SRI NRISIMHAVATARA CHURNIKA

                श्री नृसिंहावतारचूर्णिका
इत्थं दानवेन्द्रः हिरण्यकशिपुः परिगृह्यमाणवैरः,  वैरानुबन्धजाज्वल्यमानरोषानलः, रोषानलजंघन्यमानविज्ञानविनयः,विनयगांभीर्यजेगीयमानहृदयः, हृदयचाञ्चल्यमानतामसः, तामसगुणचंक्रमाणस्थैर्यो भूत्वा,  विस्रंभेण हुंकृत्य, बालं प्रह्लादं परमभागवतं धिक्कृत्य
भगवन्तं श्रियःपतिं अस्मिन् स्तंभे दर्शयेति,  कनत्कनकमयकंकण क्रेङ्कारशब्दपूर्वकं दिग्दन्तिदन्तभेदनपाटवप्रशस्तेन हस्तेन सभामण्डपस्तंभे प्रताडिते, प्रक्षुभित
परिविदलितदशदिगन्तात् तन्महास्तंभात्  बंभज्यमानात्, प्रोद्भूतैः जंजन्यमानैः,
प्रलयवेलासंभूतसप्तस्कन्धबन्धुरसमीरणसंघटितघोररजोघुष्यमा-ण महाबलाहकवर्गनिर्गत-
निबिडनिष्ठुर दुस्सहनिर्घातसंघ निघोषनिकाशच्छटच्छट स्फटस्फटद्ध्वनिप्रमुखभयंकरारवपुञ्जैः
परिव्याप्तैः निरवकाशं आकाशकुहरान्तरालेषु परिपूरितेषु, प्रक्षुभितप्रकंपितस्वस्वस्थानतया परवशैः नितान्तदोधूयमानहृदयैः पितामहमहेन्द्रवरुणवायुशिखिमुखचराचरजन्तुजालैस्सह ब्रह्माण्डकटाहेषु
परिस्फोटितेषु, भगवान् श्रियः पतिः श्रीमन्नारायणः, भक्तानामभयंकरः, दुष्टनिग्रहशिष्टपरिपालनक्षमः, शरणागतवत्सलः, प्रफुल्लपद्मयुगलसङ्काशभास्वरचक्रचापहलकुलिशजलचररेखाङ्कितचारुचरणतलः,
चरणचंक्रमणघनविनमितविश्वविश्वंभराभारधौरेय दिक्कुंभिकुंभिनसकुंभिनीधरकूर्मकुलशेखरः, जलराशिजातशुण्डालशुण्डादण्डमण्डितप्रकाण्डप्रचण्डमहोरुस्तंभ-युगलः,
घणघणायमानमणिकिंकिणीकणमुखरितमेखलावलयवलयित-पीतांबर-
परिशोभितकटिप्रदेशः,  निर्जरनिम्नगावर्तवर्तुलकमलाकरगंभीरनाभिविवरः,
कुलाचलसानुभागसदृशकर्कशविशालवक्षस्थलः, दुर्जनदनुजधैर्यलतिकालवित्रायमाण-
रक्षोराजवक्षोभागविशंकटक्षेत्रविलेखनचङ्गलाङ्गलायमान-शरणागतनयनचकोरचन्द्ररेखायमाण-
वज्रायुधप्रतिमानभासमाननिशातनखरतरमुखनखरः,शंखचक्रगदाखड्गकुन्ततोमरप्रमुखनानायुधः,
महितमहोत्तुङ्गमहीधरशृङ्गसन्निभः, वीरसागरवेलायमानमालिकाविराजमानः,
निरर्गलानेकशतभुजार्गलः, मञ्जुमञ्जीरमणिपुञ्जरञ्जितमञ्जुलहारकेयूरकङ्कणकिरीट-
मकरकुण्डलादिभूषणभूषितः, त्रिवलियुतशिखरिशिखराभपरिणद्धबन्धुरकन्धरः, प्रकंपनकंपित-
पारिजातपादपपल्लवप्रतीकाशकोपावेशसञ्चलिताधरः, शरत्कालमेघजालमध्यधगद्धगायमान-तटिल्लतासमानदेदीप्यमानदंष्ट्राङ्कुरः, कल्पान्तकालसकलभुवनग्रसनविलसनविजृंभमाण-
सप्तजिह्वजिह्वातुलिततरलतरायमाणविभ्राजमानजिह्वः, मेरुमन्दरमहागुहान्तरालविस्तार-
विपुलवक्त्रनासिकारंध्रः नासिकारंध्रनिस्सरन्निबिडनिश्वासनिकरसंघट्टनसंक्षोभित-
सन्तप्यमानसप्तसागरः, पूर्वपर्वतविद्योतमानखद्योतमण्डलसदृक्षसमञ्चितलोचनः,
लोचनाञ्चलसमुत्कीर्यमाणविलोलकीलाभीलविस्फुलिंगवितान-
रोरुध्यमानतारकाग्रहमण्डलः, शक्रचापसुरुचिरादभ्रमहाभ्रूलताबन्धबन्धुरभयंकरवदनः,
घनतरगण्डशैलतुल्यकमनीयगण्डभागः, सन्ध्यारागरक्तधाराधरमालिकाप्रतिम-
महाभ्रङ्कषतन्तन्यमानपटुतरसटाजालः, सटाजालसञ्चालसञ्जातवाताहति-
डोलायमानवैमानिकविमानः, निष्कंपितशंखवर्णमहोर्ध्वकर्णः, मन्थदण्डायमान-
मन्दरवसुन्धराधरपरिभ्रमणवेगसमुत्पद्यमानवियन्मण्डलमण्डितसुधाराशिकल्लोल-
शीकराकारभासुरकेसरः, पर्वाखर्वशिशिरकिरणमयूखगौरतनूरुहः, निजगर्जानिनद-
निर्दलितकुमुदसुप्रतीकवामनैरावणसार्वभौमप्रमुखदिगिभराजकर्णकॊटरः,
धवलधराधरदीर्घदुरवलोकनीयदिव्यदेहः, देहप्रभापटलनिर्मथ्यमानपरिपन्थियातुधान-
निकुरुंबगर्वान्धकारः, प्रह्लादहिरण्यकशिपुरञ्जनभञ्जननिमित्तान्तरंगबहिरंगजेगीयमानकरुणावीररससंयुतः, महाप्रभावः, श्रीनारायणनरसिंहः, नारायणवीरसिंहः,
नारायणक्रूरसिंहः, नारायणदिव्यसिंहः, नारायणव्याघ्रसिंहः, नारायणपुच्छसिंहः,
नारायणपूर्णसिंहः, नारायणरौद्रसिंहः, भीषणभद्रसिंहः, विह्वलनेत्रसिंहः, बृंहितभूतसिंहः,
निर्मलचित्रसिंहः, निर्ज्जितकालसिंहः, कल्पितकल्पसिंहः, कामदकामसिंहः,
भुवनैकपूर्णसिंहः, कालाग्निरुद्रसिंहः, अनन्तसिंहराजसिंहः, जयसिंहरूपसिंहः,
नरसिंहरूपसिंहः, रणसिंहरूपसिंहः, महासिंहरूपसिंहः, अभयंकररूपसिंहः,
हिरण्यकशिपुहारिसिंहः, प्रह्लादवरदसिंहः, भक्ताभीष्टदायिसिंहः, लक्ष्मीनृसिंहरूपसिंहः
अत्यद्भुतरूपसिंहः, श्रीनृसिंहदेवः आत्मनस्सकलभुवनव्याप्तिं निजभृत्यभाषितं
च सत्यं विधातुं, प्रपन्नरक्षणाय परिस्फोटिततन्महास्तंभे पर्यदृश्यत, पर्यदृश्यत ॥    

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.