२९. श्री अम्बापञ्चरत्नम्
अम्बा शंबरवैरितातभगिनी श्रीचन्द्रबिम्बानना
बिम्बोष्ठी स्मितभाषिणी शुभकरी कादम्बवाट्याश्रिता ।
ह्रीङ्काराक्षरमन्त्रमध्यसुभगा श्रोणी नितम्बाङ्किता
मामम्बापुरवासिनी भगवती हेरम्बमाताऽवतु ॥ १ ॥
कल्याणी कमनीयसुन्दरवपुः कात्यायनी कालिका
कालश्यामलमॆचकद्युतिमती गायत्रिपञ्चाक्षरी ।
कामाक्षी करुणानिधिः कलिमलारण्यातिदावानला
मामम्बापुरवासिनी भगवती हेरम्बमाताऽवतु ॥ २ ॥
काञ्चीकङ्कणहारकुण्डलवती कोटी किरीटान्विता
कन्दर्पद्युतिकोटि कोटि सदना पीयूषकुम्भस्तना ।
कौसुम्भारुणकाञ्चनाम्बरवृता कैलासवासप्रिया
मामम्बापुरवासिनी भगवती हेरम्बमाताऽवतु ॥ ३ ॥
या सा शुम्भनिशुम्भदैत्यशमनी या रक्तबीजाशनी
या श्री विष्णुसरोजनेत्रभवना या ब्रह्मविद्यासनी ।
या देवी मधुकैटभासुररिपुः या माहिषध्वंसिनी
मामम्बापुरवासिनी भगवती हे रम्बमाताऽवतु ॥ ४ ॥
श्रीविद्या परदॆवताऽऽदिजननी दुर्गा जया चण्डिका
बाला श्रीत्रिपुरेश्वरी शिवसती श्रीराजराजेश्वरी ।
श्रीराज्ञी शिवदूतिका श्रुतिनुता शृङ्गारचूडामणिः
मामम्बापुरवासिनी भगवती हेरम्बमाताऽवतु ॥ ५ ॥
अम्बा पञ्चकमद्भुतं पठति चेत् यो वा प्रभातेऽनिशं
दिव्यैश्वर्यशतायुरुत्तममिदं विद्यां श्रियं शाश्वतम् ।
लब्ध्वा भूमितले स्वधर्मनिरतां श्रीसुन्दरीं भामिनीं
अन्तॆ स्वर्गफलं लभेत् स विबुधैः संस्तूयमानॊ नरः ॥ ६ ॥
***
Click here to get to the Master Index from where you can access more than 600 posts