं  रुधिरबिन्दुनीलाम्बरां
गृहीतमधुपात्रिकां मदविघूर्णनेत्राञ्चलाम् ।
घनस्तनभरोन्नतां गलितचूलिकां श्यामलां
त्रिलोचनकुटुम्बिनीं  त्रिपुरसुन्दरीमाश्रये ॥ ६ ॥
सकुङ्कुमविलेपनामलकचुम्बिकस्तूरिकां
समन्दहसितेक्षणां सशरचापपाशाङ्कुशाम् ।
अशेषजनमोहिनीमरुणमाल्यभूषांबरां
जपाकुसुमभासुरां जपविधौ स्मराम्यम्बिकाम् ॥ ७ ॥
पुरन्दरपुरन्ध्रिकाचिकुरबन्धसैरन्ध्रिकां
पितामहपतिव्रतापटुपटीरचर्चारताम् ।
मुकुन्दरमणीमणीलसदलङ्क्रियाकारिणीं
भजामि भुवनाम्बिकां सुरवधूटिकाचेटिकाम् ॥ ८ ॥

      

               ***

HYMNS TO SRIMATA – DEVI APARADHA KSHAMAPANA STOTRAM

५. देव्यपराधक्षमापनस्तोत्रम्
            (श्री शंकराचार्यकृतं)
न मन्त्रं नो यन्त्रं तदपि च न जाने स्तुतिमहो
न चाह्वानं ध्यानं तदपि च न जाने स्तुतिकथाः ।
न जाने मुद्रास्ते तदपि न जाने विलपनं
परं जाने मातस्त्वदनुसरणं क्लेशहरणम् ॥ १ ॥
विधेरज्ञानेन द्रविणविरहेणालसतया
विधेयाशक्यत्वात्तव चरणयोर्या च्युतिरभूत् ।
तदेतत्क्षन्तव्यं जननि सकलोद्धारिणि शिवे
कुपुत्रो जायेत क्वचिदपि कुमाता न भवति ॥ २ ॥
पृथिव्यां पुत्रास्ते जननि बहवस्सन्ति सरलाः
परं तेषां मधे विरलतरलोऽहं तव सुतः ।
मदीयोऽयं त्यागः समुचितमिदं नो तव शिवे
कुपुत्रो जायेत क्वचिदपि कुमाता न भवति ॥ ३ ॥
जगन्मातर्मातस्तवचरणसेवा न रचिता
न वा दत्तं दॆवि द्रविणमपि भूयस्तव मया ।
तथापि त्वं स्नेहं मयि निरुपमं यत्प्रकुरुषे
कुपुत्रो जायेत क्वचिदपि कुमाता न भवति ॥ ४ ॥
परित्यक्ता देवाः विविधविधिसेवाकुलतया
मया पञ्चाशीतेरधिकमपनीते तु वयसि ।
इदानीं चेन्मातस्तव यदि कृपा नापि भविता
निरालम्बॊ लम्बोदरजननि कं यामि शरणम् ॥ ५ ॥
श्वपाको जल्पाको भवति मधुपाकोपमगिरा
निरातङ्को रङ्को विहरति चिरं कोटिकनकैः ।
तवापर्णॆ कर्णे विशति मनुवर्णे फलमिदं
जनः को जानीते जननि जपनीयं जपविधौ ॥ ६ ॥
चिताभस्मालेपो गरलमशनं दिक्पटधरो
जटाधारी कण्ठे भुजगपतिहारी पशुपतिः ।
कपाली भूतेशो भजति जगदीशैकपदवीं
भवानि त्वत्पाणिग्रहणपरिपाटीफलमिदम् ॥ ७ ॥
न मोक्षस्याकाङ्क्षा भवविभववाञ्छापि च न मे
न विज्ञानापेक्षा शशिमुखि सुखेच्छापि न पुनः ।
अतस्त्वां संयाचे जननि जननं यातु मम वै
मृडानी रुद्राणी शिव शिव भवानीति जपतः ॥ ८ ॥
नाराधितासि विधिना विविधोपचारैः
किं रूक्षचिन्तनपरैर्न कृतं वचोभिः ।
श्यामे त्वमेव यदि किञ्चन मय्यनाथे
धत्से कृपामुचितमम्ब परं तवैव ॥ ९ ॥
आपत्सुमग्नः स्मरणं त्वदीयं
करोमि दुर्गे करुणार्णवेशि ।
नैतच्छठत्वं मम भावयेथाः
क्षुधातृषार्ताः जननीं स्मरन्ति ॥ १० ॥
जगदंब विचित्रमत्र किं परिपूर्णा करुणास्ति चेन्मयि ।
अपराधपरम्परावृतं नहि माता समुपेक्षते सुतम् ॥ ११ ॥
मत्समः पातकी नास्ति पापघ्नी त्वत्समा न हि ।
एवं ज्ञात्वा महादेवि यथा योग्यं तथा कुरु ॥ १२ ॥

              

HYMNS TO SRIMATA – ANANDALAHARI

         ४. आनन्दलहरी
    (श्री शंकराचार्यकृतं)
भवानि स्तोतुं त्वां प्रभवति चतुर्भिर्न वदनैः
प्रजानामीशानः त्रिपुरमथनः पञ्चभिरपि ।
न षड्भिः सेनानीः दशशतमुखैरप्यहिपतिः  
तदान्येषां केषां कथय कथमस्मिन्नवसरः ॥ १ ॥
घृतक्षीरद्राक्षामधुमधुरिमा कैरपिपदैः
विशिष्यानाख्येयो भवति रसनामात्रविषयः ।
तथा ते सौन्दर्यं परमशिवदृङ्मात्रविषयः
कथङ्कारं ब्रूमः सकलनिगमागोचरगुणे ॥ २ ॥
 
मुखे ते ताम्बूलं नयनयुगले कज्जलकला
ललाटे काश्मीरं विलसति गले मौक्तिकलता ।
स्फुरत् काञ्ची शाटी पृथुकटितटॆ हाटकमयी
भजामि त्वां गौरीं नगपतिकिशोरीमविरतं ॥ ३ ॥
विराजन्मन्दारद्रुमकुसुमहारस्तनतटी
नदद्वीणानादश्रवणविलसत्कुण्डलगुणा ।
नताङ्गी मातङ्गी रुचिरगतिभङ्गी भगवती
सती शंभॊरंभॊरुहचटुलचक्षुर्विजयते ॥ ४ ॥
नवीनार्कभ्राजन्मणिकनकभूषापरिकरैः
वृताङ्गी सारङ्गी रुचिरनयनाङ्गीकृतशिवा ।
तडित्पीता पीताम्बरललितमञ्जीरसुभगा
ममापर्णा पूर्णा निरवधिसुखैरस्तु सुमुखी ॥ ५ ॥
हिमाद्रे संभूता सुललितकरैः पल्लवयुता
सुपुष्पा मुक्ताभिर्भ्रमरकलिताचालकभरैः ।
कृतस्थाणुस्थाना कुचफलनता सूक्तिसरसा
रुजां हन्त्री गन्त्री विलसति चिदानन्दलतिका ॥ ६ ॥
सपर्णामाकीर्णां कतिपयगुणैः सादरमिह
श्रयन्त्यन्ये वल्लीं मम तु मतिरेवं विलसति ।
अपर्णैका सेव्या जगति सकलैर्यत्परिवृतः
पुराणोऽपि स्थाणुः फलति किल कैवल्यपदवीम् ॥ ७ ॥
विधात्री धर्माणां त्वमसि सकलाम्नायजननी
त्वमर्थानां मूलं धनदनमनीयाङ्घ्रिकमले ।
त्वमादिः कामानां जननि कृतकन्दर्पविजये
सतां मुक्तेर्बीजं त्वमसि परब्रह्ममहिषी ॥ ८ ॥
प्रभूता भक्तिस्ते यदपि न ममालोलमनसः
त्वया तु श्रीमत्या सदयमवलोक्योऽहमधुना ।
पयोदः पानीयं दिशति मधुरं चातकमुखे
भृशं शङ्कॆ कैर्वा विधिभिरनुनीता मम मतिः ॥ ९ ॥
कृपापाङ्गालोकं वितर तरसा साधुचरिते
न ते युक्तोपेक्षा मयि शरणदीक्षामुपगते ।
न चेदिष्टं दद्यादनुपदमहॊ कल्पलतिका
विशेषः सामान्यैः कथमितरवल्लीपरिकरैः ॥ १० ॥
महान्तं विश्वासं तवचरणपङ्केरुहयुगे
निधायान्यन्नैवाश्रितमिह मया दैवतमुमे ।
तथापि त्वच्चेतो यदि मयि न जायेत सदयं
निरालम्बो लम्बोदरजननि कं यामि शरणम् ॥ ११ ॥
अयः स्पर्शे लग्नं सपदि लभते हेमपदवीं
यथा रथ्यापाथः शुचि भवति गङ्गौघमिलितं ।
तथा तत्तत्पापैरतिमलिनमन्तर्मम यदि
त्वयि प्रेम्णासक्तं कथमिव न जायेत विमलम् ॥ १२ ॥
त्वदन्यस्मादिच्छाविषयफललाभे न नियमः
त्वमर्थानामिच्छाधिकमपि समर्था वितरणे ।
इति प्राहुः प्राञ्चः कमलभवनाद्यास्त्वयि मनः
त्वदासक्तं नक्तंदिवमुचितमीशानि कुरु तत् ॥ १३ ॥
स्फुरन्नानारत्नस्फटिकमयभित्तिप्रतिफल-
त्त्वदाकारं चञ्चच्छशधरकलासौधशिखरम् ।
मुकुन्दब्रह्मेन्द्रप्रभृतिपरिवारं विजयते
तवागारं रम्यं त्रिभुवनमहाराजगृहिणि ॥ १४ ॥
निवासः कैलासे विधिशतमखाद्याः स्तुतिकराः
कुटुंबं त्रैलोक्यं कृतकरपुटः सिद्धिनिकरः । 
महेशः प्राणेशस्तदवनिधराधीशतनये
न ते सौभाग्यस्य क्वचिदपि मनागस्ति तुलना ॥ १५ ॥
वृषो वृद्धो यानं विषमशनमाशानिवसनं
श्मशानं क्रीडाभूर्भुजगनिवहो भूषणविधिः ।
समग्रा सामग्री जगति विदितैवं स्मररिपोः
यदेतस्यैश्वर्यं तव जननि सौभाग्यमहिमा ॥ १६ ॥
अशेषब्रह्माण्डप्रलयविधिनैसर्गिकमतिः
श्मशानेष्वासीनः कृतभसितलेपः पशुपतिः ।
दधौ कण्ठे हालाहलमखिलभूगोलकृपया
भवत्याः संगत्याः फलमिति च कल्याणि कलये ॥ १७ ॥
त्वदीयं सौंदर्यं निरतिशयमालोक्य परया
भियैवासीद्गङ्गा जलमयतनुः शैलतनये ।
तदेतस्यास्तस्माद्वदनकमलं वीक्ष्य कृपया
प्रतिष्ठामातन्वन्निजशिरसि वासेन गिरिशः ॥ १८ ॥
विशालश्रीखण्डद्रवमृगमदाकीर्णघुसृण-
प्रसूनव्यामिश्रं भगवति तवाभ्यङ्गसलिलम् ।
समादाय स्रष्टा चलितपदपांसून्निजकरैः
समाधत्तॆ सृष्टिं विबुधपुरपङ्केरुहदृशाम् ॥ १९ ॥
वसन्ते सानन्दे कुसुमितलताभिः परिवृते
स्फुरन्नानापद्मे सरसि कलहंसालिसुभगे ।
सखीभिः खेलन्तीं मलयपवनान्दोलितजले
स्मरेद्यस्त्वां तस्य ज्वरजनितपीडापसरति ॥ २० ॥
               ***

           
     ***

HYMNS TO SRIMATA – SRI MEENAKSHI STOTRAM

३. श्रीमीनाक्षीस्तोत्रम्
      (श्री शंकराचार्यकृतं)
श्रीविद्ये शिववामभागनिलये श्रीराजराजार्चिते
श्रीनाथादिगुरुस्वरूपविभवे चिन्तामणीपीठिके ।
श्रीवाणीगिरिजानुताङ्घ्रिकमले श्रीशांभवि श्रीशिवे
मध्याह्ने मलयध्वजाधिपसुते मां पाहि मीनाम्बिके ॥ १ ॥
चक्रस्थेऽचपले चराचरजगन्नाथे जगत्पूजिते
आर्तालीवरदे नताभयकरे वक्षोजभारान्विते ।
विद्ये वेदकलापमौलिविदिते विद्युल्लताविग्रहे
मातः पूर्णसुधारसार्द्रहृदये मां पाहि मीनाम्बिके ॥ २ ॥
कॊटीराङ्गदरत्नकुण्डलधरे कोदण्डबाणाञ्चिते
कोकाकारकुचद्वयोपरिलसत्प्रालम्बिहारान्विते ।
शिञ्जन्नूपुरपादसारसमणिश्रीपादुकालंकृते
मद्दारिद्‌र्यभुजंगगारुडखगे मां पाहि मीनाम्बिके ॥ ३ ॥
ब्रह्मॆशाच्युतगीयमानचरिते प्रेतासनान्तःस्थिते
पाशोदङ्कुशचापबाणकलिते बालेन्दुचूडाञ्चिते ।
बाले बालकुरङ्गलोलनयने बालार्ककोट्युज्ज्वले
मुद्राराधितदैवते मुनिनुते मां पाहि मीनाम्बिके ॥ ४ ॥
गन्धर्वामरयक्षपन्नगनुते गङ्गाधरालिङ्गिते
गायत्री गरुडासने कमलजे सुश्यामले सुस्थिते ।
खातीते खलदारुपावकशिखे खद्योतकोट्युज्ज्वले
मन्त्राराधितदैवते मुनिनुते मां पाहि मीनाम्बिके ॥ ५ ॥
नादे नारदतुम्बुराद्यविनुते नादान्तनादात्मिके
नित्ये नीललतात्मिके निरुपमे नीवारशूकोपमे ।
कान्ते कामकले कदम्बनिलये कामेश्वराङ्कस्थिते
मद्विद्ये मदभीष्टकल्पलतिके मां पाहि मीनाम्बिके ॥ ६ ॥
वीणानादनिमीलितार्धनयने विस्रस्तचूलीभरे
ताम्बूलारुणपल्लवाधरयुते ताटङ्कहारान्विते ।
श्यामे चन्द्रकलावतंसकलिते कस्तूरिकाभालके
पूर्णॆ पूर्णकलाभिरामवदने मां पाहि मीनाम्बिके ॥ ७ ॥
शब्दब्रह्ममयी चराचरमयी ज्योतिर्मयी वाङ्मयी
नित्यानन्दमयी निरञ्जनमयी तत्त्वंमयी चिन्मयी ।
तत्त्वातीतमयी परात्परमयी मायामयी श्रीमयी
सर्वैश्वर्यमयी सदाशिवमयी मां पाहि मीनाम्बिके ॥ ८ ॥

                   ***

 

SRIRAMACHARITAM – 1 (SRIMADBHAGAVATAM CANTO 9, CHAPTER 10)

श्रीरामचरितम्- १ (श्रीमद्भागवतम्
नवमस्कन्धः अध्याय:१०)
खट्वाङ्गाद् दीर्घबाहुश्च रघुस्तस्मात् पृथुश्रवाः। 
अजस्ततो महाराजस्तस्माद्दशरथोऽभवत्॥१॥
Sukadeva Goswami said: The son of Maharaja Khatvanga
was Dirghabahu, and his son was the celebrated Maharaja Raghu.  From Maharaja Raghu came Aja, and from Aja
was born the great personality Maharaja Dasaratha.
तस्यापि भगवानेष साक्षाद् ब्रह्ममयो हरिः।
अंशाशेन चतुर्धागात् पुत्रत्वं प्रार्थितः सुरैः ।
रामलक्ष्मणभरतशत्रुघ्ना इति संज्ञया ॥२॥
Being prayed for by the
demigods, the Supreme Personality of Godhead, the Absolute Truth himself,
directly appeared with His expansion and expansions of the expansion.  Their holy names were Rama, Lakshmana, Bharata
and Satrughna.  These celebrated
incarnations thus appeared in four forms as the sons of Maharaja Dasaratha.
तस्यानुचरितं राजन्नृषिभिस्तत्त्वदर्शिभिः।
श्रुतं हि वर्णितं भूरि त्वया सीतापतेर्मुहुः ॥३॥
O King Parikshit, 
the transcendental activities of Lord Ramachandra have been described by
great saintly persons who have seen the Truth. 
Because you have heard again about Lord Ramachandra, the husband of
mother Sita,  I shall describe these activities
only in brief.  Please listen.  
गुर्वर्थे त्यक्तराज्यो व्यचरदनुवनं पद्मपद्भ्यां प्रियायाः
   पाणिस्पर्शाक्षमाभ्यां मृजितपथररुजो यो हरीन्द्रानुजाभ्याम्।
वैरूप्याच्छूर्पणाख्याः प्रियविरहरुषाऽऽरोपितभ्रूविजृम्भ-
   त्रस्ताब्धिर्बद्धसेतुः खलदवदहनः कोसलेन्द्रोऽवतान्नः ॥४॥
To keep the promise of
His father in tact, Lord Ramachandra immediately gave up the position of king
and, accompanied by Hs wife, mother Sita, wandered from one forest to another
on His lotus feet, which were so delicate that they were unable to bear even the
touch of Sita’s palms.  The Lord was also
accompanied by Hanuman, king of the monkeys, [or by another monkey, Sugriva] and by His own younger brother Lakshmana, both of whom gave him relief from the
fatigue of wandering in the forest. 
Having cut off the ears and nose of Surpanakha, thus disfiguring her,
the Lord was separated from mother Sita. 
He therefore became angry, movng His eyebrows and thus frightening the
ocean, who then allowed the Lord to construct a bridge to cross the ocean.  Subsequently, the Lord entered the kingdom of
Ravana to kill him, like a fire devouring a forest.  May that Supreme Lord, Ramachandra, give us
all protection.    
विश्वामित्राध्वरे येन मारीचाद्या निशाचराः।
पश्यतो लक्ष्मणस्यैव हृता नैरृतपुङ्गवाः॥५॥
In the arena of the
sacrifice performed by Viswamitra, Lord Ramachandra, the King of Ayodhya,
killed many demons,  Rakshasas and
uncivilized men who wandered at night in the mode of darkness.  May Lord Ramachandra, who killed these demons
in the presence of Lakshmana, be kind enough to give us protection. 
यो लोकवीरसमितौ धनुरैशमुग्रं
    सीतास्वयंवरगृहे त्रिशतोपनीतम्।
आदाय बालगजलील इवेक्षुयष्टिं
    सज्जीकृतं नृप विकृष्य बभञ्ज मध्ये॥६॥

जित्वानुरूपगुणशीलवयोऽङ्गरूपां
   सीताभिधां श्रियमुरस्यभिलब्धमानाम्।
मार्गे व्रजन् भृगुपतेर्व्यनयत् प्ररूढं
    दर्पं महीमकृत यस्त्रिरराजबीजाम्॥७॥
O King, the pastimes of
Lord Ramachandra were wonderful, like those of a baby elephant.  In the assembly where mother Sita was to
choose her husband, in the midst of the heroes of this world, He broke the bow
belonging to Lord Siva.  This bow was so
heavy that it was carried by three hundred men, but Lord Ramachandra bent and
strung t and broke it in the middle, just as a baby elephant breaks a stick of
sugarcane.  Thus the Lord achieved the
hand of mother Sita, who was equally as endowed with transcendental qualities
of form, beauty, behavior, age and nature. 
Indeed, she was the goddess of fortune who constantly rests on the chest
of the Lord.  While returning from Sita’s
home after gaining her at the assembly of competitors, Lord Ramachandra
met  Parasurama.
Although Parasurama was
very proud , having rid the earth of the royal order twenty-one times, he was
defeated by the Lord, who appeared to be Kshatriya of the royal order.
 यः सत्यपाशपरिवीत पितुर्निदेशं
    स्त्रैणस्य चापि शिरसा जगृहे
सभार्यः।
  राज्यं श्रियं प्रणयिनः सुहृदो निवासं
    त्यक्त्वा ययौ वनमसूनिव मुक्तसङ्गः॥८॥
Carrying out the order of His father, who was bound by
a promise to his wife, Lord Ramachandra left behind His kingdom, opulence,
friends, well-wishers, residence and everything else, just as a liberated soul
gives up his life, and went to the forest with Sita.
  रक्षःस्वसुर्व्यकृत रूपमशुद्धबुद्धे-
    स्तस्याः खरत्रिशिरदूषणमुख्यबन्धून्।
  जघ्ने चतुर्दशसहस्रमपारणीय-
    कोदण्डपाणिरटमान उवास कृच्छ्रम्॥९॥
While wandering in the
forest, where He accepted a life of hardship, carrying His invincible bow and arrows
in His hand, Lord Ramachandra deformed Ravana’s sister, who was polluted with
lusty desires, by cutting off her nose and ears.  He also killed her fourteen thousand Rakshasa
friends, headed by Khara, Trisira and DuShana
  सीताकथाश्रवणदीपितहृच्छयेन
    सृष्टं विलोक्य नृपते दशकन्धरेण।
  जघ्नेऽद्भुतैणवपुषाऽऽश्रमतोऽपकृष्टो
   मारीचमाशु विशिखेन यथा कमुग्रः ॥१०॥
O King Parikshit, when Ravana,
who had ten heads on his shoulders, heard about the beautiful and attractive
features of Sita, his mind was agitated by lusty desires, and he went to kidnap
her.  To distract Lord Ramachandra From
His ashrama, Ravana sent Maricha in the form of a golden deer, and when Lord
Ramachandra saw that wonderful deer, He left His residence and followed it and
finally killed it with a sharp arrow, just as Lord Siva killed Daksha.   
  रक्षोऽधमेन वृकवद् विपिनेऽसमक्षं
     वैदेहराजदुहितर्यपयापितायाम् ।
  भ्रात्रा वने कृपणवत् प्रियया वियुक्तः
     स्त्रीसङ्गिनां
गतिमिति प्रथयंश्चचार॥११॥
When Ramachandra entered
the forest and Lakshmana was also absent, the worst of Rakshasas, Ravana,
kidnapped Sitadevi, the daughter of the King of Videha, just as a tiger seizes
unprotected sheep when the shepherd is absent. 
Then Lord Ramachandra wandered in the forest with His brother Lakshmana
as if very much distressed due to separation from His wife.  Thus He showed by His personal example the condition
of a person attached to women.

 दग्ध्वाऽऽत्मकृत्यहतकृत्यमहन् कबन्धं

    सख्यं विधाय कपिभिर्दयितागतिं तैः।
  बुद्ध्वाथ वालिनि हते प्लवगेन्द्रसैन्यै-
     र्वेलामगात् स मनुजोऽजभवार्चिताङ्घ्रिः॥१२॥
Lord Ramachandra, whose
lotus feet are worshipped by Lord Brahma and Lord Shiva, had assumed the form
of a human being. Thus He performed the funeral ceremony of Jatayu, who was
killed by Ravana.  The Lord then killed
the demon named Kabandha, and after making friends with the money chiefs,
killing Vali and arranging for the deliverance of mother Sita, He went to the
beach of the ocean.
 यद्रोषविभ्रमविवृत्तकटाक्षपात-
     सम्भ्रान्तनक्रमकरो भयगीर्णघोषः।
 सिन्धुः शिरस्यर्हणं परिगृह्य रूपी
     पादारविन्दमुपगम्य
बभाष एतत् ॥१३॥
After reaching the beach,
Lord Ramachadra fasted for three days, awaiting the arrival of the ocean
personified.  When the ocean did not
come, the Lord exhibited his pastimes of anger, and simply by His glancing over
the ocean, all the living entities within it, including the crocodiles and
sharks, were agitated by fear.  Then the
personified ocean fearfully approached Lord Ramachadra, taking all paraphernalia
to worship Him.  Falling at the Lord’s
lotus feet, the personified ocean spoke as follows.
न त्वां वयं जडधियो नु विदाम भूमन्
   कूटस्थमादिपुरुषं जगतामधीशम्।
यत्सत्त्वतः सुरगणा रजसः प्रजेशा
    मन्योश्च भूतपतयः स भवान् गुणेशः ॥१४॥
O all-pervading Supreme person, we are dull-witted and
did not understand who You are, but now we understand who You are, the Supreme
Person , the master of the entire universe, the unchanging and original Personality
of Godhead.  The demigods are infatuated
with the mode of goodness, the Prajapatis with the mode of passion, and the
lord of ghosts with the mode of ignorance, but You are the master of all these
qualities.   
कामं प्रयाहि जहि विश्रवसोऽवमेहं
    त्रैलोक्यरावणमवाप्नुहि वीर पत्नीं।
बध्नीहि सेतुमिह ते यशसो वितत्यै
    गायन्ति दिग्विजयिनो यमुपेत्य भूपाः ॥१५॥
My Lord, You may use my
water as You like. Indeed, You may cross it and go to the abode of Ravana, who
is the great source of disturbance and crying for the three worlds.  He is the son of Visrava, but is condemned
like scum. Please go to kill him and thus regain Your wife, Sitadevi. O great
hero, although my water presents no impediment to Your going to Lanka, please
build a bridge over it to spread Your transcendental fame.  Upon seeing this wonderfully uncommon deed of
Your Lordship, all the great heroes and kings in the future will glorify You.    
बद्ध्वोदधौ रघुपतिर्विविधाद्रिकूटैः
    सेतुं कपीन्द्रकरकम्पितभूरुहाङ्गैः।
सुग्रीवनीलहनुमत्प्रमुखैरनीकै-
    र्लङ्कां विभीषणदृशाऽऽविशदग्रदग्धाम् ॥१६॥
Sukadeva Goswami said:
After constructing a bridge over the ocean by throwing into the water the peaks
of mountains whose trees and other vegetation had been shaken by the hands of
great monkeys, Lord Ramachandra went to Lanka to release Sitadevi from the
clutches of Ravana.  With the direction
and help of Vibhishana, ravana’s brother, the Lord, along with the monkey
soldiers, headed by Sugriva, Nala and Hanuman, entered Ravana’s kingdom, Lanka,
which had previously been burnt by Hanuman.  
सा वानरेन्द्रबलरुद्धविहारकोष्ठ-
   श्रीद्वारगोपुरसदोवलभीविटङ्का।
निर्भज्यमानधिषणध्वजहेमकुम्भ-
    शृङ्गाटका गजकुलैर्ह्रदिनीव घूर्णा ॥१७॥
After entering Lanka, the
monkey soldiers, led by chiefs like Sugriva, Nila and Hanuman, occupied all the
sporting houses, granaries, treasuries, palace doorways, city gates, assembly
houses, palace frontages and even the resting houses of the pigeons. When the
city’s crossroads, platforms, flags and golden water pots on its domes were all
destroyed, the entire city of Lanka appeared like a river disturbed by a herd
of elephants.
रक्षःपतिस्तदवलोक्य निकुम्भकुम्भ-
    धूम्राक्षदुर्मुखसुरान्तनरान्तकादीन्
पुत्रं प्रहस्तमतिकायविकम्पनादीन्
    सर्वानुगान् समहिनोदथ कुम्भकर्णम्॥१८॥
When  Ravana, the master of Rakshasas, saw the
disturbances created by the monkey soldiers, he called for Nikumbha, Kumbha,
Dhumraksha, Durmukha, Surantaka, Narantaka and other Rakshasas and also his son
Indrajit.  Thereafter he called for
Prahasta, Atikaya, vikampana and finally Kumbhakarna.  Then he induced all his followers to fight
against the enemies. 
 
तां यातुधानपृतनामसिशूलचाप-
   प्रासर्ष्टिशक्तिशरतोमरखड्गदुर्गाम्।
सुग्रीवलक्ष्मणमरुत्सुतगन्धमाद-
    नीलाङ्गदर्क्षपनसादिभिरन्वितोऽगात् ॥१९॥
Lord Ramachandra,
surrounded by Lakshmana and monkey soldiers like Sugriva, Hanuman,
Gandhamadana, Nila, Angada, Jambavan and Panasa, attacked the soldiers of the
Rakshasas, who were fully equipped with various invincible weapons like swords,
lances, bows, prasas, rshtis, sakti, arrows, khadgas and tomaras.   . 
 
तेऽनीकपा रघुपतेरभिपत्य सर्वे
   द्वन्द्वं वरूथमिभपत्तिरथाश्वयोधैः।
जघ्नुर्द्रुमैर्गिरिगदेषुभिरङ्गदाद्याः
    सीताभिमर्षहतमङ्गलरावणेशान्॥२०॥
Angada and the other
commanders of the soldiers of Ramachandra faced the elephants, infantry, horses
and chariots of the enemy and hurled against them big trees, mountain peaks,
clubs and arrows.  Thus the soldiers of
Lord Ramachandra killed Ravana’s soldiers, who had lost all good fortune
because Ravana had been condemned by the anger of mother Sita.  
रक्षःपतिः स्वबलनष्टिमवेक्ष्य रुष्ट
  आरुह्य यानकमथाभिससार रामम्।
स्वःस्यन्दने द्युमति मातलिनोपनीते
   विभ्राजमानमहनन्निशितैः क्षुरप्रैः ॥२१॥
Thereafter, when Ravana,
the King of Rakshasas, observed that his soldiers had been lost, he was
extremely angry.  Thus he mounted his airplane
and proceeded toward Lord Ramachandra, who sat on the effulgent chariot brought
by Matali, the chariot driver of Indra. 
Then Ravana struck Lord Ramachandra with sharp arrows. 
 
 रामस्तमाह पुरुषादपुरीष यन्नः
     कान्तासमक्षमसतापहृता श्ववत् ते।
त्यक्तत्रपस्य फलमद्य जुगुप्सितस्य
      यच्छामि काल इव कर्तुरलङ्घ्यवीर्यः ॥२२॥
Lord Ramachandra said to
Ravana: You are the most abominable of Rakshasas. You resemble a dog, for as a
dog steals eatables from the kitchen in the absence of the householder, in My
absence you kidnapped My wife, Sitadevi. 
Therefore as Yamaraja punishes sinful men, I shall also punish you.  You are most abominable, sinful and
shameless.  Today, therefore, I, whose
attempt never fails, shall punish you.
एवं क्षिपन् धनुषि सन्धितमुत्ससर्ज
     बाणं स वज्रमिव तद् हृदयं बिभेद।
सोऽसृग् वमन् दशमुखैर्न्यपतद् विमाना-
     द्धाहेति जल्पति जने सुकृतीव रिक्तः॥२३॥
After thus rebuking
Ravana, Lord Ramachandra fixed an arrow to His bow, aimed at Ravana, and
released the arrow, which pierced Ravana’s heart like a thunderbolt.  Upon seeing this,  Ravana’s followers raised a tumultuous sound,
crying, “Alas! alas! What has happened? What has happened? “ as Ravana,
vomiting blood from his ten mouths, fell from his airplane, just as a pious man
falls to earth from the heavenly planets when the results of his pious
activities are exhausted. 
ततो निष्क्रम्य लङ्काया यातुधान्यः सहस्रशः।
मन्दोदर्या समं तत्र प्ररुदन्त्य उपाद्रवन्॥२४॥
Thereafter, all the women whose husbands had fallen in
the battle, headed by Mandodari, the wife of Ravana, came out of Lanka.  Continuously crying, they approached the dead
bodies of Ravana and the other Rakshasas.

स्वान् स्वान् बन्धून् परिष्वज्य लक्ष्मणेषुभिरर्दितान्।

रुरुदुः सुस्वरं दीना घ्नन्त्य आत्मानमात्मना ॥२५॥
Striking their breasts in affliction because their husbands
had been killed by the arrows of Lakshmana, the women embraced their respective
husbands and cried piteously in voices appealing to everyone.
हा हताः स्म वयं नाथ लोकरावण रावण।
कं यायाच्छरणं लङ्का त्वद्विहीना परार्दिता॥२६॥
O my lord, O master! You epitomized trouble for others,
and therefore you were called Ravana. 
But now that you have been defeated, we also are defeated,  for without you the state of Lanka has been
conquered by the enemy.  To whom will it
go for shelter?  
न वै वेद महाभाग भवान् कामवशं गतः।
तेजोऽनुभावं सीताया येन नीतो दशामिमाम्॥२७॥
O greatly fortunate one, you came under the influence
of lusty desires, and therefore you could not understand the influence of
mother Sita.   Now, because of her curse,
you have been reduced to this state, having been killed by Lord Ramachandra.
कृतैषा विधवा लङ्का वयं च कुलनन्दन।
देहः कृतोऽन्नं गृध्राणामात्मा नरकहेतवे॥२८॥
O pleasure of the Rakshasa dynasty, because of you the
state of Lanka and also we ourselves now have no protector.  By your deeds you have made your body fit to
be eaten by vultures and your soul fit to go to hell.
श्रीशुक उवाच-
स्वानां विभीषणश्चक्रे कोसलेन्द्रानुमोदितः।
पितृमेधविधानेन यदुक्तं साम्परायिकम्॥२९॥
Sri Sukadeva Goswami
continued: Vibhishana, the pious brother of Ravana and devotee of Lord
Ramachandra, received approval from Lord Ramachandra, the King of Kosala. Then
he performed prescribed funeral ceremonies for his family members to save them
from the path to hell.  
ततो ददर्श भगवानशोकवनिकाश्रमे।
क्षामां स्वविरहव्याधिं शिंशपामूलमास्थिताम्॥३०॥
Therefore, Lord Ramachandra found Sitadevi sitting in
a small cottage beneath the tree named Simsapa in a forest of Asoka trees.  She was lean and thin, being aggrieved
because of separation from Him.
रामः प्रियतमां भार्यां दीनां वीक्ष्यान्वकम्पत|
आत्मसंदर्शनाह्लादविकसन्मुखपङ्कजाम् ॥३१॥
Seeing His wife in that condition, Lord Ramachandra
was very compassionate.  When Ramachandra
came before her, she was exceedingly happy to see her beloved, and her
lotus-like face showed her joy
आरोप्यारुरुहे यानं भ्रातृभ्यां हनुमद्युतः।
विभीषणाय भगवान् दत्त्वा रक्षोगणेशताम्।
लङ्कामायुश्च कल्पान्तं ययौ चीर्णव्रतः पुरीम्॥३२॥
After giving Vibhishana
the power to rule the Rakshasa population of Lanka for the duration of one
kalpa, Lord Ramachandra, the Supreme Personality of Godhead[Bhagavan], placed
Sitadevi on an airplane decorated with flowers and then got on the plane
Himself.  The period for His living in
the forest having ended, the Lord returned to Ayodhya, accompanied by Hanuman,
Sugriva and his brother Lakshmana.
अवकीर्यमाणः कुसुमैर्लोकपालार्पितैः पथि|
उपगीयमानचरितः शतधृत्यादिभिर्मुदा॥३३॥
When Lord Ramachandra
returned to His capital, Ayodhya, He was greeted on the road by the princely
order, who showered His body with beautiful, fragrant flowers, while great
personalities like Lord Brahma and other demigods glorified the activities of
the Lord in great jubilation.   
गोमूत्रयावकं श्रुत्वा भ्रातरं वल्कलाम्बरम् |
महाकारुणिकोऽतप्यज्जटिलं स्थण्डिलेशयम्॥३४॥
Upon reaching Ayodhya,
Lord Ramachandra heard that in His absence His brother Bharata was eating
barley cooked in the urine of a cow, covering His body with the bark of trees,
wearing matted locks of hair, and lying on a mattress of kusa.  The most merciful Lord very much lamented
this. 
भरतः प्राप्तमाकर्ण्य पौरामात्यपुरोहितैः|
पादुके शिरसि न्यस्य रामं प्रत्युद्यतोऽग्रजम्॥३५॥
नन्दिग्रामात् स्वशिविराद् गीतवादित्रनिःस्वनैः|
ब्रह्मघोषेण च मुहुः पठद्भिर्ब्रह्मवादिभिः॥३६॥
स्वर्णकक्षपताकाभिर्हेमैश्चित्रध्वजै रथैः|
सदश्वै रुक्मसन्नाहैर्भटैः पुरटवर्मभिः॥३७॥
श्रेणीभिर्वारमुख्याभिर्भृत्यैश्चैव पदानुगैः।
पारमेष्ठ्यान्युपादाय पण्यान्युचावचानि च।
पादयोर्न्यपतत् प्रेम्णा प्रक्लिन्नहृदयेक्षणः ॥३८॥
When Lord Brahma
understood that Lord Ramachadra was returning to the capital, Ayodhya, He
immediately took upon His own head Lord Ramachandra’s wooden shoes and came out
from His camp at Nandigrama. Lord Bharata was accompanied by ministers, priests
and other respectable citizens, by professional musicians vibrating pleasing
musical sounds, and by learned brahmanas loudly chanting Vedic hymns.  Following in the procession were chariots
drawn by beautiful horses with harnesses of golden rope.  These chariots were decorated by flags with
golden embroidery and by other flags of various sizes and patterns. There were
soldiers bedecked with golden armor, servants bearing betel nut, and many
well-known and beautiful prostitutes. 
Many servants followed on foot, bearing an umbrella, whisks, different
grades of precious jewels, and other paraphernalia befitting a royal
reception.  Accompanied in this way, Lord
Bharata, His heart softened in ecstasy and His eyes full of tears, approached
Lord Ramachandra and fell at His lotus feet with great ecstatic love.  
पादुके न्यस्य पुरतः प्राञ्जलिर्बाष्पलोचनः।
तमाश्लिष्य चिरं दोर्भ्यां स्नापयन् नेत्रजैर्जलैः॥३९॥
रामो लक्ष्मणसीताभ्यां विप्रेभ्यो येऽर्हसत्तमाः।
तेभ्यः स्वयं नमश्चक्रे प्रजाभिश्च नमस्कृतः ॥४०॥
After offering the wooden
shoes before Lord Ramachandra, Lord Bharata stood with folded hands, His eyes
full of tears, and Lord Ramachandra bathed Bharata with tears while embracing
Him with both arms for a long time. 
Accompanied by mother Sits and Lakshmana, Lord Ramachandra then offered
His respectful obeisances unto the learned brahmanas and the elderly persons in
the family, and all the citizens of Ayodhya offered their respectful obeisances
unto the Lord.
धुन्वन्त उत्तरासङ्गान् पतिं वीक्ष्य चिरागतम्।
उत्तराः कोसला माल्यैः किरन्तो ननृतुर्मुदा ॥४१॥
The citizens of Ayodhya, upon seeing their King return
after a long absence, offered Him flower garlands, waved their upper cloths,
and danced in great jubilation.
पादुके भरतोऽगृह्णाच्चामरव्यजनोत्तमे।
विभीषणः ससुग्रीवः श्वेतच्छत्रं मरुत्सुतः ॥४२॥
धनुर्निषङ्गाञ्छत्रुघ्नः सीता तीर्थकमण्डलुम्।
अबिभ्रदङ्गदः खड्गं हैमं चर्मर्क्षराण्‌ नृप॥४३॥
O King, Lord Bharata carried Lord Ramachandra’s wooden
shoes , Sugriva and Vibhishana carried a whisk and an excellent fan, Hanuman
carried a white umbrella, Satrughna carried a bow and two quivers, and Sitadevi
carried a water pot filled with water from holy places,  Angada carried a sword, and Jambavan, King of
the Rkshas, carried a golden shield. 
पुष्पकस्थोऽन्वितः स्त्रीभिः स्तूयमानश्च वन्दिभिः।
विरेजे भगवान् राजन् ग्रहैश्चन्द्र इवोदितः ॥४४॥
O King parikshit, as the Lord sat on his airplane,
Pushpaka, with women offering Him prayers and reciters chanting about His
characteristics, He appeared like the moon with the stars and planets. 
भ्रातृभिर्नन्दितः सोऽपि सोत्सवां प्रविशत् पुरीम्।
प्रविश्य राजभवनं गुरुपत्नीः स्वमातरम्॥४५॥
गुरून् वयस्यानवरजान् पूजितः प्रत्यपूजयत्।
वैदेही लक्ष्मणश्चैव यथावत् समुपेयतुः ॥४६॥
Thereafter, having been welcomed by His brother
Bharata, Lord Ramachandra entered the city of Ayodhya in the midst of a
festival.  When He entered the palace, He
offered obeisances to all the mothers, including Kaikeyi and the other wives of
Maharaja Dasaratha, and especially his own mother, Kausalya.  He also offered obeisances to the spiritual
preceptors, such as Vasishtha.  Friends
of His own age and younger friends worshiped Him, and He returned their
respectful obeisances, as did Lakshmana and mother Sita. In this way they all
entered the palace.  
पुत्रान् स्वमातरस्तास्तु प्राणांस्तन्व इवोत्थिताः।
आरोप्याङ्केऽभिषिञ्चन्त्यो बाष्पौघैर्विजहुः शुचः॥४७॥
Upon seeing their sons,
the mothers of Rama, Lakshmana, Bharata and Satrughna immediately arose, like
unconscious bodies returning to consciousness. 
The mothers placed their sons on their laps and bathed them with tears,
thus relieving themselves of the grief of long separation.  
जटा निर्मुच्य विधिवत् कुलवृद्धैः समं गुरुः।
अभ्यषिञ्चद् यथैवेन्द्रं चतुःसिन्धुजलादिभिः ॥४८॥
The family priest or
spiritual master, Vasishtha, had Lord Ramachandra cleanly shaved, freeing Him
His matted locks of hair.  Then, with the
cooperation of the elderly members of the family, he performed the bathing ceremony
[abhisheka] for Lord Ramachandra with the water of the four seas and with other
substances, just as it was performed for King Indra.
एवं कृतशिरःस्नानः सुवासाः स्रग्व्यलङ्कृतः।
स्वलङ्कृतैः सुवासोभिर्भ्रातृभिर्भार्यया बभौ॥४९॥    
Lord Ramachandra, fully bathed and His head
clean-shaven, dressed Himself very nicely and was decorated with a garland and
ornaments.  Thus he shone brightly,
surrounded by His brothers and wife, who were similarly dressed and ornamented.
अग्रहीदासनं भ्रात्रा प्रणिपत्य प्रसादितः।
प्रजाः स्वधर्मनिरता वर्णाश्रमगुणान्विताः।
जुगोप पितृवद् रामो  मेनिरे पितरं च तम् ॥५०॥
Being pleased by the full
surrender and submission of Lord Bharata, Lord Ramachandra then accepted the
throne of the state.  He cared for the
citizens exactly like a father, and the citizens, being fully engaged in their
occupational duties of varna and ashrama, accepted Him as their
father.
त्रेतायां वर्तमानायां कालः कृतसमोऽभवत्।
रामे राजनि धर्मज्ञे सर्वभूतसुखावहे ॥५१॥
Lord Ramachandra became King during Treta-yuga, but
because of his good government, the age was like Satya-yuga. Every one
was religious and completely happy.
वनानि नद्यो गिरयो वर्षाणि द्वीपसिन्धवः।
सर्वे कामदुघा आसन् प्रजानां भरतर्षभ ॥५२॥
Lord Ramachandra O
Maharaja Parikshit, best of the Bharata dynasty, during the reign of Lord
Ramachandra the forests, the rivers, the hills and mountains, the states, the
seven islands and the seven seas were all favourable in supplying the
necessities of life for all living beings.
नाधिव्याधिजराग्लानिदुःखशोकभयक्लमाः।
मृत्युश्चानिच्छतां नासीद् रामे राजन्यधोक्षजे॥५३॥
When Lord Ramachandra,
the Supreme Personality of Godhead, was the King of this world, all bodily and
mental suffering, disease, old age, bereavement, lamentation, distress, fear
and fatigue were completely absent.. There was even no death for those who did
not want it.
  
एकपत्नीव्रतधरो राजर्षिचरितः शुचिः।
स्वधर्मं गृहमेधीयं शिक्षयन् स्वयमाचरत्॥५४॥
Lord Ramachandra took a
vow to accept only one wife and have no connection with any other woman.  He was a saintly king, and everything in His
character was good, untinged by qualities like anger.  He taught good behaviour for everyone,
especially for householders, in terms of varnashrama-dharma.  Thus he taught the general public by His
personal activities.
प्रेम्णानुवृत्त्या शीलेन प्रश्रयावनता सती।
धिया ह्रिया च भावज्ञा भर्तुः सीताहरन्मनः ॥५५॥
Mother Sita was very
submissive, faithful, shy and chaste, always understanding the attitude of her
husband.    Thus by her character and her love and
service she completely attracted the mind of the Lord.    
॥इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां नवमस्कन्धे
         रामचरिते दशमोऽध्यायः॥