नवग्रहस्तोत्रम्
भास्वान् मे भासयेत्तत्त्वं चन्द्रश्चाह्लादकृद्भवेत् ।
मङ्गलो मङ्गलं दद्यात् बुधश्च बुधतां दिशेत्॥१॥
गुरुर्मे गुरुतां दद्यात् कविश्च कवितां दिशेत्।
शनिश्च शं प्रापयतु केतुः केतुं जयेऽर्पयेत्॥२॥
राहुर्मे राहयेद्रोगं ग्रहास्सन्तु वरग्रहाः।
नवं नवं ममैश्वर्यं दिशन्त्वेते नवग्र्हाः॥३॥
शने दिनमणेः सूनो स्वनेकगुणसन्मणे।
अरिष्टं हर मेऽभीष्टं कुरु मा कुरु सङ्कटम् ॥४॥
हरेरनुग्रहार्थाय शत्रूणां निग्रहाय च।
वादिराजयतिप्रोक्तं ग्रहस्तोस्त्त्रं सदा पठेत्॥५॥
You must log in to post a comment.