श्रीचतुःश्लोकी
स्वादयन्निह सर्वेषां त्रय्यन्तार्थं सुदुर्ग्रहम्।
स्तोत्रयामास योगीन्द्रः तं वन्दे यामुनाह्वयम् ॥
स्तोत्रयामास योगीन्द्रः तं वन्दे यामुनाह्वयम् ॥
यत्पादाम्भोरुहध्यानविध्वस्ताशेषकल्मषः।
वस्तुतामुपयातोऽहं यामुनेयं नमामि तम् ॥
नमो नमो यामुनाय यामुनाय नमो नमः।
नमो नमो यामुनाय यामुनाय नमो नमः॥
कान्तस्ते पुरुषोत्तमः फणिपतिः शय्याऽऽसनं वाहनं
वेदात्मा विहगेश्वरो यवनिका माया जगन्मोहिनी।
ब्रह्मेशादिसुरव्रजः सदयितास्त्वद्दासदासीगणः
श्रीरित्येव च नाम ते भगवति ब्रूमः कथं त्वां वयम् ॥१॥
यस्यास्ते महिमानमात्मन इव त्वद्वल्लभोऽपि प्रभुः
नालं मातुमियत्तया निरवधिं नित्यानुकूलं स्वतः।
तां त्वां दास इति प्रपन्न इति च स्तोष्याम्यहं निर्भयः
लोकैकेश्वरि लोकनाथदयिते दान्ते दयां ते विदन् ॥२॥
ईषत् त्वत्करुणानिरीक्षणसुधासंधुक्षणाद्रक्ष्यते
नष्टं प्राक् तदलाभतस्त्रिभुवनं संप्रत्यनन्तोदयम्।
श्रेयो न ह्यरविन्दलोचनमनःकान्ताप्रसादादृते
संसृत्यक्षरवैष्णवाध्वसु नृणां संभाव्यते कर्हिचित्॥३॥
शान्तानन्तमहाविभूति परमं यद्ब्रह्म रूपं हरेः
मूर्तं ब्रह्म ततोऽपि तत्प्रियतरं रूपं यदत्यद्भुतं।
यान्यन्यानि यथासुखं विहरतो रूपाणि सर्वाणि ते
आहुः स्वैरनुरूपरूपविभवैर्गाढोपगूढानि ते ॥४॥
आकारत्रयसम्पन्नां अरविन्दनिवासिनीम्।
अशेषजगदीशित्रीं वन्दे वरदवल्लभाम् ॥
॥इति श्रीचतुःश्लोकी समाप्ता॥
You must log in to post a comment.