श्रीललिताष्टोत्तरशतस्तोत्रनामावलिः
रजताचलशृंगाग्रमध्यस्थायै नमो नमः
हिमाचलमहावंशपावनायै नमो नमः
शंकरार्धांगसौन्दर्यशरीरायै नमो नमः
लसन्मरकतस्वच्छविग्रहायै नमो नमः
महातिशयसौन्दर्यलावण्यायै नमो नमः
शशांकशेखरप्राणवल्लभायै नमो नमः
सदा पञ्चदशात्मैक्यस्वरूपायै नमो नमः
वज्रमाणिक्यकटककिरीटायै नमो नमः
कस्तूरितिलकोद्भासिनिटिलायै नमो नमः
भस्मरेखाङ्कितलसन्मस्तकायै नमो नमः ॥१०॥
विकचांभोरुहदललोचनायै नमो नमः
शरच्चांपेयपुष्पाभनासिकायै नमो नमः
लसत्कनकताटंकयुगलायै नमो नमः
मणिदर्पणसंकाशकपोलायै नमो नमः
तांबूलपूरितस्मेरवदनायै नमो नaxमः
सुपक्वदाडिमीबीजरदनायै नमो नमः
कंबुपूगसमच्छायकन्धरायै नमो नमः
स्थूलमुक्ताफलोदारसुहारायै नमो नमः
गिरीशबद्धमांगल्यमंगलायै नमो नमः
पद्मपाशाङ्कुशलसत्कराब्जायै नमो नमः॥२०॥
पद्मकैरवमन्दारसुमालिन्यै नमो नमः
सुवर्णकुंभयुग्माभसुकुचायै नमो नमः
रमणीयचतुर्बाहुसंयुक्तायै नमो नमः
कनकांगदकेयूरभूषितायै नमो नमः
बृहत्सौवर्णसौन्दर्यवसनायै नमो नमः
बृहन्नितंबविलसद्रशनायै नमो नमः
सौभाग्यजातशृङ्गारमध्यमायै नमो नमः
दिव्यभूषणसन्दोहरंजितायै नमो नमः
पारिजातगुणाधिक्यपदाब्जायै नमो नमः
सुपद्मरागसंकाशचरणायै नमो नमः ॥३०॥
कामकॊटिमहापद्मपीठस्थायै नमो नमः
श्रीकण्ठनेत्रकुमुदचन्द्रिकायै नमो नमः
सचामररमावाणीवीजितायै नमो नमः
भक्तरक्षणदाक्षिण्यकटाक्षायै नमो नमः
भूतेशालिंगनोद्भूतपुलकांग्यै नमो नमः
अनंगजनकापांगवीक्षणायै नमो नमः
ब्रह्मोपेन्द्रशिरोरत्नरञ्जितायै नमो नमः
शचीमुख्यामरवधूसेवितायै नमो नमः
लीलाकल्पितविध्यण्डमण्डलायै नमो नमः
अमृतादिमहाशक्तिसंवृतायै नमो नमः ॥४०॥
एकातपत्रसाम्राज्यदायिकायै नमो नमः
सनकादिसमाराध्यपादुकायै नमो नमः
देवर्षिसंस्तूयमानवैभवायै नमो नमः
कलशोद्भवदुर्वासपूजितायै नमो नमः
मत्तेभवक्त्रषड्वक्त्रवत्सलायै नमो नमः
चक्रराजमहायंत्रमध्यवर्त्यै नमो नमः
चिदग्निकुण्डसंभूतसुदेहायै नमो नमः
शशाङ्कखण्डसंयुक्तमकुटायै नमो नमः
मत्तहंसवधूमन्दगमनायै नमो नमः
वन्दारुजनसन्दोहवन्दितायै नमो नमः ॥५०॥
अन्तर्मुखजनानन्दफलदायै नमो नमः
पतिव्रतांगनाभीष्टफलदायै नमो नमः
अव्याजकरुणापूरपूरितायै नमो नमः
निरंजनचिदानन्दसंयुक्तायै नमो नमः
सहस्रसूर्येन्द्वयुतप्रकाशायै नमो नमः
रत्नचिन्तामणिगृहमध्यस्थायै नमो नमः
हानिवृद्धिगुणाधिक्यरहितायै नमो नमः
महापद्माटवीमध्यनिवासायै नमो नमः
जाग्रत्स्वप्नसुषुप्तीनां साक्षिभूत्यै नमो नमः
महातापौघपापानां विनाशिन्यै नमो नमः ॥६०॥
दुष्टभीतिमहाभीतिभञ्जनायै नमो नमः
समस्तदेवदनुजप्रेरकायै नमो नमः
समस्तहृदयांभोजनिलयायै नमो नमः
अनाहतमहापद्ममन्दिरायै नमो नमः
सहस्रारसरोजातवासितायै नमो नमः
पुनरावृत्तिरहितपुरस्थायै नमो नमः
वाणीगायत्रीसावित्रीसन्नुतायै नमो नमः
नीलारमाभूसंपूज्यपदाब्जायै नमो नमः
लोपामुद्रार्चितश्रीमच्चरणायै नमो नमः
सहस्ररतिसौन्दर्यशरीरायै नमो नमः ॥७०॥
भावनामात्रसंतुष्टहृदयायै नमो नमः
नतसंपूर्णविज्ञानसिद्धिदायै नमो नमः
त्रिलोचनकृतोल्लासफलदायै नमो नमः
श्रीसुधाब्धिमणिद्वीपमध्यगायै नमो नमः
दक्षाध्वरविनिर्भेदसाधनायै नमो नमः
श्रीनाथसोदरीभूतशोभितायै नमो नमः
चन्द्रशेखरभक्तार्तिभञ्जनायै नमो नमः
सर्वोपाधिविनिर्मुक्तचैतन्यायै नमो नम:
नामपारायणाभीष्टफलदायै नमो नम:
सृष्टिस्थितितिरोधानसंकल्पायै नमो नम: ॥८०॥
श्रीषोडशाक्षरीमंत्रमध्यगायै नमो नम:
अनाद्यन्तस्वयंभूतदिव्यमूर्त्यै नमो नम:
भक्तहंसवतीमुख्यनियोगायै नमो नम:
मातृमण्डलसंयुक्तललितायै नमो नम:
भण्डदैत्यमहासद्मनाशनायै नमो नम:
क्रूरभण्डशिरच्छेदनिपुणायै नमो नम:
धराच्युतसुराधीशसुखदायै नमो नम:
चण्डमुण्डनिशुंभादिखण्डनायै नमो नम:
रक्ताक्षरक्तजिह्वादिशिक्षणायै नमो नम:
महिषासुरदोर्वीर्यनिग्रहायै नमो नम: ॥९०॥
अभ्रकेशमहोत्साहकारणायै नमो नम:
महेशयुक्तनटनतत्परायै नमो नम:
निजभर्तृमुखांभोजचिन्तनायै नमो नम:
वृषभध्वजविज्ञानतपस्सिध्यै नमो नम:
जन्ममृत्युजरारोगभञ्जनायै नमो नम:
विरक्तिभक्तिविज्ञानसिद्धिदायै नमो नम:
कामक्रोधादिषड्वर्गनाशनायै नमो नम:
राजराजार्चितपदसरोजायै नमो नम:
सर्ववेदन्तसिद्धान्तसुतत्वायै नमो नम:
श्रीवीरभक्तिविज्ञाननिदानायै नमो नम: ॥१००॥
अशेषदुष्टदनुजसूदनायै नमो नम:
साक्षात्श्रीदक्षिणामूर्तिमनोज्ञायै नमो नम:
हयमेधाग्रसंपूज्यमहिमायै नमो नमः
दक्षप्रजापतिसुतावेषाढ्यायै नमो नमः
सुमबाणेक्षुकोदण्डमण्डितायै नमो नमः
नित्ययौवनमांगल्यमंगलायै नमो नमः
महादेवसमायुक्तमहादेव्यै नमो नमः
चतुर्विंशतितत्वैकस्वरूपायै नमो नमः॥१०८॥
You must log in to post a comment.