श्रीजगद्धात्रीस्तोत्रम्
(श्रीजगद्धात्री कल्पांतर्गतम्)
आधारभूते चाधेये
धृतिरूपे धुरंधरे ।
धृतिरूपे धुरंधरे ।
ध्रुवे ध्रुवपदे धीरे जगद्धात्रि नमोऽस्तु ते
॥ १ ॥
॥ १ ॥
शिवाकारे शक्तिरूपे शक्तिस्थे शक्तिविग्रहे ।
शाक्ताचारप्रिये देवि जगद्धात्रि नमोऽस्तु ते
॥ २ ॥
॥ २ ॥
जयदे जगदानन्दे जगदेकप्रपूजिते ।
जय सर्वगते दुर्गे जगद्धात्रि नमोऽस्तु ते
॥ ३ ॥
॥ ३ ॥
सूक्ष्मातिसूक्ष्मरूपे च प्राणापानादिरूपिणि ।
भावाभावस्वरूपे च जगद्धात्रि नमोऽस्तु ते ॥ ४ ॥
कालादिरूपे कालेशे कालकालविभेदिनि ।
सर्वस्वरूपे सर्वज्ञे जगद्धात्रि नमोऽस्तु ते
॥ ५ ॥
॥ ५ ॥
महाविघ्ने महोत्साहे महामाये वरप्रदे ।
प्रपञ्चसारे साध्वीशे जगद्धात्रि नमोऽस्तु ते
॥ ६ ॥
॥ ६ ॥
अगम्ये जगतामाद्ये माहेश्वरि वरांगने ।
अशेषरूपे रूपस्थे जगद्धात्रि नमोऽस्तु ते ॥ ७ ॥
तीर्थयज्ञतपोदानयोगसारे जगन्मयि ।
त्वमेव सर्वं सर्वस्थे जगद्धात्रि नमोऽस्तु ते
॥ ८ ॥
॥ ८ ॥
दयारूपे दयादृष्टे दयार्द्रे दुःखमोचनि ।
सर्वापत्तारिके दुर्गे जगद्धात्रि नमोऽस्तु ते
॥ ९ ॥
॥ ९ ॥
अगम्यधामधामस्थे महायोगीशहृत्पुरे ।
अमेयभावकूटस्थे जगद्धात्रि नमोऽस्तु ते ॥ १० ॥
***