वाराह्यनुग्रहाष्टकम्
मातर्ज्जगद्रचननाटकसूत्रधारः
सद्रूपमाकलयितुं परमार्थतो यम्।
ईशोप्यनीश्वरपदं समुपैति तादृक्
कोऽन्यः स्तवं किमिव तावकमादधातु ॥१॥
नामानि किन्तु गृणतस्तवलोकतुण्डे
नाडंबरं स्पृशति दण्डधरस्य दण्डः।
तल्लेशलङ्घितभवांबुनिधी यतोऽयं
त्वन्नामसंस्मृतिरियं न पुनः स्तुतिस्ते॥२॥
त्वच्चिन्तनादरसमुल्लसदप्रमेया-
नन्दोदयात् समुदितस्फुटरोमहर्षः।
मातर्नमामि सुदिनानि सदेत्यमुं त्वा-
मभ्यर्थयेर्थमिति पूरयताद्दयालो ॥३॥
इन्द्रेन्दुमौलिविधिकेशवमौलिरत्न-
रोचिश्चयोज्ज्वलितपादसरोजयुग्मे।
चेतोनतौ मम सदा प्रतिबिंबिता त्वं
भूयो भवानि भवनाशिनि भावये त्वां ॥४॥
लीलोद्धृतक्षितितलस्य वराहमूर्ते-
र्वाराहमूर्तिरखिलार्थकरी त्वमेव।
प्रालेयरश्मिसुकलोल्लसितावतंसा
त्वं देवि वामतनुभागहरा हरस्य॥५॥
त्वामंब तप्तकनकोज्ज्वलकान्तिमन्त-
र्ये चिन्तयन्ति युवतीतनुमं गलान्तां ।
चक्रायुधां त्रिनयनां वरपोत्रिवक्त्रां
तेषां पदांबुजयुगं प्रणमन्ति देवाः ॥६॥
त्वत्सेवनस्खलितपापचयस्य मात-
र्मोक्षोऽपि यस्य न सतो गणनामुपैति।
देवासुरोरगनृपूजितपादपीठ:
कस्याः श्रियः स खलु भाजनतां न धत्ते ॥७॥
किं दुष्करं त्वयि मनोविषयं गतायां
किं दुर्लभं त्वयि विधानुवदर्चितायाम्।
किं दुर्भरं त्वयि सकृत्स्मृतिमागतायां
किं दुर्ज्जयं त्वयि कृतस्तुतिवादपुंसाम् ॥८॥