श्री परमार्थश्लोकद्वयम्
वन्देऽहं वरदार्यं तं वत्साभिजनभूषणम्।
भाष्यामृतप्रदानाद्यः सञ्जीवयति मामपि॥
सत्संगात्भव निःस्पृहो गुरुमुखात् श्रीशं प्रपद्यात्मवान्
प्रारब्धं परिभुज्य कर्मशकलं प्रक्षीणकर्मान्तरः।
न्यासादेव निरङ्कुशेश्वरदयानिर्लूनमायान्वयो
हार्दानुग्रहलब्धमध्यधमनिद्वारा बहिर्निर्गतः ॥१॥
मुक्तोऽर्चिर्दिनपूर्वपक्षषडुदङ्मासाब्दवातांशुमत्
ग्लौ विद्युत्वरुणेन्द्रधातृ महितः सीमान्तसिन्ध्वाप्लुतः।
श्रीवैकुण्ठमुपेत्य नित्यमजडं तस्मिन् परब्रह्मणः
सायुज्यं समवाप्य नन्दति समं तेनैव धन्यः पुमान् ॥२॥
प्रातर्नित्यानुसन्धेयं परमार्थं मुमुक्षुभिः।
श्लोकद्वयेन संक्षिप्तं सुव्यक्तं वरदोऽब्रवीत् ॥३॥